Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । 'येऽहःकषायकलिकर्मनिबन्धभाजनं ___ स्युः पुस्तकादिभिरपीहितधर्मसाधनैः । तेषां रसायनवरैरपि सर्पदामयै रात्मनां गदहृतेः सुखकृन्नु किं भवेत् ।। २०२॥ रक्षार्थ खलु संयमस्य गदिता येऽर्था यतीनां जिनै र्वासःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः । मूर्छन्मोहवशात्त एव कुधियां संसारपाताय धिक् स्वं स्वस्यैव वधाय शस्त्रमधियां यहुष्प्रयुक्तं भवेत् ॥ २०३ ॥ . संयमोपकरणच्छलात् परोन् भारयन् यदसि पुस्तकादिभिः । गोखरोष्ट्रमहिषादिरूपभृत् तच्चिरं त्वमपि भारयिष्यसे ॥ २०४ ॥ वस्त्रपात्रतनुपुस्तकादिनः शोभया न खलु संयमस्य सौ । आदिमौ च दैदेते भवं पैरी मुक्तिमाश्रय तदिच्छयैकिकाम् ॥ २०५ ॥ शीतातपाद्यान्न मनागपीह परीषहांश्चेत् क्षमसे विसोढुम् । कथं ततो नारकगर्भवासदुःखानि सोढासि भवान्तरे त्वम् ॥ २०६॥ मुने न किं नश्वरमस्वदेहमृत्पिण्डमेनं सुतपोताद्यैः । १ यतयः । २ अंहः लिखनारंभादिजन्यं पापं । कषायाश्च मूच्र्योत्पन्नाः क्रोधमानमायालोभाः । कलिश्च कषायप्रभवो वाग्वादः । कर्माणि च कलहनभवाणि अशुभकर्माणि । तेषां निबन्धो निबन्धनं बीजं मूर्छा तस्य भाजनं। ३ इंहितो वाञ्छितो धर्मों ज्ञाना. दिस्तस्य साधनैतुभिर्धर्मोपकरणैः पुस्तकादिभिः। ४ रोगहरणात् । ५ नु वितर्के । ६ चारित्रस्य । ७ अत्र प्रभृतिपदेन स्थपनिकास्थापनाचार्यादिपरिग्रहः । ८ समुच्छायं गच्छन् वृद्धिं गच्छन् । मूर्छामोहवशात् इति पाठे तु मूर्छा धर्मोपकरणेषु गृद्धिस्तजनितो मोहो मौढ्यं तद्वशात् । ९ भारवाहकान् । १० भारवहनविषयीकुर्वन् । ११ आदिपदात् गजतुरगादिपरिग्रहः। १२ शोभा। * तां तदत्र परिहाय संयमे किं यते न यतसे शिवार्थ्यपि ॥ इति वा उत्तरार्धपाठः । पाठांतरे स्थितस्य तां इत्यस्य वस्त्रादिशोभा इत्यर्थो ज्ञेयः। १३ आदिमा प्रथमा वस्त्रपात्रतनुपुस्तकादिशोभा। १४ अत्र ददि दाने इत्यस्य प्रथमपुरुषेकवचनस्य रूपम् । १५ द्वितीया संयमस्य शोभा । १६ यथेच्छम् । एकिकाम् एका एव एकिका तां वस्त्रादिशोभा संयमशोभा वा आश्रय। १७ अस्वः अनात्मीयः परभवे सहगमनाभावात् । देह एव मृत्पिण्डस्तम् । १८ आद्यपदेन उपसर्गपरीषहादिसहनपरिग्रहः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86