Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमः ।
दानश्रुतध्यानतपोऽर्चनादि वृथा मनोनिग्रहमन्तरेण । कैषायचिन्ताकुलतोज्झितस्य पैरो हि योगो मनसो वशत्वम् ॥ १०८ ॥ जपो न मुक्त्यै न तपो द्विभेदं न संयमो नापि दमो न मौनम् । न साधनाद्यं पवनादिकस्य किं त्वेकमन्तःकरणं सुदान्तम् ॥ १०९॥ लब्ध्वापि धर्म सकलं जिनोदितं सुदुर्लभं पोतनिभं विहाय च । मनःपिशाचंग्रेहिलीकृतः पतन् भवाम्बुधौ नायतिदृग् जडो जनः।।११०॥ सुदुर्जयं ही रिपवत्यदो मनो रिपूकरोत्येव च वाक्तनू अपि । त्रिभिर्हतस्तद्रिपुभिः करोतु किं पंदीभवन् दुर्विपदां पदे पदे ॥१११॥ रे चित्त वैरि तव किं नु मयापरीद्धं
यदुर्गतौ क्षिपसि मां कुविकल्पजालैः । जानासि मामयमपास्य शिवेऽस्ति गन्ता
तत् किं न सन्ति तव वासपदं ह्यसंख्याः ॥ ११२ ॥ पूर्तिश्रुतिश्वे' रतेर्विदूरे कुष्टीव संपत्सुद्देशामनर्हः । श्वपाकवत् सद्गतिमन्दिरेषु नार्हेत् प्रवेशं कुमनोहतोऽङ्गी ॥ ११३ ॥ तपोजपाद्याः स्वफलाय धर्मा न दुर्विकल्पैर्हतचेतसः स्युः । १ दानं पञ्चविधं अभयदानं, सुपात्रदानं, अनुकम्पादानं, उचितदानं, कीर्तिदानञ्चेति । श्रुतं श्रुतज्ञानं शास्त्राध्ययनं । ध्यानं धर्मध्यानं शुक्लध्यानञ्च । तपश्च द्वादशभेदं । अर्चनं अष्टप्रकारादिपूजा । २ आदिपदात् तीर्थयात्राप्रतिष्ठादिधर्मकर्मपरिग्रहः । ३ कषायेभ्यः क्रोधादिभ्यश्चिन्तया आर्तध्यानरौद्रध्यानात्मिकतया आकुलता। ४ प्रकृष्टः । ५ मुक्त्यंगं । ६ बाह्याभ्यन्तरभेदेन द्विप्रकार तपोऽनशनप्रायश्चित्तादि । ७ पञ्चास्रवविरमणादिः सप्तदशविधः । ८ पञ्चेन्द्रियदमनं । ९ वाक्संयमः । १० आद्यपदेन अवस्थानासनबन्धनादि परिग्रहः । ११ आदिपदेन ध्यानासनादिपरिग्रहः । १२ विकलीकृतः । १३ रिपुवदाचरति स्वयं । १४ "इदमः प्रत्यक्षगते समीपतरवर्तिन्येतदो रूपम् । अदरास्तु विप्रकृष्टे तदिति प. रोक्षे विजानीयात् ॥” १५ त्रिभिः (रिपुभिः) वाकायमनोलक्षणः । १६ आस्पदीभवन् । १७ वितर्के । १८ अपराधविषयीकृतं विनाशितमित्यर्थः । अत्र वैरिशब्दस्य मनोविशेषणत्वेन नपुंसकलिंगता । १९ सिद्धावस्थायामात्मनोऽमनस्कत्वस्य सिद्धान्ते भणनात् । २० प्रतिश्रुतिः इति वा पाटः । २१ पूतिपरिपाकतः कुत्सितगन्धौ श्रुती कणों यस्य सः। २२ सम्पद एव सुदृशस्तासाम् । सम्पत्सु दृशाम् इति वा पदच्छेदः । २३ आद्यपदातू खाध्यायप्रमुखा धर्माः। २४ तत्वतो मोक्षफलाय ।
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86