Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० अध्यात्मकल्पद्रुमः । किमर्दयन्निर्दयमङ्गिनो लघून् विचेष्टसे कर्मसु ही प्रमादतः । यदेकंशोऽप्यन्यकृतार्दनः सहत्यनन्तशोऽप्यङ्ययमर्दनं भवे ॥ १२९॥ यथा सर्पमुखस्थोऽपि भेको जन्तूनि भक्षयेत् । तथा मृत्युमुखस्थोऽपि किमात्मन्नर्दसेऽङ्गिनः ॥ १३० ॥ आत्मानमल्पैरिह वञ्चयित्वा प्रकल्पितैर्वा तनुचित्तसौख्यैः । भवाँधमे किं जन सागराणि सोडासि ही नारकदुःखराशीन् ॥ १३१ ॥ उरभ्रकाकिण्युदबिन्दुकाम्रवणिक्त्रयीशाकटभिक्षुकाद्यैः । निदर्शनैर्दारितमर्त्यजन्मा दुःखी प्रमादैबहु शोचितासि ।। १३२ ॥ पतंग गैणखगाहिमीनद्विषद्विपारिप्रमुखाः प्रमादैः । शोच्या यथा स्युर्मृतिबन्धदुःखैश्विराय भावी त्वमपीति जन्तो ॥ १३३ ।। पुरापि पापैः पतितोऽसि दुःखराशौ पुनर्मूढ करोषि तानि । मजन्महापंकिलवारिपूरे शिला निजे मूर्ध्नि गले च धत्से ॥ १३ ॥ पुनः पुनर्जीव तवोपदिश्यते बिभेषि दुःखात् सुखमीहसे चेत् । कुरुष्व तत्किञ्चन येन वान्छितं भवेत्तवास्तेऽवसरोऽयमेव यत् ॥१३५॥ धनांगसौख्यस्वजनानसूनपि त्यज त्यजैकं न च धर्ममार्हतम् । भवन्ति धर्माद्धि भवे भवेऽर्थितान्यमून्यमीभिः पुनरेष दुर्लभः ॥१३६॥ १ प्रवर्तसे । २ यस्मात् एकवारम् । ३ विनिर्मितपरपीडः । कृतमर्दनं येन स कृतादनः । अन्यस्य कृतार्दनः अन्यकृतार्दनः । कृतान्यार्दन इत्यर्थे समास इति कथञ्चित् समाधेयं । ४ अयं परपीडाकारी अङ्गी प्राणी । ५ इह भवे । मनुष्यजन्मनि । ६ कायिकमानसिकसुखैः । ७ भवेषु चतुर्गतिलक्षणेषु संसारेषु अधमे नीचे नरकभवे इत्यर्थः । ८ सागरोपमान् कालान् यावत् । सागरोपमकाललक्षणं परिशिष्टे द्रष्टव्यम् । ९ उरभ्रः अजः । काकिणी रूपकाशीतितमो भागः । कचित्तु विंशतिवराटकप्रमाणको नाणकविशेषः। उदबिन्दुदर्भाप्रवर्ती जलकणः । शाकट: शाकटिकः । आद्यपदेन ये केचन स्वहितकरणसमयेऽसावधानाः पश्चात्पश्चात्तापपरा: संग्राह्याः । तेन दरिद्रकुटुंबवणिकद्वयविद्याधरद्वयदेवदत्तचिन्तामणिदृष्टान्तानां ग्रहणम् । प्रमादपारवश्यात् अकृतसुकृतो मनुष्यभवज्रष्टो दुर्गतिं गत एतैर्दृष्टान्तैः पश्चात्तापकर्ता भविष्यसि अतः अम्मिन्नेव भवे तथा सुकृतं कुरु यथा अग्रेऽपि सदा आनन्दोदयो भविता। उरभ्रादिकथाः परिशिष्टतो ज्ञेयाः । १० द्विपो गजः । द्विपारिः सिंहः । पतंगशृंगादिक्रथा परिशिष्टे अवलोकनीया । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86