Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः।
२९
गुणैर्विहीनोऽपि जननितिस्तुतिप्रतिग्रहान् यन्मुदितः प्रतीच्छसि । लुलायगोऽश्वोष्ट्रखरादिजन्मभिर्विना ततस्ते भविता न निष्क्रयः ॥१९५॥ गुणेषु नोद्यच्छसि चेन्मुने ततः प्रगीयसे यैरपि वन्द्यसेऽय॑से । जुगुप्सितांप्रेत्य गतिं गतोऽपि तैर्हसिष्यसे चाभिभविष्यसेऽपि वा।।१९६॥ दानमाननुतिवन्दनापरैर्मोदसे निकृतिरञ्जितैर्जनैः । न त्ववैषि सुकृतस्य चेल्लवः कोऽपि सोऽपि तव लुंठ्यते हि तैः॥१९७|| भवेद्गुणी मुग्धंकृतैर्नहि स्तवैन ख्यातिदानार्चनवन्दनाँदिभिः । विना गुणान्नो भवदुःखसंक्षयस्ततो गुणीनर्जय किं स्तवादिभिः।।१९८॥ अध्येषि शास्त्रं सदसद्विचित्रालापीदिभिस्ताम्यसि वा समायैः । येषां जनानामिह रञ्जनाय भवान्तरे ते क मुने क च त्वम् ॥ १९९ ॥ परिग्रहं त्वं व्यजहा गृहादेस्तत् किं नु धर्मोपैतिच्छलात्तम् । करोषि शय्योपधिपुस्तकादेर्गरोऽपि नामान्तरतोऽपि हन्ता ॥ २० ॥ परिग्रहात् स्वीकृतधर्मसाधनाभिधानमात्रात् किमु मूढ तुप्यसि । न वेत्सि हेनाप्यतिभारिता तरी निमज्जयत्यंगिनमम्बुधौ द्रुतम् ।। २०१॥
१ प्रणामः। २ लुलायो महिषः । आदिपदात् भारवाहकगजमनुजादिपरिग्रहः । ३ ज्ञानदर्शनचारित्रलक्षणेषु श्रमणगुणेषु । ४ अत्र अपिशब्द एवकारार्थः । ५ निकृतिमलिनवेषवहनादिलक्षणामाया तया रञ्जिताः स्ववशीकृतास्तैः । ६ भद्रकजननिपादितैः स्तवैः आरोपितगुणप्रशंसनैः । ७ आदिपदादभ्युत्थानासनदानादिपरिग्रहः । ८ ज्ञानदर्शनचारित्रलक्षणान् । ९ सच्छास्त्रं धर्मशास्त्रं । असच्छास्त्रं कामशास्त्र ज्योतिः शास्त्रं वा। १० आदिपदात् धर्मलाभाशीर्वाददानादिपरिग्रहः। ११ सकपटैः। येषां जनानां रंजनाय त्वमेतावदिह भवे करोषि ते जनाः स्वकृतकर्मवशगाः परभवे कस्यामपि गतौ गमिष्यन्ति त्वं च कस्यामपि गमिष्यसि इति किं जनरंजनेन इति भावः। १२ चेद् इति वा पाठः । १३ अत्याक्षीः। १४ अत्र आदिपदात् द्विपदचतुष्पदादिपरिग्रहः । १५ नु वितर्के । १६ धर्मोपकरणमिषेण वसतिवस्त्रपात्रज्ञानोपकरणादेस्तं परिग्रहं करोषि किम् । १७ यथा मधुरादिनामान्तरेण प्रतिपादितो गरो वत्सनागादिर्हन्ता भवति तथा मूर्छया शय्यादिपरिग्रहो धर्मोपकरणमिति नाम्नापि हन्ता भवति । १८ स्वीकृतमंगीकृतं धर्मसाधनमित्यभिधानमात्रं नाममात्रं यस्य स तथा तस्मात् । परिग्रहादित्यस्य विशेषणम् ।
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86