Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
अध्यात्मकल्पद्रुमः। नाम्नापि यस्येति जनेऽसि पूज्यः शुद्धात्ततो नेष्टसुखानि कानि । तत्संयमेऽस्मिन् यतसे मुमुक्षोऽनुभूयमानोरुफलेऽपि किं न ॥ २३२ ॥
मिथ्यात्वादिनिरोधोपदेशाधिकारः । मिथ्यात्वयोगाविरतिप्रमादानात्मन् सदा संवेणु सौख्यमिच्छन् । असंवृता यद्भवतापमेते सुसंवृता मुक्तिरमाञ्च दद्युः ॥ २३३ ॥
मनः संवृणु हे विद्वन्नसंवृतमना यतः ।। याति तंदुलैमत्स्यो द्राक् सप्तमी नरकावनीम् ॥ २३४ ॥ प्रसन्नचन्द्रराजर्मनःप्रेसरसंवरौ । नरकस्य शिवस्यापि हेतुभूतौ क्षणादपि ॥ २३५ ॥ मनोऽप्रवृत्तिमात्रेण ध्यानं नैकेन्द्रियादिषु । धर्म्यशुक्लमैनःस्थैर्यभाजस्तु ध्यायिनः स्तुमः ।। २३६ ॥ साथै निरर्थकं वा यन्मनः सद्धचानयन्त्रितम् ।
विरतं 'दुर्विकल्पेभ्यः पारगांस्तान् स्तुवे यतीन् ॥ २३७ ॥ १ मिथ्यात्वं-आभिग्राहिकं (पाखंडिनां खखशास्त्रनियंत्रितविवेकालोकानां परपक्षप्रतिक्षपदक्षाणाम् ) अनाभिग्राहिक (प्राकृतजनानां, सर्वे देवा वन्द्या न निन्द्याः । एवं सर्वे गुरवः सर्वे धर्माश्चाराध्याः ) आभिनिवेशिकं ( यथास्थितं वस्तु जानतोऽपि दुरभिनिवेशप्लावितधियः) सांशयिकं (देवगुरुधर्मेष्वयमयं वेति संशयानस्य ) अनाभोगिकञ्च (विचारशून्यस्य एकेन्द्रियादेविशेषज्ञानविकल्पस्य ) योगाश्च शुभमनोवाक्कायव्यापाराः। २ दुष्टविषयेभ्यो निवर्तय। ३ महामत्स्यस्य चक्षुःपक्ष्मणि तण्डुलप्रमाणोऽतर्मुहूर्तायुरुपजायते। स प्रसुप्तमहामत्स्यस्य विकखरवदने जलोमिवशात् प्रविशतो नियतश्च बहून् मत्स्यान् वीक्ष्य तासाध्यवसायभृद् दुर्ध्यानदारुणपरिणामेन अन्तर्मुहूर्तेन सप्तमं नरकं गच्छति । ४ प्रसन्नचन्द्रराजर्षिकथा परिशिष्ट द्रष्टव्या । ५ चित्तप्रवृत्तिनिवृत्ती । ६ चेतसः प्रवृत्त्यभावमात्रेण संज्ञिपञ्चेन्द्रियातिरिक्तेषु प्राणिषु एकद्वित्रिचतुरिन्द्रियेषु मनोऽप्रवृत्तिरूपं ध्यानं योगांगं न भवति । प्रत्युत पवनसाधने मनोरोधस्य धर्म्यध्यानशुक्लध्यानान्तरायकारित्वादकिञ्चित्करत्वम् । ७ धHध्यानशुक्लध्यानाभ्यां मनःस्थैर्य भजन्ति ये तान् । ८ येषां मनः । ९ सुध्यान इति वा पाठः । शुभकार्यकरणमनोरथेन नियंत्रितं । अत्र सार्थकता निरर्थकता च शुभकार्यकरणमनोरथे समुत्पन्ने तत्कार्यसिद्धौ सफलता तत्कार्यासिद्धौ च निएफलता । उभयत्रापि शुभकार्यानुबन्धिता । "भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः । फलन्ति यत्पुनस्ते तु तत्सुवर्णस्य सौरभम् ॥” १० अशुभकार्यकरणमनोरथेभ्यो निवृत्तम् ।
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86