Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः ।
आत्मन् परस्त्वमसि साहसिकः श्रुताक्षैर्यद्भाविनं चिरचेतुर्गतिदुःखराशिं ।
पश्यन्नपीह न बिभेषि ततो न तस्य विच्छित्तये च यत से विपरीतकारी ॥ १०२ ॥
चित्तदमनाधिकारः ।
कुकर्मजालैः कुविकल्पसूत्र जैर्निबध्य गाढं नरकाग्निभिश्चिरं । विसारवत् पक्ष्यति जीव हे मनः कैवर्तकस्त्वामिति मास्य विश्वसीः १०३ चेतोऽर्थये मयि चिरंलसख प्रसीद
किं दुर्विकल्पनिकरे क्षिपसे भवे मां । aasञ्जलिः कुरु कृपां भज सद्विकल्पान्
मैत्रीं कृतार्थ यतो नरकाद्विभेमि ॥ १०४ ॥ स्वर्गापवर्गों नरकं तथान्तेमुहूर्तमात्रेण वशावशं यत् ।
"
ददाति जन्तोः सततं प्रयत्नाद्वशं तदन्तःकरणं कुरुष्व ॥ १०५ ॥ सुखाय दुःखाय च नैव देवा न चापि कालः सुहृदोऽरयो वा । भवेत् 'पैरं मानसमेव जन्तोः संसारचक्रभ्रमणैकहेतु' || १०६ ॥
१५
93
वशं मनो यस्य समाहितं स्यात् किं तस्य कार्य नियमैर्यमै च । हृतं मनो यस्य च दुर्विकल्पैः किं तस्य कार्य नियमैर्यमैश्च ॥ १०७ ॥
For Private And Personal Use Only
१ पर: साहसिकोऽविमृश्यकारी । २ देवनरतिर्यङ्नरकगतिदुःखसमूहम् । ३ शाखोक्तार्थाद्विपरीतसमाचरणः सन् । ४ ज्ञानावरणीयाद्यष्टविधदुष्टकर्मलक्षणमत्स्यजालैः । ५ कुचिन्तनरूपतन्तुजन्यैः । ६ मत्स्यमिव । ७ अत्रात्मनो मनश्चिरन्तनमित्रता व्यवहारतोऽनेकभवसम्बन्धादेव प्रतीता । ८ धर्मध्यानहेतुकार्यचिन्तनलक्षणान् । ९ अन्तर् मनः । १० केवलम् | ११ अत्र हेतुशब्दो जहल्लिङ्गः | १२ समाधियुक्तं । रागद्वेषरहितमित्यर्थः । १३ शौचादिभिः पञ्चभिः । शौचं सन्तोषः स्वाध्यायस्तपो देवताप्रणिधानचेति नियमाः । कायमनसोः शुद्धिः शौचम् । संनिहितसाधनादधिकस्यानुपादित्सा सन्तोषः । मोक्षशास्त्रस्याध्ययनं प्रणवजपो वा स्वाध्यायः । तपचान्द्रायणादि । देवताया वीतरागस्य प्रणिधानमात्मना सर्वतः संभेदः । १४ अहिंसादिभिः । “अहिंसासूनृतास्तेब्रह्मचर्यापरिग्रहाः ।" स्तेयमदत्तादानं तदभावोऽस्तेयं । अपरिग्रहः परिग्रहत्यागो - ऽ किचनतेत्यर्थः ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86