Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमः ।
स्निह्यन्ति नैव पितरोऽपि न बान्धवाश्च
लोकद्वयेऽपि विपदो भविनां कषायैः ।। ८१ ॥ रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः । किं मदं वहसि वेत्सि न मूढानन्तशः स्वभृशलाघवदुःखम् ॥ ८२ ॥ विना कषायान्न भवार्तिराशिर्भवेद्भवेदेव च तेषु सत्सु । मूलं हि संसारतरोः कषायास्तत्तान् विहायैव सुखी भवात्मन् ॥ ८३ ॥ समीक्ष्य तिर्यङ्नरकादिवेदनाः श्रुतेक्षणैर्धमदुरापतां तथा। प्रमोदसे यद्विषयैः सकौतुकैस्ततस्तवात्मन् विफलैव चेतना ॥ ८४ ॥ चौरैस्तथा कर्मकरैगृहीते दुष्टैः स्वमात्रेऽप्युपतप्यसे त्वम् । पुष्टैः प्रमादैस्तनुभिश्च पुण्यधनं न किं वेत्स्यपि लुट्यमानम् ॥ ८५ ॥ मृत्योः कोऽपि न रक्षितो न जगतो दारिद्यमुत्रासितं - रोगस्तेननृपादिजा न च भियो नि शिताः षोडश । विध्वस्ता नरका न नापि सुखिता धर्मेस्त्रिलोकी सदा तत् को नाम गुणो मदश्च विभुता का ते स्तुतीच्छा च का ॥८६।।
शास्त्रगुणाधिकारः । शिलातलाभे हृदि ते वहन्ति विशन्ति सिद्धान्तरसा न चान्तः । यदत्र नो जीवदयार्द्रतास्ते न भावनांकूरततिश्च लभ्या ॥ ८७ ॥ यस्यागमाम्भोदरसैन धौतः प्रमादपंकः स कथं शिवेच्छुः । रसायनैर्यस्य गदाः क्षता नो सुदुर्लभं जीवितमस्य नूनम् ।। ८८ ॥
१ दानं । प्रभुता ऐश्वर्य । आदिपदात् रमणीमन्दिरादिग्रहणम् । २ खस्य भृशं अत्यर्थ लाघवदुःखं लघुतादुःखं भावि भूतं वा न वेत्सि । उक्तञ्च-"जातिलाभकुलेश्वर्यबलरूपतपःश्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥" ३ धर्मदुरापताया दश दृष्टान्ताः परिशिष्टादवगन्तव्याः। ४ ज्ञानं । ५ सुवर्णादिद्रव्यमात्रे। ६ षोडश भियः परिशिष्टे निदर्शिताः सन्ति। ७ सुखं संजातमस्या इति मुखिता। सुखवती कृता। ८ प्रवाहमार्गेणोपरि गच्छन्ति । ९ जिनागमजलानि। १० ते इति वा पाठः। ११ स्यात् प्ररोहोऽङ्कुरोऽङ्करो रोहव स तु पर्वणः । १११८ इति अभिधानचिन्तामणौ। १२ अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुःप्रणिधानधर्मानादरभेदादष्टविधः प्रमादः।
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86