Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । दुर्गन्धतो यद॑णुतोऽपि पुरस्य मृत्यु___ रायूंषि सागरमितान्यनुपक्रमाणि । म्पर्शः खरः क्रकचतोऽतितमामितश्च ___ दुःखावनन्तगुणितौ भृशशैत्यतापौ ।। ९६ ॥ तीव्रा व्यथाः सुरकृता विविधाश्च यत्रा___ क्रन्दारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात् कुमते बिभेषि यन्मोदसे क्षणसुखैर्विषयैः कषायी ॥ ९७ ॥ युग्मम् बन्धोऽनिशं वाहनताडनानि क्षुत्तृड्दुरामातपशीतवाताः । निजान्यजातीयभयापमृत्यू दुःखानि तिर्यविति दुःसहानि ॥ ९८ ॥ मुधोन्यदास्याभिभवाभ्यसूया भियोऽन्तगर्भस्थितिदुर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं किं तत्सुखैर्वा परिणामदुःखैः ॥ ९९ ॥ सप्तभीत्यभिभवेष्टविप्लवानिष्टयोगगददुःसुतादिभिः । स्याच्चिरं विरसता नृजन्मनः पुण्यतः सरसतां तदानय ॥ १०० ॥ इति चतुर्गतिदुःखततीः कृतिन्नतिभयास्त्वमनन्तमनेहसम् । हृदि विभाव्य जिनोक्तकृतान्ततः कुरु तथा न यथाम्युरिमस्तिव॥१०१॥ १ यस्य नरकस्य परमाणुकणोपमितादपि दुर्गन्धतः । २ सागरोपमकाललक्षणं परिशिष्टे द्रष्टव्यम् । ३ नास्ति उपक्रम आद्यारम्भो येषु तानि । ४ अतिशयेन । ५ मनुष्यलोकगताच्छैत्यात्तापाद्वा । ६ दुःखोत्पादकौ । ७ अन नभोमाग भरते पूरयति इति तस्मात् । ८ दुष्टरोगाः । मुखपाकपादपाककुष्टादयः । आम आमय आकल्यमुपतापो गदः समाः । ४६३ इति अभिधानचिन्तामणौ हेमचन्द्रः । अपमृत्युगलमोटनगलकर्तनादिना मरणं । अत्र अपमृत्यु० इति वा पाठः । ९ उदरपूरणार्थरहितमन्येषां दास्यं । १० अन्ते देवभवस्थितिपर्यवसाने यद्वा अन्तथ देवभवायुःपर्यवसानं गर्भस्थितिश्च मनुष्यतिर्यक्स्त्रीणामुदरेषु गर्भत्वेन अवस्थानं दुर्गतयश्च पृथिव्यायेकेन्द्रियेषु गमनानि तासाम् । ११ इलोकभयं, परलोकभयं, आदानभयं, अकस्माद्भग्रं, आजीविकाभयं, मरणभयं, लोकापवादभयं अथवा अयशोभयं इति सप्त भयस्थानानि । १२ इष्टवियोगः। १३ आदिपदात कुग्रामकुनृपतिसेवाकुभोजनकुलकलत्रनिर्धनत्वनिःपुत्रत्वकन्याबहुत्वादिग्रहणम् । १४ अनन्तं कालं यावदनुभूताः । १५ भगवदुक्तसिद्धान्ततः। राद्धसिद्धकृतेभ्योऽन्त आप्तोक्तिः समयागमौ । २४२ इति अभिधानचिन्तामणौ । १६ इमाश्चतुर्गतिदुःखततयः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86