Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः। मनसा त्यज तानिष्टान् यदीच्छसि तपःफलम् ॥ २४७ ॥ त्वचः संयममात्रेण स्पर्शान् कान् के त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ।। २४८ ॥ बस्तिसंयममात्रेण ब्रझै के के न बिभ्रते । मनःसंयमतो धेहि धीर चेत्तत्फलार्थ्यसि ॥ २४९ ॥ विषयेन्द्रियसंयोगाभावात् के के न संयताः । रागद्वेषमनोयोगाभावाद्ये तु स्तवीमि तान् ॥ २५० ॥ कषायान् संवृणु प्राज्ञ नरकं यदसंवरात् । महातपस्विनोऽप्यापुः करटोत्करटादयः ॥ २५१ ॥ यस्यास्ति किञ्चिन्न तपोयमादि ब्रूयात्स यत्तत्तुदैतां परान् वा । यस्यास्ति कष्टाप्तमिदं तु किं न तद्भशभीः संवृणुते स योगान् ।। २५२ ॥ भवेत्समग्रेष्वपि संवरेषु परं निदानं शिवसंपदां यः । त्यजन् कषायादिजदुर्विकल्पान् कुर्यान्मनःसंवरमिद्धंधीस्तम् ॥ २५३ ॥ तदेवमात्मा कृतसंवरः स्यात् निःसंगतीभाक् सततं सुखेन । निःसंगभावादथ संवरस्तद्वैयं शिवार्थी युगपद्भजेत ॥ २५४ ॥ शुभवृत्तिशिक्षोपदेशाधिकारः । आवश्यकेष्वातनु यत्नमाप्तोदितेषु शुद्धेषु तमोपहेषु । १ समतापरिणामपरिणतचेतसा। २ मोक्षम् । ३ केवलमूत्राशयनिरोधेन । ४ ब्रह्मव्रतं । ५ कृत्रिमनपुंसकीकृतनरतुरगबलीवर्दादयो नारकाः संमूछिमाश्च । ६ ब्रह्मधेहि । धारयेत्यर्थः । ब्रह्मचर्यफलं मोक्षः तदर्थी । ८ क्षयोपशमेन अनुदयावस्थान् कुरु। ९ करटोत्करटादिकथा परिशिष्टेऽवलोकनीया । १० वदतु। ११ सावा निरर्थकं वा। १२ अशुभमनोवाकाययोगादिना व्यथां जनयतु। १३ अथवा । १४ बहुप्रयासप्राप्तं तपःसंयमादिसुकृतं। १५ किं न संवृणुते कथं न नियन्त्रयति । १६ समृद्धबुद्धिः पुमान् । तं मनःसंवरम् । १७ निष्पादितसकलकषाययोगनिरोधः । १८ पुत्रकलत्रादिममताराहिल्यवान् । १९ अनायासेन । २० संब्रियन्ते निवार्यन्ते समागच्छन्ति कर्माणि यस्मात् स संवरः । २१ निःसंगतासंवरलक्षणं द्वयम् । २२ प्रतिदिनानुष्ठेयषडावश्यकप्रवृत्तिषु । सामायिकचतुर्विंशतिस्तववंदनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानाख्येषु नित्यकर्तव्येषु । २३ भगवत्प्रतिपादितेषु । २४ निर्दोषेषु सामायिकादिविषयकदोषरहितेषु । २५ पुराकृतपापहरेषु । 707 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86