Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः ।
निपीड्य भीतीभवदुःखराशेर्हित्वात्मसांच्छेवैसुखं करोषि ॥ २०७॥ यदत्र कष्टं चरणस्य पालने परत्र तिर्यङ्नरकेषु यत् पुनः । तयोमिथः संप्रतिपक्षता स्थिता विशेषदृष्टयान्यतरजहीहि तत् ॥ २०८॥ शमत्र यद्विन्दुरिव प्रमादजं परत्र यच्चाब्धिरिव धुर्मुक्तिगम् । तयोमिथः संप्रतिपक्षता स्थिता विशेषदृष्टयान्यतरगृहाण ॥ २०९ ॥ सह तपोयमसंयमयन्त्रणां स्ववशतासहने हि गुणो महान् । परवशम्वतिभूरि सहिष्यसे न च गुणं बहुमाप्स्यसि कञ्चन ॥ २१० ॥ अणीयसा साम्यनियन्त्रणाभुवा मुनेत्र कष्टेन चरित्रजेन च । यदि क्षयो दुर्गतिगर्भवासगासुखावलेस्तत् किमवापि नार्थितम् ।। २११ ।। त्यज स्पृहां स्वःशिवशर्मलाभे स्वीकृत्य तिर्यङ्नरकादि दुःखम् । सुखाणुभिश्चेद्विषयादिजातैः सन्तोष्यसे संयमकष्टभीरुः ॥ २१२॥ समग्रचिन्तातिहतेरिहापि यस्मिन् सुखं स्यात् परमं रतानाम् । परत्र चेन्द्रादिमहोदयश्रीः प्रमाद्यसीहापि कथं चरित्रे ॥ २१३ ॥ महातपोध्यानपरीषहादि न सत्वसाध्यं यदि 'धर्तुमीशः । तद्भावनाः किं समितीश्च गुप्तीर्घत्से शिवार्थिन् न मनःप्रसाध्याः ॥२१४॥ १ आत्मायत्तं किं न करोषि। २ मोक्षसंबंधि सुखं। ३ नियन्त्रणा या चरणेऽत्र तिर्यक्रीगर्भकुंभीनरकेषु या च । तयोमिथः सप्रतिपक्षभावाद्विशेषदृष्टयान्यतरां गृहाण ॥ इति पाठान्तरम् । ४ अत्र इहभवे चारित्रस्य । ५ परस्परविरोधिता। ६ विवेकदृष्टया गौरवलाघवपालोचनरूपया । पाठांतरे स्थितस्य पदस्य व्याख्या यथा----नियंत्रणा गाढव्रतबन्धनेनावस्थानरूपा । ७ विषयादिजनितं । ८ स्वर्गापवर्गगं । ९ यत्र वर्गापवर्गगं सुखं न तत्र प्रमादजं सुखमितिरूपा विरोधिता। १० मोक्षप्राप्तिलक्षणो गुणः । शिवं गुणः इति पाठान्तरम् । ११ तु पुनः । १२ खर्गापवर्गसुखप्राप्तौ। १३ आदिपदात् मनुष्यभावगतगर्भवासजरामरणादिपरिग्रहः । १४ हरणात् । अभावादित्यर्थः । “न च राजभयं न च चौरभयं । वरकीर्तिकरं नरदेवहितं ॥ इहलोकसुखं परलोकहितं । श्रमणत्वमिदं रमणीयतरम् ॥” १५ महातपोध्यानपरीषहादि चारित्रमित्यर्थः । आदिपदात् उपसर्गपरिग्रहः । १६ सत्वेन मानसशारीरपराक्रमेण साध्यं गम्यम् । १७ कर्तुम् । १८ अनित्यताद्या बोधिपर्यन्ता द्वादश भावनाः। भाव्यते धHध्यानेन संस्क्रियते आत्मा याभिस्ताः। १९ ईर्याद्याः पञ्च । २० मनोगुप्याद्यास्तिस्रः ।
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86