Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः ।
सृजेन्ति के के न बहिर्मुखो जनाः प्रमादमात्सर्य कुबोधविद्रुताः । दानदिधर्माणि मलीमसान्यमून्युपेक्ष्य शुद्धं सुकृतं चराण्यपि ॥ १५३ ॥ आच्छादितानि सुकृतानि यथा दन्ते सौभाग्यमत्र नै तथा प्रकटीकृतानि ।
व्रीडानताननसरोजसरोजनेत्रा
वक्षःस्थलानि कलितानि यथा दुकूलैः ॥ १५४ ॥ स्तुतैः श्रुतैर्वाप्यपरैर्निरीक्षितैर्गुणस्तवात्मन् सुकृतैर्न कश्चन । फलन्ति नैव प्रकटीकृतैर्भुवो' द्रुमा हि मूलैर्निपतन्त्यपि त्वधः ॥ १५५ ॥ तपः क्रियावश्यक दानपूजनैः शिवं न गन्ता गुणमत्सरी जनः । अपश्यभोजी न निरामयो भवेद्रसायनैरप्यतुलैर्यदातुरः ॥ १५६ ॥ मन्त्रप्रभारत्नरसायनादिनिदर्शनादल्पमपीह शुद्धं । दानाचेनावश्यकपोषघादि महाफलं पुण्यमितोऽन्यथान्यत् ॥ १५७ ॥ दीपो यथाल्पोऽपि तमांसि हन्ति लवोऽपि रोगान् हरते सुधायाः । तृणं दहत्याशु कणोऽपि चाग्नेर्धर्मस्य लेशोऽप्यमलस्तथांहः ॥ १५८ ॥
9'4
भावोपयोगशून्याः कुर्वन्नावश्यकीः क्रियाः सर्वाः ।
देहक्लेशं लभसे फलमाप्स्यसि नैव पुनरासाम् ॥ १५९ ॥ देवगुरुतत्वशुद्धयधिकारः ।
तत्वेषु सर्वेषु गुरुः प्रधानं हितार्थिधर्मा हि तदुक्तिसाध्याः । श्रयंस्तमेवेत्यपरीक्ष्य मूढ धर्मप्रयासान् कुरुषे वृथैव ॥ १६० ॥
For Private And Personal Use Only
२३
१ के के न कुर्वन्ति अपि तु प्रायः सर्वेऽपि कुर्वन्तीत्यर्थः । २ बाह्यदृष्टयः प्राकृतजनाः । ३ उपद्रुताः । ४ धर्मशब्दोऽत्र नपुंसकलिंग: । “ तानि धर्माणि प्रथमान्यासन्" इतिवत् प्रयोगः । ५ दधि धारणे इत्यस्य प्रथमपुरुषबहुवचनप्रयोगः । ६ “धर्मः क्षरति कीर्तनात्" । ७ पृथिव्याः | ८ सामायिकचतुर्विंशतिस्तवादीनि तैः । ९ आदिपदात् दिव्यास्त्रादिपरिग्रहः । १० मत्सरादिदोषरहितं पुण्यम् । ११ पोषधश्वाहारशरीरसंस्काराब्रह्मसावद्यव्यापारनिवृत्तिरूपः । १२ स्वर्गापवर्गादिप्राप्तिलक्षणं । १३ इत उक्तप्रकारात् शुद्धधर्मादन्यथा विपरीतं बह्वपि अशुद्धं पुण्यं अन्यत् अल्पफलं अफलं वा । १४ मात्सर्यादिदोषरहितः | १५ चित्तोत्साहः । १६ आवश्यकीः इति वा पाठः । १७ देवगुरुधर्मलक्षणेषु । १८ हितार्थधर्मा इति वा पाठ: ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86