Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ अध्यात्मकल्पद्रुमः । वेषोपैदेशाद्युपधिप्रतारिता ददत्यभीष्टानृजवोऽधुना जनाः । भुक्षे च शेषे च सुखं विचेष्टसे भवान्तरे ज्ञास्यसि तत्फलं पुनः।।१८८।। आजीविकादिविविधार्तिभृशानिशार्ताः कृच्छ्रेण के ऽपि महतैव सृजन्ति धर्मान् । तेभ्योऽपि निर्दय जिघृक्षसि सर्व मिष्टं नो संयमे च यतसे भविता कथं ही ॥ १८९ ॥ आराधितो वा गुणवान् स्वयं तरन् __भवाब्धिमस्मानपि तारयिष्यति । श्रयन्ति ये त्वामिति भूरिभक्तिभिः फेलं 'तवैषांञ्च किमस्ति निर्गुण ॥ १९० ॥ स्वयं प्रमादैनिपतन् भवाम्बुधौ कथं स्वभक्तानपि तारयिष्यसि । प्रतारयन् स्वार्थमृजून शिवार्थिनः स्वतोऽन्यतश्चैव विलुप्यसेंऽहसा।।१९१॥ गृह्णासि शय्याहृतिपुस्तकोपधीन् सदा परेभ्यस्तपसस्त्वियं स्थितिः । तत्ते प्रमादाद्भरितात् प्रतिग्रहैक्रौर्णमग्नस्य परत्र का गतिः ॥ १९२ ॥ न कापि सिद्धिर्न च तेऽतिशायि मुने क्रियायोगतपःश्रुतादि । तथाप्यहंकारकैदर्थितस्त्वं ख्यातीच्छया ताम्यसि धिङ् मुधा किम्॥१९३॥ हीनोऽप्यरे भाग्यगुणैर्मुधात्मन् वाञ्छन्न्तवार्चाद्यनवामुवंश्च । ईर्ण्यन् परेभ्यो लभसेऽतितापमिहापि याता कुगतिं परत्र ॥ १९४ ॥ १ वेषश्च यतिलिंगं उपदेशश्च दानादिषु प्रवृत्त्युत्साहजनकं वचस्तौ आदौ येषां ते तथा [आदिपदात् बाह्यसमितिगुप्तिपालनदर्शनादिपरिग्रहः ] ते च ते उपधयश्च दभास्तैः प्रतारिताः । २ वर्तमानभवे । ३ सुखं यथा स्यात्तथा । ४ जनवंचनजनितसुखानुभवफलं नरकादिवेदनालक्षणं । ५ महानुभावाः । ६ कुर्वन्ति । ७ दानादिधर्मान् । ८ सेवन्ते । ९ आयतिहितलक्षणं किमस्ति । १० आराध्यस्य तव । ११ आराधकानाम् । १२ आत्मसकाशात् प्रमादाचरणैश्च । १३ पुनरन्यतः परतः शिवार्थिवंचनादिना जनितेन । १४ वि. मोह्यसे । १५ वसतिः । १६ आहारः। १७ ज्ञानोपकरणादि। १८ वस्त्रपानादि। १९ तपसस्त्वियं स्थितिः तदकरणलक्षणा व्यवस्था । २० तत्तस्मात् प्रतिग्रहभरितात् निचितात् प्रमादात् विषयकषायादेहेतोः । २१ अतिशयेन ऋणं तत्र मनस्य । चारित्रं गृहीत्वा प्रमादसेवनमेकं ऋणं अपरं च तपः करणमन्तरेण परेभ्यः शय्यादिप्रतिग्रहकरणभिति भावः । २२ अभिमानविडंबितः । २३ आदिपदात् अभ्युत्थानासनदानादिपरिग्रहः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86