Book Title: Nandanvan Kalpataru 2000 00 SrNo 04
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521004/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ४ NE SANSTRENDRAPARISHAD शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ॥ कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ चतुर्थी शाखा (दक्षिणायनम्) वि.सं. २०५६ संङ्कलनम् कीर्तित्रयी Page #2 -------------------------------------------------------------------------- ________________ - - - नन्दनवनकल्पतरुः |शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ॥ | कल्पतरुनन्दनवनसत्कोऽयं नन्दतात् सुचिरम् ॥ चतुर्थी शाखा (दक्षिणायनम्) वि.सं. २०५६ संङ्कलनम् कीर्तित्रयी Page #3 -------------------------------------------------------------------------- ________________ - नन्दनवनकल्पतरुः ॥ चतुर्थी शाखा ॥ (संस्कृतभाषामयं अयन-पत्रम् ॥ संडुलनम् : कीर्तित्रयी ॥ सर्वेऽधिकाराःस्वायत्ताः ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि. सं. २०५६, ई.सं. २००० मूल्यम् - संस्कृतसाहित्यरुचिः ॥ प्राप्तिस्थानम् : १. शनुभाई के. शाह, जीरालापाडो, खंभात । २. सरस्वती पुस्तक भण्डार, अमदावाद । मुद्रणम् : सचिन एन्टरप्राइझ, अमदावाद ॥ फोन : 079-7497047 मोबाईल : 9825011414 Page #4 -------------------------------------------------------------------------- ________________ निवेदनम्।। भोः ! स्वाध्यायरसिकाः ! प्रवर्तमानोऽयं संवत्सर: श्रमणभगवन्महावीरस्वामिनः षड्विशतिशततमो जन्मसंवत्सरोऽस्ति । अत एव वयमागामिनी शाखां भगवन्महावीरस्वामि विशेषाङ्कत्वेन प्रकाशयितुमुत्सुकाः । एनमनुलक्ष्य भगवन्महावीरस्य जीवनं साधनां देशनां तपश्चरणमित्यादिविषयानाश्रित्य यत्किञ्चिदपि गद्यं पद्यं वा नूतनं संस्कृत प्राकृतं वा साहित्यसर्जनं कृत्वा भवन्तोऽस्माकं प्रेषयन्तु इत्युनुरोधोऽस्ति भवतः प्रति। (लेखप्रेषणस्याऽवधिः - वि.सं. २०५७ माघबहुलामावास्या दिनाङ्कः - २३-२-२००१) सम्पर्कसूत्रम् - “विजयशीलचन्द्रसूरि” C/o. अतुल एच. कापडिया A/९, जागृति फ्लेट्स, महावीर टावर पाछळ, पालडी, अमदावाद - ३८० ००७. Page #5 -------------------------------------------------------------------------- ________________ = अनुक्रमः = कृतिः कर्ता 00000000 श्रीशङ्केश्वरपार्श्वनाथजिन-गीतिका ॥ -विजयशीलचन्द्रसूरिः ॥ श्रीमद्बाहुबलिस्तवः ॥ -एम्. के. नझुण्डस्वामी 100000000 स्तुत्यष्टकम् -विजयभद्रसेनसूरिः । मित्रसन्तापः । -एम्. के. नझुण्डस्वामी चरित्र आचार्यवर्यश्रीविजयकस्तूरसूरीश्वराणां -विजयसोमचन्द्रसूरि जीवनचरितम् ' । आस्वाद: ६॥ चिन्तनधारा ॥) -मुनिरत्नकीर्तिविजयः त्रिवर्गः --मुनिधर्मकीर्तिविजयः विकासः -मुनिधर्मकीर्तिविजयः Page #6 -------------------------------------------------------------------------- ________________ ( स्याद्वादस्य पराजेता न भूतो न भविष्यति । -मुनिहितवर्धनविजयः पत्रम् -मुनिधर्मकीर्तिविजयः विवादा व्यान-सहयोः -विजयशीलचन्द्रसूरिः झनकथा -विजयशीलचन्द्रसूरिः है भगदद -मुनिरत्नकीर्तिविजयः भावना भवनाशिनी -मुनिरत्नकीर्तिविजयः सत्यघटना -मुनिधर्मकीर्तिविजयः -मुनिधर्मकीर्तिविजयः कः खलु केन जीवति ? -मुनिकल्याणकीर्तिविजयः बुद्धियस्य धनं तस्य। -साध्वी युगन्धराश्री सुभाषित-कथा -एम. के. न ण्डस्वामी मर्म-नर्म Page #7 -------------------------------------------------------------------------- ________________ -विजयप्रद्युम्नसूरी सिरिदसवेयालियं जयउ संवेगमंजरीकुलयं -मुनिकल्याणकीर्तिविजयः -मुनिकल्याणकीर्तिविजयः पाकत पत्रम् अइमुत्तमुणिकहा -विजयभद्रसेनसरि Page #8 -------------------------------------------------------------------------- ________________ श्रीशङ्केश्वरपार्श्वनाथजिन-गीतिका ॥ (यमनकल्याण-रागण गीयते) वन्दे शङ्केश्वरजिनचन्द्रं वन्देडहं गतपातकतन्द्र... अम्लानं यद्वदनकमलमिह, राजति नित्योन्निद्रम्। सुरभितधर्मपरागप्रकटने, यदहर्निशमदरिद्रम् कठिनकर्मकाष्ठानि विदग्धु, वह्निसदृशमतिरुद्रम्। द्विष्टजनेष्वपि शिष्टजनेष्विव, त्वां कारुण्यसमुद्रम् .....२ सुप्रसन्नमधुरा तव दृष्टि-र्विदधात्विह मम भद्रम् । वितर वितर हे जिनवर ! मां, गुणनिधानमुन्मुद्रम् .....३ - विजयशीलचन्द्रसूरिः ccce0000 Page #9 -------------------------------------------------------------------------- ________________ maasumme (॥ श्रीमद्बाहुबलिस्तवः ॥ एम्. के. नअण्डस्वामी प्रसन्न-मुखमुद्राय नमस्ते धीरचेतसे । नमस्तेऽद्भुतगात्राय नमो बाहुबले नमः ।। शुभ्राभ्रपरिवीतस्त्वं उच्छिरा धीरलोचनः ।। पश्यन् लोकानशेषांश्च विनीतान् कुरुषे ननु ।। वर्णयन्ति रसेन त्वां स्थाने खण्डान्तरागताः । जगत् स्निहति भव्येऽर्थे निवृत्तासूयमूर्जिते ।। इयती मूर्तिरेषेत्थं जनानामभिधास्यताम् । लौकिकीयं स्मृता वाणी नेयत्ता महितस्य ते ।। इदं तव मुखे तेज: इयं चाऽपि प्रसन्नता । अनुग्रहवती दृष्टिरियं चाऽन्यत्र दुर्लभम् ।। उन्नतोऽपि विवस्त्रोऽपि महाकायोऽप्यभूषणः । पश्यतां सुन्दरो बाल इव धन्य, विराजसे ।। आत्मगौरवरक्षार्थं जित्वाऽपि भ्रातरं पुन: । तस्मायेवोपदीकृत्य विजयं भ्राजसे भृशम् ।। अहङ्कारस्य जनकौ शौर्यत्यागौ कदाचन । तद्वांस्त्वं प्रश्रयाधिक्यात् गुणात् गुणमवर्धयः ।। ७ २ ehe Page #10 -------------------------------------------------------------------------- ________________ - marIONA RImmorea अपनीयाऽन्धकार दाङ् मनसश्चक्षुषोरपि । बुद्धिं प्रचोद्य रक्षाऽस्मान् भास्वानिव नवोदित: ।। ९ कामक्रोधावृतिं क्षिप्त्वा प्रोत्तिष्ठत गुणोन्नता: । बोधयित्रेऽखिलानेवं तुभ्यं बाहुबले नम: ॥ १० प्रसन्नमुखमुद्राय नमस्ते धीरचेतसे । नमस्तेऽद्भुतगात्राय नमो बाहुबले नम: । ७ ३ - Page #11 -------------------------------------------------------------------------- ________________ -0000 CO सिद्धान्तमहोदिध-न्यायवाचस्पतिआचार्यश्रीविजयोदयसूरीश्वराणां स्तुत्यष्टकम् -विजयभद्रसेनसूरिः રો જો भक्त्या सर्वजिनान् नत्वा गुरोर्गुर्वनुभावतः । सरस्वत्याः प्रसादेन रचयाम्येतदष्टकम् पूज्यशासनसम्राजः शिष्यं श्रीनेमिसूरिणः । सुगुरुं स्तौमि सद्भक्त्या श्रीमन्तमुदयाभिधम् अलडकृतं गुणैः सर्वैः सन्मुनिषूत्तमं तथा। उदयं सूरिणं वन्दे भव्यानां हितकारिणम् कर्मणामाश्रवं रोद्धं सदा संवरधारिणम् । वयं सर्व स्तुमो भक्त्या गुरुदेवं कृपानिधिम् यथाऽर्कतापतप्तेभ्यः शैत्यं यच्छति चन्द्रमाः । भवतापेन तप्तेभ्यः तथा बोधेन शैत्यदम् स्वभावे च सदा रक्तं विभावे विरतं तथा । उदयाख्यं गुरुं नौमि रत्नत्रितयपालकम् चिन्तारलं हि रनेषु ग्रहेषु चन्द्रमा यथा । समुदाये सुसाधूनां सूरीश उदयाभिधः आशीर्वादं नवीनेऽब्दे मम कल्याणकारकम् । मह्यं यच्छत हे पूज्य! गुरुदेव! गुणाकर! ॥५॥ युग्मम् ॥ દો છો મોટો Page #12 -------------------------------------------------------------------------- ________________ मित्रसन्तापः ( १ ) त्वयि हन्त वयस्यपश्चिमे सति मित्रे प्रलयं समेष्यति । हृदयं च तमः समावृतं सततं मेऽश्रुवृते विलोचने ॥ एम्. के. नञ्जुण्डस्वामी (२) ज्वलति त्वयि नाऽर्पितं सखे हृदुपोढं कियदप्युपायनम् । अयि संप्रति निर्गते त्वयि प्रतिखेदो हृदये कियानयम् । (३) तव हासवचांसि यान्यतिप्रमुदे पूर्वमुदाहृतान्यहः । इह दुःखकृते स्मृतानि चेत् प्रणयेनाऽलमलं सुहृत्तया ॥ (४) तव संस्मरणाश्रुणाऽऽप्लुते मम चित्ते विमले मृदुन्यपि प्रतिबिम्बमनुप्रवेशितं वद केनाऽद्य विचाल्यते तव ॥ Ole Page #13 -------------------------------------------------------------------------- ________________ कथा चरित्र कृपा कृपाविज्ञानाद् ये, जगति विदिता, ज्ञाननिरताः, अनासक्ता आर्षाः, प्रकृतिसरलाः, साधकवराः । सुधीकस्तूराख्याः, सुयतिवृषभाः, सूरिमुकुटाः, कथं वा तेषां, गुणगणकथा मन्दमतिना? ।। प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरीश्वराणां जीवनचरितम् ॥ -विजयसोमचन्द्रसूरिः 69) 69 आचार्या जिनशासनोन्नतिकराः -७) वैशिष्ट्यविशिष्टे लोकेऽस्मिन् विविधानां दर्शनानां धर्माणां च सद्भावेऽपि अनेकान्तमण्डितमर्हद्दर्शनं जैनधर्मश्च वरीवर्तेते । तस्य दर्शनस्य प्ररूपकाः, तीर्थस्य स्थापकाश्च केवलज्ञान-दर्शनधरा विश्वकल्याणकारकाः, कृपापराः तीर्थकराः "अर्हन्तः", परं, अनेकान्तदर्शनस्य प्रसारकाः, जैनशासनस्योन्नतिकरा योगक्षेमकराश्च "आचार्याः" भगवन्त एव । उक्तं च "तित्थयरसमो सूरी, सम्मं जो जिनमयं पयासेई" इति। परमकृपालोः परमात्मनः श्रीमहावीरस्वामिनः शासने अद्यावधि अनेके श्रीसूरिभगवन्तः बभूवुः, भवन्ति, भविष्यन्ति च, ये स्वापेक्षां विना जिनशासनधुरो वहनं गीतार्थभावेन अकुर्वन्, कुर्वन्ति, करिष्यन्ति च । स्वनामधन्यानां तेषां पूर्वाचार्याणां पावनपरम्परायां सूरिचक्रचक्रवर्तिनः परमपूज्यपादाः शासनसम्राडाचार्यश्रीमद्विजयनेमिसूरीश्वरा देदीप्यन्ते स्म । निजान्विता नवरत्ननिभाः नव आचार्या भगवन्तः अशोभन्त । तेषामन्तिमा वात्सल्यवारिधीनां परमपूज्याचार्यश्रीविजयविज्ञानसूरीश्वराणां पट्टधराः प्राकृतवाग्विशारदाः, गुणगणसमलङ्कताः, प्रगुरुभगवन्तः, परमपूज्याचार्यश्रीविजयकस्तूरसूरीश्वराः ।। निर्मला येषां मुखाकृतिः, निर्दम्भा येषां कृतिः, Page #14 -------------------------------------------------------------------------- ________________ निष्पापा येषां प्रवृत्तिः, निर्दोषा येषां वृत्तिः गुणनिधीनां तेषां महापुरुषाणां गुणगणं गणयितुमहं कथं शक्नुयाम् ? येषां गुणसन्धूनां बिन्दुरपि न ज्ञायते, तेषां वर्णनं कथं करिष्ये ? येषां दिनचर्यापि वर्णयितुम् अशक्या, तेषां जीवनवर्णनं कथं नाम शक्यम् ? तथापि मन्दधीर्बालोऽहं यथातथा तेषां गुणगणलेखनं करिष्यामि, तन्न हास्यपात्रम् । "बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाम्बुराशेः" इत्युक्तत्वात् । एवं च तत्रभवतां पूज्यवराणां न जीवनचरितं परं केषाञ्चिद् विशिष्टगुणानां वर्णनं करिष्ये । संयमपूतानां पुण्यात्मनां तेषां पुण्यनामस्मरणपूर्वकं यथामति यत्किञ्चिदपि लिख्यते, तत्सर्वं मे स्वाध्यायरूपमेव स्याद् इति अहं मन्ये । यतः 'आवश्यकस्वाध्यायसमो हि गुरूणां गुणानुवादः " ॥ "" (२) ७ शुचीनां श्रीमतां गेहे योगभ्रष्टो हि जायते इहैव जम्बूद्वीपे नानाराज्यविभूषिते भारतराष्ट्रे धर्मकर्मनिरते गूर्जरराज्ये अनेकैतिहासिकप्रसङ्गसाक्षीभूतेऽहमदावादेत्यपराभिधानं 'राजनगरं' नाम गूर्जरपट्टनगरं वरीवृत्यते । यत्र न केवलं प्रतिपोलं, प्रतिपथमपि रमणीयानि जिनचैत्यानि विराजन्ते, पोषधशालाश्च । ततोऽत्रत्याः श्रावका न केवलं व्यापारिणः परं श्रद्धावन्तो धर्माराधकाश्च । नगरान्तर्माणेकचोकाख्यं मुख्यस्थानम् । तत्र क्षेत्रपालपोलारव्यं पोलं शोभते । तस्मिंश्च फत्तेचंद-नानचंद-कीनखाबवालेति विदितं जिनशासनानुरागि, देवगुरुचरणोपासकं कुटुम्बं वर्तते स्म । कुलेऽस्मिन् 'अमीचंदभाई' नाम्ना परमश्रद्धालुः, अर्हच्चरणसेवी श्रावकः, तस्य च शीलादिगुणगणसमलङ्कृता, जिनधर्मानुरागिणी धर्माङ्गना 'चंपाबेन' श्राविका । तस्या: कुक्षौ अश्वबाणनिधिचन्द्रसमलङ्कृते (१९५७) विक्रमवर्षे पौषे मासे कृष्णपक्षे प्रतिपदि शुभलक्षणोपेतः, सर्वजनानन्दकारी सुपुत्रः समजनि । ज्योतिर्विदोऽपि पितरौ जगदुः, ७ QV Page #15 -------------------------------------------------------------------------- ________________ - - - यदस्य बालकस्य लग्नकुण्डल्यां केन्द्र सूर्य-बुध-चन्द्राः, धनराशौ च बृहस्पतिरित्याधुच्चतमो ग्रहयोगः । अतः खलु युवां धन्यौ, यद् युवयोः कुले एतादृशः पुत्ररत्नः समागतः, स युवयोः कुलदीपकः, जगदुपकारकश्च भविष्यति । पितृभ्यां तस्य "कान्तिलाल" इत्यभिधानं कृतम् । तस्य च रतिभाई, हिम्मतभाई इति बन्धू आस्ताम् । विद्योपार्जनकाले च मनसुखभाई-शेठाख्ये पोले जैनशालायां स पितृभ्यां प्रेषितः । खंभातनिवासिनः उमेदचंदभाईशिक्षकस्य समीपे व्यवहारिकोऽभ्यासः कारितः । परं तस्मै बालकाय व्यवहारिकाभ्यासो न रोचते अतः, भट्ठीनीबारीतिनामपोलवर्तिनि श्रीवीरविजयोपाश्रये वयोवृद्धो मुनिश्रीप्रतापविजयाख्यः साधुर्वर्तते, स तस्य समीपेऽहनिशं याति, शुभाशीर्वादं च गृह्णाति । एवं बाल्यत एव स साधूनां दर्शनं सेवां च करोति । विशेषतश्च वयोवृद्धाः पूज्यपादा आचार्यश्रीविजयसिद्धिसूरीश्वराः (बापजी महाराज) तस्य संसारिपितृव्याः, परमतपस्विनी साध्वी श्रीशान्तिश्री च संसारि-पितृष्वसा, आस्ताम् । एतादृशस्य कान्तिलालस्य चित्तं संसारे कथं रमेत? | तदा सर्वत्र प्रसिद्धाः शासनसम्राड्-आचार्यश्रीविजयनेमिसूरीश्वरा राजनगरे पांजरापोलवर्तिन्युपाश्रये समागताः । षोडशाब्दिको युवा कान्तिलालस्तत्र ययौ । पूज्यपादानां च दर्शनेनान्तरात्मनि अतीवाह्लादः सञ्जातः । तदैव वात्सल्यवारिधीनां पंन्यासप्रवराणां परमपूज्यश्रीविज्ञानविजयगणिवराणां समागमोऽभवत् । दिने दिने सम्पर्को वर्धते स्म, वर्धमानश्च साधूनां सम्पर्कः समर्पणे परिणमते "शिष्यस्तेऽहं, शाधि मां, त्वां प्रपन्नम्" ॥ (३) ____७) गुरुकृपा हि केवलम् (७) परमपूज्यपादा आचार्यश्रीविजयनेमिसूरीश्वराः सपरिवारा राजनगराद् विहत्य क्रमशो राजस्थान-मरुभूमि गतवन्तः । तत्र मेवाडभूमौ नावलीस्टेशनादूरवर्तिनि गोधूमक्षेत्रे रसतुरगनारदेन्दु (१९७६)मिते विक्रमाब्दे फाल्गुनमासे कृष्णपक्षे तृतीयायां तिथौ राजनगरात् पलायित्वा समागतः कान्तिलालः पंन्यासप्रवरश्रीविज्ञानविजयानां सन्निधौ दीक्षितवान् । Page #16 -------------------------------------------------------------------------- ________________ तस्य च गुरुभिः मुनिश्रीकस्तूरविजयः इत्यभिधानं कृतम् । दीक्षादिनादेव मुनिश्रीकस्तूरविजयाः पूज्यगुरुवर्याणां चरणे तथा समर्पणं कृतवन्तः यथा कथ्यते-निजचक्षुर्त्यां न कदा दृष्टं, कर्णाभ्यां न श्रुतं, जिह्वया न किञ्चिदुक्तं, मनसि न स्वयं चिन्तितं, परं गुरुवर्यैः यद् दृष्टं, श्रुतं, कथितं, चिन्तितं च तदेव प्रमाणीकृतम्। पूज्यगुरुवर्यैः - "दिवसे रात्रिः, रात्रौ वा दिवा" इत्युक्तं, तदपि तैः "तथा इति कृत्वा स्वीकृतम्: "आणाए धम्मो,' "आज्ञा गुरूणामविचारणीया' इति शास्त्रेषूक्तत्वात् । "गुरूणां चरणं मे शरणम्" इति मन्यमानाः, न कदाचित्तेषां शरणमुज्झितवन्तः, तेषां विनयं वा त्यत्त्कवन्तः यतः शास्त्रेषुक्तम् नाणस्स होई भागी, थिरयरदसणे चरित्ते य। धण्णा जावकहाए, गुरुकुलवासं न मुंचंति ॥ प्राप्नोति विनयाज्ज्ञानं, ज्ञानाद्दर्शनसम्भवः । ततश्चरणसम्पत्ति-श्चान्ते मोक्षसुखं लभेत् ।। इति ।। गुरुकृपाफलमपि तैः प्रत्यक्षमनुभूतम् । दीक्षाग्रहणकाले स्वकीया कीदृशी परिस्थितिः? तदनन्तरं च जिनशासननभोङ्गणे कीदृशी स्थितिः? गुरुकृपा फलति सर्वत्र; न विद्या, न च पौरुषम्....।। 69) विजयविज्ञानसूरीश्वराणां विज्ञानम् (69) परमपूज्या आचार्यश्रीविजयविज्ञानसूरीश्वराः शासनसम्राट्समुदाये चाणक्यनिभा बुद्धिमन्तः आसन् । पूज्यपादा आचार्यश्रीविजयनेमिसूरीश्वरा भगवन्तोऽपि यथाप्रसङ्गं तेषामभिप्रायं स्वीकृर्वन्ति स्म, सोल्लासं ब्रुवन्ति स्म च । "विज्ञानविजय ! त्वं खलुं धीमान्"। तेषामाचार्यश्रीविजयविज्ञानसूरीश्वराणामन्तरात्मनि एकोऽभिलाष आसीद्, यद्-“मदीय एकमात्र: कस्तूरविजयोऽस्तु, तस्य तु अनेका भवेयुः" ।। Page #17 -------------------------------------------------------------------------- ________________ "कस्तूरविजयः केवलं मदीयो न भूत्वा शासनस्य भूयात्:"। "दीक्षासमये यः शब्दानामुच्चारमपि स्पष्टं कर्तुं न अशक्नोत्, तस्य कस्तूरविजयस्य नाम साधवः श्रावकाश्च सदा गृह्णीयुः" इति गुरुशिष्यभावं विस्मृत्य मुनिकस्तूरविजयं श्रुतसम्पन्नं कर्तुं नानाविधाः सर्वे प्रयासाः कृताः । सर्वे बाह्या व्यवहाराः त्यक्ताः, चातुर्मासा अप्यनेके मरुभूमौ बिडालादिग्रामेषु कृताः यत्र केऽपि न समायान्ति, गच्छन्ति वा । यदि एको मुनिकस्तूरविजयः समर्थो भवेत्, तदनु का चिन्ता? । एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भरम् । सहैव दशभिः पुत्रै-रिं वहति गर्दभी ।। इत्युक्तत्वात् । गुरुनिष्ठो मन्दबुद्धिरपि मुनिश्रीकस्तूरविजयो गुरूणां मनोभिलाषं विज्ञाय ज्ञानयोगं स्वीकृत्य सततस्वाध्यायपरतया श्रुतनिष्ठो गीतार्थः सञ्जातः ॥ "अहो ! ते खलु धन्याः शिष्याः, येषां हृदये गुरूणां संवासः, ते हि धन्या गुरवः, येषां हृदये शिष्याणां समुत्कर्षः" || 69) ज्ञानवन्तो गुरुवराः ("गुरुजी") 69) विनयाद् गुरुकृपातो वा यथा ज्ञानप्राप्तिः, तथा प्रयाससाध्यापि ज्ञानसम्पत्तिः । मुनि श्रीकस्तूरविजयः संसारित्वे, संयमस्वीकारानन्तरं च अक्षरोच्चारणमपि स्पष्टं कर्तुं समर्था नासन्, अतः सर्वे द्रष्टार एवं मन्यन्ते स्म-" मुनिश्रीकस्तूरविजयोऽयं कथं अध्येष्यति कथं वा ज्ञान प्राप्स्यति? कथं च व्याख्यानं दास्यति ?; परं यथार्थप्रयत्नशीलतया, स्वाध्यायपरतया च पण्डितानामसद्भावेऽपि स्वयं सततं सन्निष्ठं प्रयास समारभ्य न केवलं ज्ञानिनः, किंतु परमगीतार्थाः, तात्त्विकाः, सर्वमान्याश्चाभवन् । "श्रद्धावान् लभते ज्ञानं, तत्परः संयतेन्द्रियः" इति गीतोक्तिश्चरितार्थीकृता । यो ज्ञानप्राप्तिप्रयासः संयमस्य प्रारम्भषु वर्षेष्वासीत्, स एव जीवनस्यान्तिमक्षणं यावद् 19 १० en Page #18 -------------------------------------------------------------------------- ________________ आसीत् । स्वाध्यायरसिकतया प्रतिक्षणं तेषां करकमलेषु कोऽपि ग्रन्थोऽवश्यं भवेदेव, गोचर्या (भोजनस्य) अनन्तरं शास्त्रान्तरासत्त्वे अखण्डानन्दादिकं गुर्जरमासिकमपि स्यात् । न केवलं पुस्तकानां पठनमानं ते कुर्वन्ति, किन्तु तस्मिन्नेव समये चिन्तनमप्येकाग्रतया कुर्वन्त आसते, ततो ये ग्रन्थाः तैः पठिताः, ते सर्वे चिह्निताः, किञ्चिद् लिखिताश्च अद्यापि वर्तन्ते । एवम् उपयोगिनः पदार्थाः श्लोकाश्च स्वकीये सङ्ग्रहपुस्तके लिखिता अपि विद्यन्ते। शास्त्राणामभ्यासतः अवगाहनतश्च नवीनपदार्थोपलब्धौ परमप्रसन्ना अपि ते भवन्ति स्म । यदुक्तं - "जह जह सुयमवगाहइ, अइसयरससंजायमउव्वं ।। तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए॥" इति ॥ द्वे द्वे लोचने सर्वेषां, विद्या तृतीयलोचनम्। चतुर्थं लोचनं धर्मः, ज्ञानी अनन्तलोचनम् ।।इति च । एवं च ज्ञानमहोदधितया, अनन्तलोचनतया च तत्रभवन्तस्ते मूर्तिमन्तः चलदग्रन्थालयसमाः, साक्षात् गणकयन्त्रसदृशाश्च समजायन्त। आगमसमुद्रावगाहनतो, विविधशास्त्रावलोकनतश्च यद् ज्ञानं ते प्राप्तवन्तः, तद् अन्येभ्योऽपि निरन्तरमप्रमत्ततया दत्तवन्तः ॥ यतः "अन्नदानात् परं नास्ति, विद्यादानं ततोऽधिकम् । अन्नदानान् क्षणं तृप्तिः, यावज्जीवं च विद्यया ॥" इति । तस्मिन् तस्मिन् समये आत्मनः शिष्याः प्रथमं मुनिश्रीयशोभद्रविजयादयः, तदनु मुनिश्रीशुभङ्करविजय, मुनिश्रीकुमुदचन्द्रविजय, मुनिश्रीचन्द्रोदयविजय, मुनिश्रीबलभद्रविजय, मुनिश्रीकीर्तिचन्द्रविजय, मुनिश्री सूर्योदयविजयादयः, पश्चाद् गुरुवर्याः मुनिश्रीअशोकचन्द्र विजयादयः, तदनन्तरं मुनिश्री जयचन्द्रविजय, मुनिश्री अभयचन्द्रविजय, मुनिश्रीप्रबोधचन्द्रविजय, मुनिश्रीप्रमोदचन्द्रविजय, मुनिश्रीअजितचन्द्रविजयादयः, मुनिश्री शीलचन्द्रविजयादयः, अन्तिमवर्षेषु मुनिश्रीकल्याणचन्द्र-हींकारचंद्रविजयादयो मादृशाश्च मन्दमतयस्तथा सप्रयासं पाठिताः, यथा ते सर्वे प्रायः अद्य सूरिपदसमङ्कता विद्वांसोऽभवन् । पूज्यैराचार्यमहाराजैः आचार्य श्रीविजयचन्द्रोदयसूरीश्वरैः उक्तम्-पूज्यगुरुवरा यथा 19 ११ का Page #19 -------------------------------------------------------------------------- ________________ ज्ञानवन्तः, तथा ज्ञानलब्धिमन्तोऽपि । दीक्षायाः प्रारम्भेषु वर्षेषु वयं तेषां पार्श्वे परिशिष्टपर्वं पठामः स्म, तदा पूज्याचार्यश्रीविजयविज्ञानसूरिवराः प्रोक्तवन्तः-एवं गुरुसमीपे सर्वं पठित्वा त्वं कथं विज्ञो भविष्यसि, स्वयमेव अभ्यासः कार्यः, यन्नावबुध्यते तत्र चिह्न कार्यम्, पश्चात् तव गुरूणां समीपे प्रष्टव्यम् । तथा कृत्वा गुरूणां समीपं गतः, सर्वं पृष्टम्, गुरुवराः स्मित्वा प्राहुः किमेतत् सर्वं न बुध्यसे?, इत्युक्त्वा मस्तके टप्पलिकां ददति स्म, तदैव तत् सर्वमवबुद्धम् एवं च बहुभिर्बहुशः अनुभूतम् । पूज्यगुरुवर्यैः (आचार्यश्रीविजयअशोकचन्द्रसूरीश्वरैः) कथितम्, गुरुवराः प्रोक्तवन्त:यस्या गाथायाः, यस्य विषयस्य वा अर्थो नावबुध्येत, तदा पूर्वापरसम्बन्धः पुनः द्रष्टव्यः, तथा चावश्यं सर्वं स्मरणमागच्छेत् । प्रायः सुरेन्द्रनगरे गगननयनभोनेत्रमिते (२०२०) विक्रमाब्दे चातुर्मासे षष्ठकर्मग्रन्थस्य वाचना प्रचलति स्म । गुरुवराः सर्वे भावनगरं स्थिताः । अत्र च वाचनायां कस्याश्चिद् गाथाया अर्थो यथार्थो न अज्ञायत, "पूर्वापरसम्बन्धो द्रष्टव्यः" इति गुरुवरवाक्यं स्मरणमागतम्, तथैव कृते सर्वोऽर्थो यथार्थतयाज्ञातः । संयमस्य प्रारम्भेषु दिनेष्वेव मामाख्यातवन्तः पूज्याः, किं तेऽभिलषितम् ? विद्या वा, सुखं वा? विद्या चेत्, तर्हि सदैषः श्लोकः स्मरणीयः "सुखार्थी चेत् त्यजेद् विद्याम्, विद्यार्थी चेत् त्यजेत् सुखम् । सुखार्थिनः कुतो विद्या? विद्यार्थिनः कुतः सुखम् ? ।।" इति । एवं च यस्य यद् योग्यम्, तदवश्यं तस्मै ते कथितवन्तः, तेन च यथा तस्य श्रेयोऽपि अवश्यं भवेत्। तत्रभवद्भिः पूज्यैः न केवलं निजशिष्याः, परंतु अनेके परसमुदायवर्तिनः साधवोऽपि अध्यापिताः । सर्वेऽपि ते ज्ञानदातृत्वेन परमोपकारितां दर्शयितुं पूज्यान् सदा "गुरुजी" इत्येवं परमादरणीयतया कथितवन्तः । तेषां सकाशादन्येऽपि पण्डितश्रीभगवानदास-हरखचंद, प्रो.श्रीहीरालाल-रसिकलाल-कापडियादयः साक्षराः, गुर्जरराज्यवित्ताध्यक्ष-कान्तिलाल-घिया प्रभृतयः राजपुरुषाः, हाईकोर्ट न्यायाधीश-साकलचंदभाई शेठ विरमगामवाला, सूरचंदभाई बदामी, झवेरचंदभाई मास्तरप्रमुखाः, लल्लुभाई-नेमचंद-दलाल, जादवजीभाई-अमरचंद 9 १२ er Page #20 -------------------------------------------------------------------------- ________________ - देसाई, कान्तिभाई-प्रधाना व्यापारिणोऽपि स्वस्वक्षयोपशमानुसारमधीतवन्तः । अहो ! ज्ञाननिधीनां गुरुवराणां ज्ञानमहिमा अद्यापि जेगीयते ।। ७) प्राकृतवाविशारदाः ७) व्याकरण-न्याय-दर्शन-साहित्यपारंगता बुद्धिनिपुणा विद्वांसो बहवः, परं सचूर्णि-भाष्यनियुक्तिका जैनागमाः, प्रकरणानि, जैनावश्यकसूत्रादीनि इत्येवं प्रभूततरं जैनसाहित्यं च यया भाषया निबद्धं तस्या जैनानां मातृतुल्यायाः प्राकृतभाषाया अध्ययनं लुप्तप्रायम्, धीमन्तोऽपि तदभ्यासे न प्रयत्नशीलाः, अतः पूज्यपादैनिर्धारितम् “सर्वे यथेच्छं कुर्वन्तु, अहं तुं प्राकृतभाषाध्ययनं सप्रयत्नं करिष्यामि" इति । प्रारम्भत एव तथा प्रयासः समारब्धः, यथा तेषां प्राकृतवाग्विशारदत्वेन लोके प्रसिद्धिर्जाता। श्रुतमेतद्-एकवारं पूज्यपादा आचार्यश्रीविजयनेमिसूरीश्वरा भगवन्तः शास्त्राध्यापनं कारयन्ति स्म, मुनिश्रीलावण्यविजयप्रमुखाः साधव आसन् । तदा 'अछुट्ठ'इति प्राकृतः शब्दः समागतः, पूज्यपादैः सर्वेभ्यः पृष्टम्, कोऽर्थः अद्भुट्ठशब्दस्य, न केऽपि प्रत्युत्तरमददुः । तदा पूज्यपादैः मुनिश्रीकस्तूरविजयं प्रति दृष्टिः कृता, तेन च क्षणमप्यविलम्ब्योक्तम् "सार्द्धत्रयम्" इति । पूज्याः प्रसन्नीभूय भाषितवन्तः "अवश्यमेष कस्तूरविजयो भविष्ये प्राकृतवाविशारदो भविष्यति" इति । शासनसम्राजां एतस्या वाचः फलश्रुतितयेव, संयमस्वीकारादनु षष्ठे वर्षे एव, नयनमदनारदविधुमिते (१९८२) विक्रमवर्षे मुनिकस्तूरविजयैः प्राकृतशब्द-धातुरूपाद्यनेकविषयगुम्फिता “प्राकृतरूपमाला" प्रथमं प्रकाशिता । तस्याः प्रस्तावनायां प्राकृतभाषामर्मज्ञैः मुनिश्रीपद्मविजयैः (विजयपद्मसूरिभिः) प्राकृतभाषा अध्ययनावश्यकता दर्शिता, प्रकाशकमुनिभ्यश्च धन्यवादो दत्तः । प्राकृतविज्ञानपाठमाला-प्राकृतभाषाया अभ्यासोऽनुभवगम्यः, प्राकृतभाषा-प्रवेशोऽपि न तथा सरलः, तदर्थं यः प्रयत्न क्रियते, स तैरनुभूतः, अतः प्राकृताभिलाषिणां विद्यार्थिनां प्राकृतभाषायां सरलतया प्रवेशः स्यादिति विचार्य कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं 9 १३ em Page #21 -------------------------------------------------------------------------- ________________ - श्रीसिद्धहेमशब्दानुशासनाष्टमाध्यायरूपं प्राकृतव्याकरणमनुसृत्य स्वपूज्यगुरुवरनामसमलङ्कता "प्राकृतविज्ञानपाठमाला" महाव्रतनिधिनन्दचन्द्रयुते (१९९५) विक्रमाब्दे तत्रभवद्भिः पूज्यैर्विरचिता । सम्प्रति सर्वे साधवः, साध्व्यः, प्राकृतविद्यार्थिनश्च तामेव पाठमालां पठन्तः प्राकृतभाषायां प्रवेशं कुर्वन्ति, पूज्यगुरुवराणां नाम चाहनिशं स्मरन्ति । अध्ययनग्रन्थत्वेऽपि अद्ययावत् तस्याः चतुर्थी आवृत्तिः प्राकाश्यं नीता । विशिष्टैः साधुभिः, प्रो. अभ्यङ्कर, पं. लालचन्द्र-भगवानदास-गांधी प्रभृतिभिविद्वद्भिश्च मुक्तकण्ठं सा प्रशंसिता । चतुर्थ्यामावृत्ती विद्वद्वर्यैः पूज्यमुनिराजश्रीजम्बूविजयजीमहाराजैलिखितम् - "एतस्याः पाठमालाया अभ्यासेन प्राकृतसाहित्ये सरलतया सफलतया च प्रवेशो भवति" इत्यादि। पूज्यगुरुवराणां कालधर्मानन्तरं प्राकृतविज्ञानपाठमालाया मार्गदर्शिकापि प्रकाशिता । तेषामेव गुरुवराणां जन्मशताब्दीवर्षेऽस्मिन् तत्रभवद्भिः पूज्यैरेव संशोधित "प्राकृतविज्ञान बालपोथी" नाम्न: पुस्तकस्य प्रथमो द्वितीयो भागश्च प्रकाशितः । प्रथम-द्वितीय भागयोः द्वितीयावृत्तिश्च प्रकाशिता । तृतीयः चतुर्थो भागोऽपि यथा शीघ्रं प्राकृत-संस्कृत-गुर्जरआङ्गलभाषासमन्वितः प्रकाशिष्यते । __ "पाइयिवन्नाणकहा" भागः प्रथमो द्वितीयश्च - छात्राणां प्राकृतसाहित्ये शीघ्रं गति: स्यादिति पूज्यैः आगमिकलौकिकादिसाहित्योद्धृता अष्टोत्तरशतकथाः प्राकृतभाषया निबद्धाः, सिद्धमन्त्रस्वरूपं गुरुवराणां नाम चानुसृत्य “पाईयविन्नाणकहा - भा. १.२" रूपेण प्रकाशिता । तस्याः प्रथमे भागे पञ्चपञ्चाशत् कथाः, द्वितीये भागे चावशिष्टा: त्रिपञ्चाशत् कथाः समाविष्टाः । प्रत्येकं कथाः व्यवहारे, व्याख्याने, अभ्यासे, प्रसङ्ग। न्तरेषु चानेकरीत्या अत्युपयोगिनी । तस्या द्वितीयभागस्य आमुखे पूज्यानां बाल्यत एव परमसुहृद्भिः । आचार्यश्रीविजयधर्मधुरन्धरसूरिभिरुक्तम् “विजयकस्तूरसूरीश्वरा: अनुभववृद्धाः, प्राकृतभाषाया विद्वांसः, व्याकरणागमादिविषयेषु पूर्णतया प्रभुत्वधारकाश्च, तैः प्राकृतभाषायां सुवाच्यतया ग्रथिताः कथाः हेतुपूर्विकाः, सारान्विताश्च वर्तन्ते" इति । __ श्रीभोगीलाल जे. सांडेसरा महोदयैः ओरिस्सा राज्ये मिलितायां विश्वप्राकृतपरिषदि कथितम्- "प्राकृतभाषाविदो जैनाचार्या अनेके समजायन्त, वर्तमानकाले च Page #22 -------------------------------------------------------------------------- ________________ विजयकस्तूरसूरीश्वराः सन्ति । यदि तैः स्वरचिते “पाइयविन्नाणकहा" इत्याख्ये ग्रन्थे निजनामोल्लेखो न कृतः स्थान्, तर्हि अस्मादृशां संशोधकानां महती समस्या उद्भवेद्, यदेष ग्रन्थः कस्मिन् शतके?, केन विदुषा रचित आसीद् ?" इति । ___ "सिरिउसहणाहचरियं" - तेषां हृदयेऽयमप्यभिलाष आसीद् यत् - कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभिः यथा संस्कृत भाषायां पद्यबद्धतः त्रिषष्टिशलाकापुरुषचरितं निर्मितं तथा तत्सारभूतं चरितं प्राकृतभाषायां गद्यबद्धतोऽपि स्यात्, ततस्तदनुकारेण "सिरिउसहणाह चरियं" इत्येतद्ग्रन्थ निर्माणमपि कृतम् । "सिरिचंदरायचरियं"-समुपलब्धप्राकृतगाथाद्वयमवलब्य कविराजश्रीमोहनविजयकृत "चंदराजरास" नामकगुर्जरासकानुसारं "सिरिचंदरायचरियं" इति नामकग्रन्थं विरचय्य प्राकृतसाहित्ये संवृद्धिः कृता । अत एव तद्ग्रन्थप्रकाशनसमये प्रवर्तमानविज्ञाने विशेषदोषशोधकैः पंन्यासप्रवरश्रीअभयसागरजीगणिवर्यैः प्राकृतभाषया संदेशः प्रेषितः - "आगोवंगणविबुहजणविस्सुयस्स सुगहियणामधेयस्स सिरिचंदरायस्स महारिसिणो गेयकव्यस्स समुवलंभेऽवि पाइयभासाणिबद्धकव्वस्स खंडियप्पायस्स समुद्धारो सक्कयपाययभासाविसिट्ठविबुहसेहरेहिं पच्चूससमरिणज्जेहिं सिरिविजयकत्थूरसूरिवरेहिं कओ" इति । किंबहुना ? पाइयविन्नाण कहा भा. १,२; सिरिउसहणाहचिरयं, सिरिचंदरायचरियादिग्रन्थानां गुर्जरानुवादोऽपि प्रकाशितः । सिरिसिरिवालकहा, सिरिधणवालकहा, विविधग्रन्थसमुद्धृ तकरुणरसवर्णनसंग्रहरूप "करुणरसकदम्बक" प्रभृतिप्राकृतग्रन्थानां, श्रीहेमचन्द्राचार्यविरचितायाः चन्द्रोदयाभिधगुर्जरटीका-बीजक- शेषनाममाला - शिलोञ्छादियुताया: "अभिधानचिन्तामणिनाममालाया" श्च पूर्णपरिश्रमतः सम्पादनं कृतम् तच्च भारतराष्ट्रीयैः समर्थैः विद्वद्भिश्च सादरं स्वीकृतमपि । एतदपि श्रुतम्-आगमोद्धारकपूज्यपादाचार्यश्रीआनन्दसागरसूरिवपि प्राकृतविषयकप्रश्नेषु पूज्यगुरुवरा एव प्रमाणीकृताः । परमपूज्याचार्य श्रीविजयदेवसूरीश्वराणां शिष्यरत्नैः पंन्यासश्रीहेमचन्द्रिवजयगणिवर्यैः (श्रीविजयहेमचन्द्रसूरिभिः) सिरिचंदरायचरियप्रकाशनकाले सत्यमेव लिखितम् - ७ १५ ॥ Page #23 -------------------------------------------------------------------------- ________________ "सिरिचंदरायचरियं, पाइयभासामयं कयं जेण । रम्मं सकण्णसुहयं, पाइयभासादुवारं च ॥ सो कत्थूरायरियो, अणवरयं सत्थचिंतणानिरयो । अज्झावणम्मि रसियो, लोए न पसंसिणज्जो कि ? ||" इति ॥ (७) ७ सरला निरभिमानिनः - निधि प्राप्य प्रायो जनाः साहङ्कारा भवन्ति, परं पूज्यगुरुवरास्तु "फलन्ति नम्रास्तरवः फलागमैः" इति नीतिवाक्यानुसारं यथा यथा ज्ञानं समुपलब्धवन्तः तथा तथा सरलाः निष्कपटाः, निरभिमानिनश्च समजायन्त । यतस्ते जानन्ति "ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ? || (बृहत्कल्पे) इति । एकदा स्वपूज्यगुरुवर्यैः सह विहरन्तस्तत्रभवन्तो बुरहानपुरं समागताः । रात्रौ सहसा राजनगरतः श्रमणोपासकः फूलचंदभाई श्राद्धः समायातः । तैः पृष्टं, कुतोऽधुना? । तेनोक्तम् - पूज्यपादाचार्य श्रीविजयनेमिसूरीश्वराणां पत्रमानीय उपस्थितोऽस्मि । पत्रशब्दं श्रुत्वा सरला विचारमग्ना जाता:, अस्माभिः कोऽपराधः कृतः ? यत् पूज्यपादैः पत्रं प्रेषितम् । अवश्यं कोऽपि प्रमादः अज्ञानतया संजातो भवेत इति क्षणं तु निष्कपटास्ते विह्वला अभवन् । पश्चात् फूलचंदभाई - श्रावकेण पूज्यपादानां पत्रं दत्तम् । लिखितं चैतत् कृपापत्रे " उपाध्यायश्रीकस्तूरविजयः सूरिपदेन समलङ्कृतः क्रियेत, यदि विज्ञानसूरिः कस्तरविजयाय सूरिपदं नादास्यत्तर्हि तस्य प्रमादोऽभविष्यत्, यदि च कस्तूरविजयः सूरिपदं नाग्रहीष्यत् तर्हि तस्य प्रमादोऽभविष्यत्" इति । पश्चाद् गुर्वाज्ञां शिरस्यवधार्य चन्द्रगगनन भोनत्रमिते (२००१) विक्रमवर्षे फाल्गुने कृष्णचतुर्थ्यां पूज्यपादानामस्तित्वे अन्तिमाः सूरिभगवन्तो विजयविज्ञानसूरिवरपदधरा नाम्ना विजयकस्तूरसूरिणः समुद्घोषिताः । १६ Page #24 -------------------------------------------------------------------------- ________________ कालान्तरे च सूरिपदविभूषितास्ते गुरुशिष्याः सपरिवाराः सूर्यपुरं समागच्छन् । कस्यापि सङ्घस्य कतिचित् श्रावकाः शासनस्य विशिष्टकार्यार्थं समायाताः । श्रीविजयविज्ञानसूरिवराः श्रान्ताः, ततस्ते श्रावकाः पूज्यानां समीपमगच्छन्, पूज्यगुरुवरैस्तु सरलतया तेषां सर्वा विज्ञप्तिः स्वीकृता । एतत् श्रुत्वा श्रीविजयविज्ञानसूरिभिर्विचारितं नैतद् योग्यम्, अतो गमनकाले ते श्रावका आहूताः, तदा ते साक्रोशमुक्तवन्तः “कस्तूरविजयः किं जानाति? स तु मूर्योऽस्ति" इति । श्रावका मूका एवागच्छन् । ___गते काले तत्रैव विद्वांसः श्रावकाः आगमिकप्रश्नार्थं पूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपार्श्वे समायान्, पूज्यैः सर्वं श्रुतम्, पश्चाच्चोक्तम्, “किमर्थं मत्समीपम् आगताः? एष आगमावतारो वर्तते, तत्पाद्यं गच्छन्तु" । पूज्यगुरुवराणां मुखारविन्दे सरलतया मूर्खकथनकाले न विषादः आगमावतारत्वकथनसमये प्रसन्नता वा न, यद् गुरुभिरुक्तं तत् प्रमाणम्। __कदा कदा केचित् पण्डितम्मन्या पुरुषाः समागच्छन्ति, तर्हि गुरुभक्तितः शिष्याः पूज्यान् कर्णे कथयन्ति - भवन्तं वञ्चयितुमेते समायाताः, ततः सावधानीभूय भवन्तः तिष्ठन्तु, तदा ते पूज्याः कथयन्ति, मां केऽपि न वञ्चिष्यन्ति, ये मां प्रतारयिष्यन्ति ते एव वञ्चिष्यन्ते । अहो ! कीदृशी सरलता!। ____ अत एव निजसमुदायवर्तिनः, समुदायान्तरवर्तिनश्च साधव्यः, साधवः, श्रावकाः, श्राविका वा एवमाहुः - पूज्याः खलु भद्रकाः, मन्यामहे यत् - पञ्चमारके चतुर्थारकसाधूनां दर्शनमस्माकं सौभाग्येन सञ्जातम्; महाविदेहे श्रीसीमन्धरस्वामिनां समीपं गच्छन्तः महापुरुषा अस्मत्पुण्ययोगतो भरतक्षेत्रं समागताः, युगलिकसदृशा भद्रका एते पूज्याः । अतस्तेषां पूज्यानां "धर्मराजाः" इत्येवं प्रसिद्धिः लोके जाता ।। अहो ! पूज्याः साधुत्वेऽपि विद्वांसः, विद्वत्त्वेऽपि सरलाः, सरलत्वेऽपि गीतार्थाः, गीतार्थत्वेऽपि निरभिमानिनः । एवंविधाः ते कथं न सर्वैः आदरणीयाः वन्दनीयाश्च? । 9 १७ " Page #25 -------------------------------------------------------------------------- ________________ ७) अनासक्ता आर्षपुरुषाः 629) अनगारिण: साधवो बहवः सन्ति, परम् अनासक्ताः (अलगारि) तु कतिचिद् एव । अगारं-गृहं न विद्यन्ते येषां ते अनगारिणः, परं देहादिषु निखिलेषु परपदार्थेषु येषामासक्तिः न विद्यते ते अनासक्ताः । शिखरमारुह्य खराः कर्कशाः तु प्रायशो भवन्ति, ये तु परा: - परपदार्थैः अलिप्ता भवन्ति, ते एव विशिष्यन्ते । पुण्यपुरुषाः, धर्मपुरुषाः, साधुपुरषाः लभ्यन्ते एव, परंतु आर्षपुरुषाः केचनैव । आर्षा निरपेक्षाः मानमपमानं वा न गणयन्ति, निन्दाप्रशंसासु समाः, सुखे दुःखे च समदृष्टिकाः, व्याख्यानं तेषां नोपदेशः, आचरणमेव तेषामुपदेशः । एवं च इन्द्रियार्थेभ्योऽपि परास्ते अनासक्ता आर्षपुरुषाः । भगवद्गीतायामुक्तम् "न हि संन्यासादेव, सिद्धिं समधिगच्छति" ।। किन्तु "कर्मेन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् । _इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते । यस्त्विन्द्रियाणि मनसा, नियम्यारभतेऽर्जुन ! । कर्मेन्द्रियैः कर्मयोग-मसक्तः स विशिष्यते । तस्मादसक्तः सततं, कार्यं कर्म समाचर। असक्तो ह्याचरन् कर्म, परमाप्नोति पुरुषः ॥” इति । पूज्यपादा विजयकस्तूरसूरीश्वरा अपि तथैव आसन् । न कोऽप्यिभलाषः, न कापि महत्त्वाकाङ्क्षा, न किमप्यभीप्सितम् । न स्वीयनाम्नो मोहः, न निजकर्मणां विमोहः; न शिष्याणामभीप्सा, नाहारेषु लिप्सा; न देहे आसक्तिः, नेन्द्रियार्थेषु प्रसक्तिः, न कापि विषयेषु क्रिया, न कापि परपदार्थेषु प्रक्रिया । ७ १८ en Page #26 -------------------------------------------------------------------------- ________________ यदुक्तम्- "विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः " ॥ गीतायामपि - " वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता " ॥ इति च । पूज्यानामनासक्तिप्ररूपकः प्रसङ्गश्चैषोऽनुभूतः - पूज्या नित्यं प्रातः काले श्रीसूरिमन्त्राराधनां कुर्वन्ति स्म । एकदा जापसमये विशिष्टध्यानतः, यथा परमकृपावन्तः अर्हन्तः यत् समवसरणमारुह्य विश्वकल्याणकरीं देशनां ददति, तथा तत् समवसरणं यथास्वरूपं दृष्टं, हृदये अङ्कितम्, अतोऽन्तःकरणे परमाह्लादः समुत्पन्नः । तदा आजीवनगुरुचरणसेविनः गुरुकृपापात्रा बान्धवयुगला: विजयचन्द्रोदयसूरीश्वराः, पंन्यासअशोकचन्द्रविजयाश्च पूज्यानां . परमप्रसन्नाकृतिं प्रेक्ष्य पृच्छन्ति स्म - गुरुवर्याः ! अद्य भवतां मुखारविन्दे किमर्थमियती प्रसन्नता ? | भगवन्तः प्राहुः 'अद्य श्रीसूरिमन्त्राराधनासमये समवसरणं दृष्टम्, तदेव प्रसन्नताकारणम्, यदि संयोगः सानुकूलः स्यात्, तर्हि एतादृशं समवसरणं कारयितुमुचितं कार्यम्” । परं शिष्याणामादेशो न कृतः, एवं कर्तव्यम्, इत्थं करणीयम् इत्यादि । अद्य तत्फलस्वरूपं पादलिप्तपुरे गिरिराजोपत्यकायां विशालं श्री १०८ जैनतीर्थ दर्शनसमवसरणमहामन्दिरं दरीदृश्यते । 64 आर्षाणाम् आबालवृद्धैः व्यवहारोऽपि लोकोत्तर:, प्रसङ्गाद् एतस्मात् ज्ञायते । पूज्यै: स्वाध्यायकाले विविधेभ्यो ग्रन्थेभ्यो या या गाथाः समुपलब्धाः, ताः ताः सर्वाः विषयक्रमानुसारं सङ्गृहीता:, तासां च सङ्ग्रहः संस्कृत-गुर्जरभाषानुवाद समन्वितः “ पाइयविन्नाणगाहा"नामक पुस्तकरूपेण प्रकाशितः । तस्मिन् प्रस्तावनारूपपत्रे पूज्यपंन्यासप्रवरश्रीशीलचन्द्रवजयगणिवरै: (पूज्याचार्यश्रीविजयशीलचन्द्रसूरीश्वरैः) परमसाधकानां पूज्यानां साधना, भावना, वत्सलता च कीदृशी ? इत्यादिकं सविस्तरं वर्णितम्, पूज्यानां प्रासादिकाः, तात्त्विकाः, सात्त्विकाश्च प्रसङ्गाः सुचारुतया वर्णिता: (समये तत्पत्रमवश्यं द्रष्टव्यम्) । तत्र तैः स्वयमनुभूतः प्रसङ्गो लिखित: - गगननयननभोनेत्रमिते (२०२०) वर्षे भावनगरसमवसरणवंडाख्ये उपाश्रये आचार्य श्रीविजयविज्ञानसूरीश्वराः, आचार्य श्रीविजयकस्तूरसूरीश्वराः सर्वेऽपि आसन् । मम तु बाल्यावस्था, मया पंन्यास श्रीचन्द्रोदयविजया: (विजयचन्द्रोदयसूरिवराः) विज्ञप्ताः मम केशलुञ्चनं यूयमेव कुरुत । लुञ्चनं सुष्ठु जातम् । १९ othe Page #27 -------------------------------------------------------------------------- ________________ सायं प्रतिक्रमणवेलायां पूज्यैरहं आहूतः, प्रोक्तश्च “अद्य प्रतिक्रमणं मया सार्धं कर्तव्यम्" । अहम् अहोभाववान् सञ्जातः, चमत्कृतश्च । प्रतिक्रमणवेलायां चैत्यवन्दनानन्तरं प्रतिक्रमणसूत्राणां पाठः पूज्यैरेव समारब्धः । मया पूज्या विज्ञप्ताः, नैतद् युक्तं यद् भवन्तः प्रतिक्रमणं कारयेयुः । तदा पूज्याः प्रोक्तवन्तः त्वादृशो बालश्रमणो लुञ्चनं कारयति, तस्य प्रतिक्रमणं कारयितुं लाभोऽस्माकं कुतो भवेत्? । “अन्येषाम् आराधना कारयितव्या" इत्यस्माकं कर्तव्यम् । अतो "वयमेव प्रतिक्रमणं कारयिष्यामः" इति । अहो ! पूज्यानां कीदृशो वात्सल्यपूर्णोऽनुपमो व्यवहारः । वयमपि भाग्यवन्तो यद् अस्माकम् एतादृशानां पूज्यगुरुवराणां समायोगः समुपलब्धः । ___ (९) 69 समतावन्तो महर्षयः ७) श्रूयते खलु "समुत्पद्यन्ते गुणाः सर्वे, स्वस्वकर्मानुसारतः"। स्वकीयां क्रियामाश्रित्य अन्ये सर्वे गुणाः समुद्भवन्ति, परं समता, सरलता, सहिष्णुतादयः स्वतः प्रादुर्भवन्ति । सुखे दुःखे, प्रिये अप्रिये, रागिणि द्वेषिणि एवंप्रभृतिषु यः समचित्तो भवति स समतावान् । __ ये शान्ताः, कान्ताः, दान्ताः, साधकाश्च भवन्ति ते महर्षयः । महर्षयो न वदन्ति, तेषां मौने एव महाशक्तिः, तेषां मौनमेव सर्वार्थसाधकम् । तथापि कथंचित् ते यद् वदन्ति, तदेव भवति । यदुक्तम् - लौकिकानां हि साधूनामर्थं वागनुवर्तते । ___ ऋषीणां पुनराद्यानां, वाचमर्थोऽनुधावति ॥ इति (उत्तररामचरिते भवभूतिः) पूज्यगुरुवरा अप्येवमेव समताधारिणो महर्षयः । प्रायस्तु मौनमेव भजन्ति, यदि सति कार्ये ब्रुवन्ति, तर्हि हितं, मितं, पथ्यं, सार्थकमेव। शरीरप्रातिकूल्येऽपि अपूर्वसमताधारकाः । तेषां देहचिन्तातोऽपि विशेषा साधनाचिन्ता । प्रसङ्गाद् एतस्मात् पष्टीभविष्यति - चन्द्रवेदगगननयनयुजि (२०३१) विक्रमाब्दे आश्विनमासे शुक्लैकादश्यां रात्रौ ७ २० er Page #28 -------------------------------------------------------------------------- ________________ - - एकादशवादनकाले साबरमती रामनगरे आकस्मिको जिह्वायाः पक्षघातः समुत्पन्नः । डॉकटरमहाशयाः सर्वे मिलिताः । यदि शीघ्रं रुग्णालयं नीत्वा योग्य उपचारो न स्यात्, तर्हि अधिकं कष्टं स्यात्, जीवनमपि साशङ्कं भवेद् इत्यादिकम् उक्तवन्तः । शिष्यपरिवारः, सङ्घश्च अखिलः चिन्तामग्नो जातः । परं पूज्यास्तु परमप्रसन्नाः, जीवनमरणतो निश्चिन्ता आसन् । वक्तुमसमर्थास्ते ईङ्गिताकारेण उपलक्षितवन्तः - वयं निशायां रुग्णालयं नैव गमिष्यामः, यद् भावि तद् भवतु । तदा गुरुभक्तः कश्चित् श्रावकोऽब्रवीत् - पूज्याः ! अधुना एको वादितः, अपवादतः प्रतिक्रमणं प्रतिलेखनादिकं विधाय गमने का बाधा? । किञ्चिद् रोषपूर्वकं पूज्याः चेष्टितवन्तः, या क्रिया यस्मिन् काले कार्या, सा तस्मिन् काले एव करणीया, "साधूनां किं मरणभयम्"? | "अहह ! महतां निःसीमा चारित्रनिष्ठा" द्वितीयदिने एकान्ते गुरुसमर्पिता: विजयचन्द्रोदयसूरिणः पंन्यासअशोकचन्द्रविजयाश्च भाविनी शारीरिकी स्थिति ज्ञापयित्वा रुग्णालयं गन्तुं पूज्यान् मानितवन्तः । सायं च शिबिकाद्वारा वाडीलालसाराभाईरुग्णालयं नीताः । डॉकटरमहाशयाः औषधानि अददु तहि पूज्याः विश्वासितान् डॉकटर श्रावकान् पृच्छन्ति स्म, एतानि औषधानि भक्ष्याणि न वा? यदि न समीचीनानि तर्हि न भोक्ष्यामहे । अहो ! शरीरदौस्थ्येऽपि कियती समता साधनानिता च। ___कतिचिद् दिनानन्तरं किञ्चित् शरीरसौस्थ्ये जाते, या विस्मृतिः उत्पन्ना सापि पुनः शनैः शनै: व्यपगता । अतः डॉकटरमहाशयैः प्रोक्तम् अधिकस्मृत्यर्थं भोजने यद् यद् भुक्तं स्यात्, तत्त्, स्वयं स्मरणीयं, स्मारणीयं वा शिष्यैः । तेषां गमनानन्तरं पूज्यैः शिष्येभ्य उक्तम् - कथयितारस्तु सर्वं ब्रुवन्ति, परं तत् सर्व न कार्यम् । अधुना वयं रुग्णालये, ग्लानाश्च, तेन सम्प्रति संयमजीवने या न गृहीतव्या, सा सदोषा स्वानुकूला गोचरी गृह्यते, तस्याः स्मरणे तु अधिकतरो दोष: संभाव्येत । किं दोषोत्पादद्वारा कर्मबन्धनार्थं संयमजीवनं, कर्मनिर्जरार्थं 'वा? । अतो गौतमाष्टकं, स्मरणादिकं वा स्मार्य, नान्यत् किञ्चित् । अहो ! कीदृशी आत्मजागृतिः?" || देहानुकूल्ये समुत्पन्ने रुग्णालयाद् गन्तुम् अनुमतिः मिलिता, तर्हि पूज्याः विजयचन्द्रोदयसूरिप्रमुखान् शिष्यान् प्रोक्तवन्तः, वयं पूर्वं पांजरापोले श्रीविजयनेमिसूरिज्ञानशालायां ७ २१ ॥ Page #29 -------------------------------------------------------------------------- ________________ परमपूज्यानाम् आचार्यभगवतां श्रीमद्विजयनन्दनसूरीश्वराणां सन्निधौ गमिष्यामः, पश्चात् साबरमतीम् । द्वितीयेऽह्नि, पूज्याः पूज्यवर्याणां निश्रायां समुपस्थिताः । एकस्मिन् एव आसने उभये ते पूज्याः समासीनाः, पृथ्वीतले खलु सूर्यचन्द्रौ सहोदितौ, अनेके साधवः, साध्व्यः, श्रावकाः,श्राविकाच मिलिताः, सर्वे परमहर्षं प्राप्तवन्तः। तदा च सार्द्रनयनैः पूज्यैः निजवस्रस्य ग्रन्थेः, स्वयं लिखितमालोचनापत्रं निष्कास्य पूज्येभ्यो दत्तम्, पूज्यैश्च तेषां कर्णे किमपि कथितम्, अन्योन्यं ते पूज्याः ज्ञातवन्तः, अन्ये सर्वे तु तद् रहस्यं किमपि नाजानन् । तदा च सङ्घकौशल्याधारैः, परमगीताथैः, करुणानिधिभिः पूज्यपादाचार्य श्रीविजयनन्दनसूरीश्वरैः सर्वोत्तमस्य साधकस्य भवभीरुता पापभीरता च कीदृशी? लोकोत्तरे जिनशासने प्रायश्चित्तस्य को महिमा?, आत्मविशुद्धेश्च को लाभः? इत्येतत् सर्वं विस्तरतः प्रतिपादितम् । मिलिताश्च सर्वे नतमस्तकाः ब्रुवन्ति स्म - अहो! कीदृशी लोकोत्तरशासनस्य महत्ता? अहो! कीदृशाः प्रायश्चित्तदातारः पूज्यवर्याः ? अहो! कीदृशः प्रायश्चित्तगृहीतारः साधकवर्याः ? वयमपि धन्याः, यद् एतादृशं विशिष्टम् आलोचनाव्यवहारं प्रत्यक्षमवलोकितवन्तः । (१०) 69) न शोचनीयं मरणं महात्मनाम् ) - यथा गुणशालिनः पूज्याः, तथा पुण्यशालिनोऽपि, अतः तेषामनेके शिष्याः, यथा ज्ञानिनः, ध्यानिनश्च, तथा तपस्विनोऽपि । तेषां मूर्धन्याः । परमपूज्याचार्यश्रीविजयकुमदचन्द्रसूरीश्वराः । तत्सदृशानि महातपस्विरत्नानि अद्य कापि न दृश्यन्ते । यशस्विनो हि पूज्याः, तेषां पुण्यनिश्रायामनेके शासनोन्नतिकरा अञ्जनशलाकाप्रतिष्ठादीक्षापदप्रदानउपधानोद्यापनादिमहोत्सवा निर्विघ्नतया सम्पन्नाः । यत्र यत्र च तेषां निश्रायां प्रभुप्रतिष्ठा सञ्जाता, तत्र तत्र सङ्घस्य ग्रामस्य वाभ्युदयो जातः ।। निजजीवनान्तिमे नयनवेदगगनकर्णमिते (२०३२) वर्षे श्रीशत्रुञ्जयमहातीर्थे नवीने ७ २२ ee Page #30 -------------------------------------------------------------------------- ________________ - द्विपञ्चाशज्जिनालयसमलङ्कते टुंके चतुरधिकपञ्चशतजिनबिम्बानां प्रतिष्ठा श्रेष्ठिश्रीआणंदजी कल्याणजी संस्थासञ्चालकैः श्रीकस्तूरभाई-लालभाई-प्रमुखैः परमपूज्यापादाचार्यश्रीविजनन्दनसूरीश्वराणां पावननिश्रायां निश्चितीकृता, परं दैववशतः अस्माकं मन्दभाग्यतया तत्रभवन्तः पूज्यवर्याः मध्येपथं धंधुकासमीपे तगडीग्रामे मार्गशीर्षकृष्णचतुर्दश्यां कालधर्म प्राप्ताः । अतः सा महती प्रतिष्ठा पूज्यगुरुवराचार्यश्रीविजयकस्तूरसूरीश्वरप्रमुखसर्वगच्छीयाचार्यवर्याणां पुण्यनिश्रायां माघमासे सुदिसप्तम्यां समहोत्सवं समजनि। ततः पश्चात् पूज्यास्ते सशिष्याः श्रीस्थम्भनतीर्थयात्रां कृत्वा राजनगरं प्रति विजहुः । कार्यक्रमस्तु धर्मज-बोरसद-पेटलादादनु कासोरग्रामस्य आसीत्, परं पूज्यैरुक्तं सोजित्राग्रामः प्राचीनः, प्राचीन चतुर्विंशतिसमन्वितं जिनचैत्यम्, श्रेष्ठिवर्य श्रीमोतीचंद-अमीचंद(मोतीशा) श्राद्धस्य जन्मभूमिश्च, पूज्यपादाचार्यश्रीविजयनेमिसूरीश्वरा भगवन्तोऽपि अवश्यं सोजित्राग्रामं समागच्छन्ति स्म, अतः तीर्थरूपस्य तस्य यात्रां कर्तुं गमिष्यामः । अतः सर्वे सोजित्राग्रामं समायाताः । जिनालयानां सम्प्रतिनृपतिकालीनजिनबिम्बानां च दर्शनवन्दनतः पूज्या अतिप्रसन्नाः समजायन्त। तदनु पूज्यैः नित्यक्रमानुसारम् श्रीमदुत्तराध्ययनसूत्रस्य किमपि एकमध्ययनं गणयित्वा प्रत्याख्यानं पारितम् । गिरिराजोपरि प्रतिष्ठानन्तरं 'सित्तुंजकप्पो' नामकग्रन्थस्य पठनं पूज्याः कुर्वन्ति, तदपि कृतम् । मुनिश्री कारचंद्रविजयस्य, ममापि प्राकृतव्याकरणस्य पाठं दत्तवन्तः । पाठकाले च पूज्यैः प्रोक्तमपि आगामिदिनतः पाठो नातिसरलः, अतो ध्यानपूर्वकम् अध्ययनं कार्यम् इत्यादि । परं मन्दभाग्यतया, प्रशस्तरागवशतया च अस्माकं मनसि विचारलेशोऽपि न समुद्भूतो यत्-पूज्या अन्तिमां हितशिक्षां ददति । तदनु श्रीसूरिमन्त्राराधनां स्मरणादिकं सर्वं कृतवन्तः । सायंकाले पूज्यानां हृदये तीव्रवेदना समुत्पन्ना। संयोगतः सोजित्रावासिहृदयचिकित्सकडॉक्टरमहोदयाः तस्मिन् दिने तत्रैव आसन्, ते समायाताः, हार्टएटेकाख्यहृदयवेदना अस्तीति तैः निर्णीतम् । शीघ्रम् अहमदावादे रुग्णालयं नेया इत्यापि उक्तम् । सर्वे शिष्याः, श्रावकाश्च चिन्तितवन्तः, परं शरीरात्मभेदज्ञाः पूज्यास्तु चेष्टया कुत्रापि गन्तुं निषेधं कृत्वा अम्लानभावतः . ॐ ही अहँ नमः' इति योगशास्त्रोल्लिखितं मन्त्रमुच्चैः पुनः पुनः स्वयम् उदचारयन्, नववादने पेटलाद-बोरसद-खंभात-राजनगरतो गुरुभक्तितः अनेके श्रावकाः समागताः, पूज्याः 19 २३ ला Page #31 -------------------------------------------------------------------------- ________________ पण्डितवर्य श्रीछबीलदाससंघवीमहोदयान् संस्मरन्ति स्म तेऽपि आयाताः । प्रतिक्रमणसंस्तारकपोरिसीप्रभृतिका आवश्यकक्रिया कारिता । काञ्चित् स्वस्थतामपि अलभन्त । नित्यक्रमतो जापं स्वाध्यायं च कृत्वा स्वयम् अशेरत, शिष्यपरिवारः सङ्घश्च सावधान: सन् नमस्कारमहामन्त्रादिकं श्रावयन्ति स्म । निशाया अन्तिमे प्रहरे पुनः तीव्रा हृदयवेदना समुत्पन्ना श्रीनमस्कारमहान्त्रं स्वयं गणयन्तः पूज्याः हस्तसन्ध्यानभोनेत्रमिते (२०३२) वर्षे वैशाखे कृष्णचतुर्दश्यां क्षणद्वयाधिके चतुर्वादने अस्माकं दौर्भाग्येन कालधर्मं प्राप्ताः । परमगुरुभक्ता आचार्यश्रीविजयचन्द्रोदयसूरिणस्तु मूर्छा प्राप्ताः अन्ये सर्वेऽपि शून्यमनस्काः, किंकर्तव्यमूढाश्च जाताः । , पुण्यपुरुषाणाम् अग्निसंस्कारो निजनिजग्रामेषु भवेदिति स्थम्मतीर्थ-पेटलादबोरसदादिसङ्घानां श्रावका अत्याग्रहं कृतवन्तः, पर शिष्यैः सोजित्रासङ्घेन च उद्घोषितम् पूज्याः स्वयमागत्य अत्र कालधर्मं प्राप्ताः, अतोऽत्रैव पुण्यभूमौ अग्निसंस्कारो भवितव्यः सर्वे च तं निर्णयं स्वीचक्रुः । ग्रामाद् बहिः पुण्यक्षेत्रे केषाञ्चिद् महापुरुषणां समाधयः आसन्, तत्रैव पूज्यानाम् अग्निसंस्कारं कर्तुं निश्चयो जातः । सोजित्राग्रामवासिनः अष्टादशज्ञातिमन्तः सर्वे शोकमग्ना जाता: । हट्टिकाद्वारमपि नोद्धाटितवन्तः, श्मशानयात्रायां च मिलिताः, अन्येऽपि सहस्रशः श्रावकाः राजनगर - भावनगर - खंभात- पेटलाद-बोरसदसुरत- मुम्बापुरीप्रभृतिनगरतः समागताः । विजयमुहूर्ते स्थम्भतीर्थादागतायां मयूरमुखशिबिकायां पूज्यानां विनश्चरदेहं संस्थाप्य 'जय जय नन्दा', 'जय जय भद्द' इति घोषणापूर्विका श्मशानयात्रा चलिता । सम्पूर्णं ग्रामं भ्रमित्वा चतुर्वादनकाले पुण्यभूमौ समागता । चन्दनबहुलायां चितायां शिबिका संस्थापिता । साश्रुलोचनैः पूज्यानां संसारिभ्रातृजैः बन्धुपुत्री - जामातृभि:, तथा चान्यैः चितायाम् अग्निः प्रज्वालितः । समयान्तरे ज्वलज्ज्वालायां पूज्यानां संयमपूतो विनश्वरो देहः पञ्चभूतेषु विलीनः । स्वयं तु प्रसन्नमुद्रया स्वर्गलोकं जग्मुः, परम् अत्र शिष्याः सर्वे श्रावकाश्च पूज्यगुरुवराणां सान्निध्यरहिताः समजायन्त । अहो ! धन्यस्तेषामवतारः (जन्म), ये संसारे सर्वादर्शस्वरूपाः । अहो ! धन्यः स शिष्यपरिवारः, यस्यैतादृशा महापुरुषा गुरुवराः ॥ अग्निसंस्कारस्थले श्रद्धालुजनैः संयमपूतानां पूज्यानां सर्वं भस्म गृहीतम्, तदनु तत्स्थलीया मृत्तिकापि गृहीता । अतो द्वितीयेऽह्नि प्रातः तत्र गमने अग्निसंस्कारभूमेरुपलब्धिः NO २४ Cle Page #32 -------------------------------------------------------------------------- ________________ न जाता, परं तत्र महती गर्ता दृष्टा, अतः शीघ्रं स्तूपः कारितः । पश्चाद् गुरुपादुकासमलङ्कृता देवकुलिका निर्मापिता । आश्चर्यं खलु एतद्-देवकुलिकारचनापूर्वमपि आणंदग्रामसमीपवर्तिनः वल्लभविद्यानगरात् कश्चित् प्राकृतभाषावित् प्राध्यापकः पुनः पुनः तत्र आयाति । स प्राध्यापकः 'गउडवहो' प्रभृतिप्राकृतग्रन्थानां पठनं करोति, कारयति च । यदा च ग्रन्थार्थो यथार्थो न बुध्यते । तदा मनसि मुह्यति, किं कार्यमधुना ? । परमेकदा समाचारपत्रे पठितं स्मरणागतम्, सोजित्रायां प्राकृतभाषाविशारदा जैनाचार्याः श्रीविजयकस्तूरसूरिणः स्वर्गं गताः । अतः स शीघ्रं सोजित्रां समागतः, अग्निसंस्कारस्थलं च गत्वा अदृष्टपूर्वाणां पूज्यानां मौनपूर्वकं ध्यानं स्मरणं च करोति, निजनगरं समागत्य ग्रन्थमवलोकयति, सर्वश्च अर्थो बुध्यते, परमो हर्षश्च भवति । एवं च वारंवारं स तत्रागत्य प्रश्नानां समाधानं कृतवान् । अग्निसंस्कारभूमेरपि कीदृशो महिमा । प्रान्ते-उपकारं मन्ये, परमपूज्याचार्य श्रीविजयसूर्योदयसूरीश्वराणां पूज्याचार्यश्रीविजयशीलचन्द्रसूरीश्वराणां श्रीकीर्तित्रस्याश्च येषां हृदयपूर्विकां विज्ञप्ति स्वीकृत्य परमपूज्याचार्यमहाराजैः श्रीविजयचन्द्रोदयसूरीश्वरैः प्रोत्साहित: परमपूज्यगुरुवर्यैः आचार्यश्रीविजयअशोकचन्द्रसूरीश्वरैः च लब्धाशीर्वादोऽहं गुणमहोदधीनां पूज्यप्रवराणां गुणलेशोत्कीर्तनं कृतवान् । यदि प्रस्तावोऽयं न सम्भाव्येत तर्हि लेखनमपि एतत् कथं स्यात् ? तथा च गुरुगणसंस्मरणमपि न भवेत् । पूज्यगुरुवरा न प्रत्यक्षा इति न स्वीकार्यम्, अद्यापि ते प्रत्यक्षा एव तेषां गुणगणा अपि दृष्टिसमक्षा एव तेषां गुणसमूहात् स्तोको वा गुणो निजजीवने समागच्छेत् तर्हि गुणोत्कीर्तनमेतत् सफलं स्याद् इत्याशासे ॥ विजयकस्तूरसूरिजन्मशताब्दीवर्षे वि.सं. २०५६ आषाढे शुदि पूर्णिमायाम् (गुरुपूर्णिमा) मुम्बापुरी- मलाड देवकरण-मूलजीजैनोपाश्रये । २५ Cle विजयचन्द्रोदयसूरिगुरुबन्धुविजयअशोकचन्द्रसूरिचरणकिङ्करः सोमचन्द्रविजयः ॥ Page #33 -------------------------------------------------------------------------- ________________ आस्वादः ॥ चिन्तनधारा ॥ - मुनिरत्नकीर्तिविजयः यत्र वयं तिष्ठे तत आकाशस्याऽन्तः परिदृश्यते । सुदूरमाकाशं पृथ्वी च सम्मिलत इत्यपि प्रतिभासते । किं वस्तुतस्तत्राऽऽकाशस्याऽन्तोऽस्ति ? कोऽपि मुग्धजनो यदि तं प्राप्तुं प्रयतेत, तर्हि किं स तस्मिन् साफल्यमश्नुयात् ? अथ वा तु कदा च तमन्तं स प्राप्नुयात् ? न सम्भवत्येतत् । एतदेव कथनमिच्छामप्यनुसरत्येव । सर्वैरप्येवमेव सम्भाव्यते यद् “एकैवेयमिच्छा यदि परिपूर्येत पश्चान्न किमप्यवशिष्टमस्माकम् । तदनु तु नितरामानन्देनैव कालं निर्गमिष्याम" इति । ‘आकाशस्यऽन्तो दृश्यते' इति भ्रमवदिच्छास्वप्यन्तस्यैतादृश एव भ्रम उत्पद्यते । शास्त्रेष्वपि इच्छा व्योमतुल्याऽनन्ता कथिता - "इच्छा हु आगाससमा अणंतिया "। एतदेव दुःखस्य मूलं मनुजस्य । इच्छाया अन्तिमोंऽशो न कदापि पूर्णतामेति तस्य । प्रत्येक ं जनः किञ्चिदपि प्राप्तुमाकाङ्क्षते सदाकालम् । न केवलं प्रापणे एव तस्याऽऽसक्तिः किन्तु, मनोहत्य स प्राप्तुं लिप्सुः । किं वारिधिः कदापि तृप्यति खलु ? नित्यं निद्रां त्यजति च जनो नूत्नयाऽऽकाङ्क्षया, ह्यस्तन्या अपूर्णया इच्छायाः पूरणे मनोरथेन च सह । समग्रमपि दिवसं तदवलम्ब्यैव पुरुषार्थमपि कुरुते सः । रात्रौ च यदा शयनशरणो भवति तदापि कदाचितदन्तः प्रज्वलितेनाऽतृप्तेरग्निना सह स्वपिति, कदाचिच्च नवीनाभिलाषस्य परितापेन शेते । कुत्राऽस्ति एकस्या अपीच्छायाः पूर्णताया: परितोषस्तस्य ? एकवारं भुक्तं भोजनमपि षड्ङ्घण्टापर्यन्तं किं तृप्तिं न जनयति ? अर्थाज्जनयत्येव । एतादृशीं सरलामपि गणनां न ज्ञातुं शक्तो जनः किम् ? एका परितृप्तेच्छा तु न तं षट्समयमात्रमपि कालं सुखयति । वस्तुतस्तु स न ततः सुखं प्राप्नोति - इति सत्यम् । किं कारणं तत्र ? दरपूरं भोक्तुमिच्छेत्, तत्तु शक्यम्, परिधातुं यदि वस्त्राणि वाञ्छेत्, तदपि शक्यम्, यदि वसितुं गृहस्याऽभिलाषा तस्य, साऽपि नाऽशक्यं पूरयितुम् । किन्तु न जनः केवलमुदरपूरं भोक्तुं वाञ्छति, स तु यत्तस्मै रोचते तदेव भोक्तुमभिलषति । तथा न सामान्य २६ Page #34 -------------------------------------------------------------------------- ________________ - वस्त्रादिष्वेव तस्याऽभिलाषः किन्तु यथारुचि तत्प्राप्तौ प्रयत्नवान् भवति । एवं गृहेऽपि तदभिलषिते एव तस्याऽऽसक्तिरस्ति । एतत्सर्वं तु प्रायो न शक्यम् । एतदेव चाऽस्ति तस्य दुःखस्य कारणमपि । एका सुन्दरोक्तिरस्ति यद् - "यस्मिन् भवते रुचिर्वर्तते तद् यदि नाऽश्नुयात्, तर्हि यद्भवता प्राप्त तस्मिन्नेव रुचिरुत्पादयतु ।" त्रीण्यपि मनुष्यस्याऽऽवश्यकाङ्गानि सन्ति जीवने। किन्तु, एतेष्वपि यावत्यनिवायता तावदेव तत्प्राप्तौ प्रयत्नः कर्तव्यः । शेषकालेन तु जीवनतत्त्वमेवाऽनुभवितव्यम् । __ कालमेव वयं निर्गमयामः, न तु जीवनं कदाप्यनुभवामः । कस्याञ्चित्प्राप्तावेव वयं विक्षिप्ताः स्मः। एतस्य करुणतमः परिणामस्तु जनस्याऽन्तिमेषु क्षणेष्वनुभूयते सर्वैर्यद्तत्क्षणे तस्य जिजीविषाऽतीवोत्कटा भवति । तस्यामपि न जीवनतत्त्वानुभवस्य काऽपीच्छा प्रवर्तते, किन्तु यस्यां कस्यामपि स्पृहायामपूर्णमनोरथः स तदा जीवनमिच्छति । तत्कालेऽपि न तस्य बोधोपलब्धिः । इतः परा काऽपि विद्यते करुणता किम् ? सिकन्दरो दिग्विजयार्थं प्रस्थितः । एकैकं कृत्वाऽनेकदेशान् जयतस्तस्य विजययात्रा प्रतिदिनमग्रमग्रं प्रवर्धते स्म । एकदा पार्मोनियाख्यो जनस्तमपृच्छत् पार्मोनिया - अधुना किं कर्तुमिच्छति भवान् ? . सिकन्दरः - ईरानदेशं जेष्यामि । पार्मोनिया - पश्चात् ? सिकन्दरः - हिन्ददेशान् पराजेष्ये । पार्मोनिया - तदनु च? सिकन्दरः - सिथियानामदेशं स्वायत्तं करिष्यामि । पार्मोनिया - ततः परम् ? सिकन्दर : - पर्याप्तमेतेन । पश्चादहं तेन विश्वविजेता सम्राड् भविष्यामि । अतो नितरामानन्देन सुखमनुभविष्यामि। श्रुत्वैतत्कथनं सम्राजः पार्मोनियाख्येन तेन जनेनैको वेधकः प्रश्नः कृतः-यद्येतत्सर्वं कृत्वाऽप्यन्ततोगत्वा शान्ति सुखमेव वाऽभिलषति भवान् तर्हि किमर्थमद्यापि हस्तगतां तां नाऽनुभवितुमुत्सुकः? N७ २७ Page #35 -------------------------------------------------------------------------- ________________ पार्मोनियोक्तमेतत्सत्यं विजयोन्मत्तः सिकन्दरो न स्वीक्रियेत चेत् तत्तु स्वाभाविकमेव । किन्तु यैरेतादृशाः केऽपि विजया न प्राप्ताः प्रत्युत प्रयत्नसहस्रेष्वपि सततं निष्फलतां निराशामेव च ये भजन्ति, तादृशाः काल्पनिकविजयेषु रममाणा अनेके सिकन्दरानुकारिणोऽस्मिन्जगति वर्तन्ते ये किमपि स्वमनोऽभिलषितं मनोहत्य सम्प्राप्य पश्चाद् वयं शान्तिपूर्वं जीविष्यामःइति कृत्वाऽन्धवत् इतस्ततो धावान्ति, तेषां हृदये एतत्सत्यं कथमवतरिष्यति ?कदाचित् ते एवं विकल्पयेयुर्यत् “सिकन्दरो निष्फलतां प्राप्तः । तमुदाहृत्य वयमपि न किमपि प्राप्स्येम प्राप्य वा न किञ्चिदप्युपभोक्ष्येम इति किमत्र प्रमाणम्?" स्वस्पृहासाफल्यस्य सुखदकल्पनाया अमृताचमनस्य मिथ्योद्गार एवैतादृशां जनानां जीवनबलमस्ति। 'आशा एव जिजीविषां प्रेरयति' इति कविजनोक्तिः सत्यमेव किन्तु 'सा जीवनतत्त्वानुभवं रुणद्धि' इति ज्ञानिजनोक्तिरपि किं न तथ्या प्रतिभासते ? आशाया ये दासा - स्ते दासा सर्वलोकस्य। आशा येषां दासी, तेषां दासायते लोकः ।। सिकन्दरस्य जीवनमेतत्सत्यमेवोद्घाट्य समाप्नोदिति सुविदितमेव सर्वेषाम् । किन्त्वाश्चर्य त्वेतद् यत्-तस्य विजयाः स्मर्यन्ते सर्वत्र परंतु अन्तकाले तस्योद्भूतः सद्बोधो न कदापि स्मृतिपथमायाति कस्याऽपि । संसृतेर्या काचिदपि घटना - सिकन्दरस्य, ईशुख्रिस्तस्य, बुद्धस्य, भगवन्महावीरस्य यस्य कस्यचिदपि सामान्यजनस्य वा जीवनस्य भवेत् सत्यमुदघाटयत्येव । केवलं मनुजस्य मिथ्या भौतिकाभिलाषा तं तत्प्रत्यक्षिनिमीलनं कारयति । अत एव चैतागेव यत्किमपि सत्यं यदि स्वकीये जीवनेऽनुभवितुमापतति तदा जनो नैराश्यमभ्युपगच्छति । यतोऽद्यपर्यन्तं सर्वत्र निश्चिन्ततयैव तेन वर्तितं स्यात् । तदा च न स सत्येन पथा गन्तुं क्षमो भवति । एकत्र मनः समुद्दिश्य कथितम् - रे मनः । अवसरो व्यतीतः, यावत् तारके किमपि द्रष्टुं शिक्षिते तावनत्रे निमीलिते" इति । सद्दर्शनमेव वास्तविकः सुखस्य मार्गः । अधुना वयं यत् पश्यामस्तन्मनसो माध्यमेन मनःप्रेरिता वा । तदेव च दर्शनमस्मान् पदार्थान् प्रति परिस्थितेभौतिकतां वा प्रति बलान्नयति । किन्तु यदा हि दर्शनस्याऽऽधार आत्मा भवति तदा 19 २८ " Page #36 -------------------------------------------------------------------------- ________________ च दर्शनं पदार्थानां परिस्थितेश्च सत्यं प्रति - अध्यात्म प्रति वा प्रेरयति । यत्र गते सति सुखस्यैव केवलमुदधिः कल्लोलयति । यतस्तठ्ठद्दर्शने न विद्यते काऽपि वासना स्पृहाऽतृप्तिर्वा । सत्यं दर्शनमेव केवलं तत्र भवति । कस्याऽपि कामुकस्य योगिनो वा पुरुषस्य कामिनीदर्शने यो दृष्टिभेदो वर्त्तते स एव भेद उपर्युक्तयोर्द्वयोरपि दर्शनयोर्वर्तते । एको भुक्तौ सुखं कल्पयति तत्प्राप्तौ च यतते । अपरश्च पनः परमाणनां विलासमात्रं तत्र पश्यति । अतो विरक्तावेव स सखं निश्चिनोति। यच्च तस्य हस्तगतमेव, न तत्र प्राप्तौ कोऽपि प्रयत्नः करणीयस्तेन । एकस्य, परिस्थितेर्वर्तमानं बाह्यस्वरूपं विलोभ्याऽऽसक्तिं जनयति, अपरस्य च परिस्थितेः सत्यमध्यात्म वा विरक्तिमुत्पादयति, एतदेव च सद्दर्शनम् । उच्चैरपि भौतिकतायां क्षणविनश्वरत्वं संदृश्य तद् द्वारा च विरक्तिं प्रदीप्य निरपेक्षतायाः सुखस्याऽनुभव एव सम्यग् दर्शनम् । कस्याश्चिदपि भौतिकताया वर्तमानस्थितौ विमुह्य तत्र च सुखं मत्वा तत्प्राप्तौ यत्न एव मिथ्यादर्शनम् । येनैतादृशः प्रयत्नो न कृतस्तस्य सुखं तु स्थिरं शाश्वतं च भवति । यतस्तन्न साधारम् । येन च यत्ने कृते किमपि लब्धं तर्हि तत्सुखं त्वल्पकालीनं भवति । यतो वस्त्वादिनाशस्तत्यागश्च तं दुःखयत्येव । यश्च प्रयत्रशतैरपि निष्फलोभूत् स तु सदाकालं दुःखी एव । अत एव तद्मिथ्या एव । सुखं तु सम्यग्दर्शननेनैव भवति । नैवं चिन्तनीयं केनाऽप्यत्र यद् "नास्त्यस्य किञ्चिदपि प्रापणे शक्यताऽतो विरक्तेर्मार्गः स्वीकृतः ।" एतत्कथनानुसारं सन्देहस्तु पुरुषार्थिनमप्यनुसरतीयानेव । न तत्र सर्वथा सर्वं शक्यमेव । अपरं च, अप्राप्तौ विरक्तिस्तु निराशा, न 'विरक्ति'रित्यनेन साऽभिधेया। किन्तु ज्ञानमूलकस्त्याग एव विरक्तिः । सम्प्राप्याऽपि यदि सर्वमन्ततोगत्वा त्याज्यमेव तर्हि किं तत्र विफलपुरुषार्थस्य प्रयोजनम् ? अत एव विरक्तिः प्रशस्ता वर्णिता। आवश्यकेष्वपि न यतितव्यमिति नास्त्यत्राऽऽशयः । आवश्यकताप्रेरिते पुरुषार्थे आकाङ्क्षाजन्ये च पुरुषार्थे महदन्तरं वर्तते । आकाक्षाजन्यश्च पुरुषार्थोऽनन्तः, इच्छाया निरवधिकत्वात् । अस्मिश्च जनो जीवनतत्त्वमनुभवितुं विस्मरति । प्रश्नश्च जीवनरसानुभवस्याऽस्ति । तं विमुच्य पदार्थेषु सुखानुभवं मत्वा यां प्रवृत्ति करोति यत्किञ्चिदपि च प्राप्नोति 19 २९ en Page #37 -------------------------------------------------------------------------- ________________ तस्मिश्च बुधपुरुषा न कमपि सारं पश्यन्ति, सम्यग्दर्शित्वात्तेषाम् । मनुष्याणामनेकविधानां प्रश्नानामेकस्यैवाऽस्य सम्यग्दर्शनस्य साहाय्येन निराकरणं सुलभम् । प्रत्येकं जनः स्वकीयया दृष्ट्यैव स्थितिं पदार्थांश्च प्रेक्षते विचारयति च । तत एव च प्रश्नाः समुद्भवन्ति । यस्याऽस्ति सदृष्टिः सत्यान्वेषणस्य वा दृष्टिः सोऽपि स्वदृष्ट्यैव परिस्थितिं पदार्थांश्च मानयति । किन्तु, न नाम कोऽप्याग्रहस्तं तत्र पीडयति, अत एव च सङ्घर्षोऽपि तस्य नोद्भवति । अन्यत्र च क्षुद्रदृष्टिराग्रहग्रहिलो जनोऽनेकेषु प्रश्नजालेषु मुह्यन् स्वकीयाया मूलावस्थाया भ्रष्टो भवति । ___मनुष्यरूपेणाऽस्माकं वर्तमानाऽवस्था यद्यप्यल्पकालभाविनी एव तथापि तत्वतो जीवनं शाश्वतम् । सर्वत्र सर्वकालं च तद् वर्त्तते । एतादृशस्य जीवनतत्वस्याऽनुभूतिं विनैवेतः प्रस्थानं न तस्य साफल्यं कथ्यते । ईदृशं शाश्वतं तत्त्वं विमुच्य नश्वरप्राप्त्याऽऽत्मसन्तोषप्रापणं यदि न मौयं तर्हि किं तत् ? , ___ या काऽप्यवस्था यद्यशाश्वता तर्हि तया सम्बद्धैर्दुष्प्रापैर्दुर्लभैर्वा सर्वैः पदार्थैरप्यशाश्वतैरेव सम्भाव्यते । सर्वेष्वपि सम्बन्धेषु सर्वास्वपि चेच्छासु प्रान्तेऽतृप्तिरेवाऽवशिष्यते । शाश्वतं तु सर्वाप्यवस्थास्वनुगतं केवलं जीवनतत्त्वमेवाऽस्ति । तदेवैतद् यदस्तित्वेनाऽभिधीयते । अस्तित्वमात्रस्याऽऽनन्द एव जीवनतत्त्वस्याऽऽनन्दः । इच्छानामतृप्तीनामेषणानां भारैर्मुक्तोऽयमानन्दः । अस्याऽऽनन्दस्य न विद्यते कोऽप्याधारः । नैष कस्मादपि पदार्थसार्थात् कस्या अपि वा परिस्थितेः प्राप्यते । स तु पदार्थानां परिस्थितेश्च सत्यादुद्भवति, सम्यग् दर्शनं च तस्य मूलम् । दृष्टेरुद्घाटनादेव सत्यमुदघटते । सत्यस्य दर्शनस्य पश्चादेवाऽऽनन्दस्य सुखस्य वा गृहे प्रवेशोऽपि भवति । तदेव च सुखं शाश्वतमनन्तं वाऽस्ति । यदीह च जनस्य कस्या अपि प्राप्तेरिच्छायां लक्ष्यरूपेण यद्यखण्डं सुखं सम्पूर्णश्चानन्दः स्याताम्; अद्यापि च यदि स्वस्वीकृतमार्गेण न स साफल्यमाप्नोत् तर्हि किमर्थमनेन सद्दर्शनस्वरूपेण मार्गेण न यतितव्यम् ? Page #38 -------------------------------------------------------------------------- ________________ - त्रिवर्गः -मुनिधर्मकीर्तिविजयः त्रिवर्ग संसाधनमन्तरेण पशोरिवाऽऽयुर्विफलं नरस्य। तत्रापि धर्मं प्रवरं वदन्ति न तं विना यद् भवतोऽर्थकामौ ॥ अन्वयः- त्रिवर्गसंसाधनमन्तरेण नरस्य आयुः पशोः इव विफलं (अस्ति)। तत्राऽपि धर्मं (एव) प्रवरं वदन्ति, यत्तं विनाऽर्थकामौ न भवतः। भावार्थ:- धर्म-अर्थ-कामस्वरूपपुरुषार्थविहीनो नरः पशुनिभः कथ्यते, ततस्तस्याऽऽयुरपि निष्फलमस्ति । तत्र त्रिषु पुरषार्थेषु बुद्धैः- आगमज्ञैः धर्मपुरुषार्थ एवोपादेयः साधनीयश्च कथितः। यतस्तेनैव धर्मपुरुषार्थेनाऽन्यौ द्वावपि अर्थकामपुरुषार्थौ सिध्येते। जाता अस्मिन् जिनशासनेऽद्यपर्यन्तं नैके महापुरुषाः। प्रत्येक शतके जिनमते विशिष्टा महापुरुषा अवातरन् । तैः सर्वैः महापुरुषैः यथामति यथाशक्ति च विद्या-तपो-योगमन्त्रादिसाधनाभिः विविधयुक्तिभिश्चाऽस्य शासनस्योपासना कृता । तत्प्रभावेणैव निराबाधमिदं शासनं प्रवर्ततेऽद्याऽपि।। तत्र त्रयोदशशतकस्य प्रारम्भकाले कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरभगवतां समकालीनाः पूज्यपादश्रीसोमप्रभसूरीश्वरा बभूवुः । तैः गुरुवरैः “सिन्दूरप्रकर' इतिनामा शतश्लोकमितो ग्रन्थो रचितः। अस्मिन् ग्रन्थे तीर्थकर-गुरु-जिनमत-सङ्घभक्तिमाहात्म्यकषायविपाक-गुणिजनसमागमलाभ-इन्द्रियदमनादिविविधान् विषयान् निरूपयन्तोऽनेके श्लोकाः सन्ति । तत्र धर्मस्य माहात्म्यं वर्णयन्नेष श्लोकोऽस्ति । __ चतुर्गतिषु परिभ्रमणशीलानां सर्वेषामपि जीवानां त्रैकालिकं कार्यं यैः दृष्टिगतं कृतं तैः सर्वज्ञ-सर्वदर्शितीर्थकरभगवद्भिः 'धर्म-अर्थ-काम-मोक्ष' इति चत्वारः पुरुषार्थाः प्रदर्शिताः। एषु चतुर्षु पुरुषार्थेषु सर्वमपि कार्यं जगतः समाविष्टं भवति । न केवलं मनुष्याणामपि तु देवानां नारकाणां तिरश्चामपि जीवानां सर्वं कार्यमेषु पुरुषार्थेषु आपतति। एतेभ्यः पुरुषार्थेभ्यो विना सृष्टेः कल्पनाऽप्यशक्या, यत एते चत्वारः पुरुषार्था एवाऽस्य जगत आधाराः सन्ति । Page #39 -------------------------------------------------------------------------- ________________ तथा च पुरुषार्थरहितमेकमपि कार्यं न संभवत्यस्मिन् जगति । तथाऽपि ग्रन्थकारैः 'मोक्षे' त्यभिधानं पुरुषार्थं धर्मे एवाऽन्तर्गतं कृत्या त्रय एव पुरुषार्थाः प्ररूपिताः, यतो धर्मेणैव मोक्षः, धर्म एव मोक्षस्वरूपफलस्य कारणं च। आत्मनः पौरुषं प्रकटीकर्तुं यः प्रयत्नः स पुरुषार्थ: कथ्यते । सर्वेऽपि संसारिजीवाः सुखमभिलषन्ति । यद्यपि तत्सुखं भवेत् भौतिकमात्मिकं वा स्वाधीनं पराधीनं वा भववर्द्धकं भवनाशकं वा, किन्तु जीवास्तु सुखमेव प्रार्थयन्ति । ततस्तदर्थं पुरुषार्थं कुर्वन्त्येव । पुरुषार्थव्यतिरेकेण केऽपि प्राणिनो जीवितुं न समर्थाः क्षणमपि। ____ अस्यां मेदिन्यां यस्मिन् दिने जीवोऽवतरति तद्दिनादेव-तत्क्षणादेव स पुरुषार्थमाचरति । रोदनं हसनं क्रीडनं चलनं आसनं स्वपनं जागरणं चेत्यादयः सर्वा अपि चेष्टाः पुरुषार्थस्यैव भेदाः सन्ति । एवं जीवने प्रत्येकमवस्थायां तदनुरूपा चेष्टाऽस्माभिः क्रियते । किन्तु 'सा चेष्टा पुरुषार्थः कथ्यते' इति तदा ज्ञातुं न समर्थाः, यतस्तथाविधबोधस्याऽभावात् । तथाऽपि बाल्यकाले रोदनं हसनं पठनं कीडनं च, यौवने धनोपार्जनं विषयसुखरमणं च, प्रौढत्वे कदाचिद्धर्माऽऽराधना कदाचिद्दुष्कृतस्य पश्चात्तापो, विशेषत आर्तध्याने रौद्रध्याने च रमणमित्यादयः चेष्टाः क्रियन्ते। ता एव चेष्टाः कदाचिदर्थपुरुषार्थत्वेन कदाचित् कामपुरुषार्थत्वेन कदाचिद्धर्मपुरुषार्थत्वेन च कथ्यंते, एवं जीवनं पुरुषार्थं विना न शक्यमेव । तत्र कामस्य कारणमर्थः धर्मश्च मोक्षस्य कारणमस्ति । तत्राऽपि धर्मस्तु शेषाणां त्रयाणामपि पुरुषार्थानां निदानम्, ततो धर्म एवोपादेयः। वर्तमानकाले त्वरितसुखाभिलाषिभिः क्षणिकशर्माभिकाङ्क्षिभिः जीवैः धर्मं गौणीकृत्याऽर्थकामौ एव प्रधानीकृतौ । तथा चाऽर्थकामयोः सुखार्थमेव विशेषतः प्रयत्नं कुर्वन्ति, किन्तु तन्नोचितम्, यतोऽर्थकामाभ्यां यत्सुखं लभते तत्सुखं पराधीनं क्षणिकं चाऽस्ति । ततो यत् पराधीनं तद्वस्तुतो दुःखमेव, यस्मात् कारणात् यावद् वातावरणं वस्तूनि वा सन्ति तावदेव तत्सुखमस्ति । किन्तु यदा तदेव वातावरण-वस्तूनि वा नष्टानि भवन्ति तदा तदेव तत् तत् वस्त्वादिकमवलम्बमानं सुखं दुःखे परिणमति । एवं सति मनसि क्लेशः संतापश्चोद्भवति, ततो येन सुखेन चित्ते संताप:- उद्वेग:- अप्रसन्नत्वं-व्याकुलता-शोकं इत्यादिक्लेशा उत्पद्यन्ते तत् सुखं कथं 19 ३२ @h Page #40 -------------------------------------------------------------------------- ________________ सुखत्वेन कथयितुं शक्यम्। किञ्च, यस्य सुखस्य प्राप्तौ दुःखं, अर्थेन लब्धसुखस्य स्थिरीकरणे दुःखं, तथा यस्य वियोगेऽपि दुःखम्, एवं यस्मिन् सदा दुःखमेवाऽस्ति तत् सुखं कथं सुखं कथ्यते । कथितम्अर्थानामर्जने दुःखमर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं धिग् द्रव्यं दुःखवर्धनम् ।। एवं यथार्थत्वेन दुःखमेवाऽस्ति अर्थेन लब्धं सुखम् । तथैव कामेन लभ्यमानं सुखमपि दुःखरूपमेव । कामस्य विपाकान् वर्णयता भगवता श्रीउत्तराध्ययनसूत्रे प्ररूपितम्खणमित्तसुक्खा बहुकालदुक्खा पगामदुक्खा अनिगामसुक्खा । संसारमुक्कस्स विपक्खभूया खाणी अणत्थाण उकामभोगा॥ अन्यच्च-यत् पराधीनं तत् क्षणिकं, यत् क्षणिकं तद्वस्तुतो न सुखं, किन्तु सुखाभासः एव। चारुवस्तुनो दर्शनात् चक्षुः प्रीणयति, मनोज्ञगन्धात् घ्राणमानन्दमनुभवति, कोमलस्पर्शात् त्वक् प्रसन्नतां प्राप्नोति, मधुरारावश्रवणेन कर्णः प्रोल्लसति, एवमेतेभ्योऽ 'हं सुखं लभे' इति वयं मन्यामहे । किन्तु सा भ्रमणैव । यतः सुखं नाऽऽगन्तुको गुणोऽपि तु आत्मनो गुण: स्वाभाविकः, तेन कस्याऽपि बाह्यवस्तुनो भौतिकपदार्थस्य चाऽवलम्बनात् कदापि न सुखं प्राप्यते । एवमर्थकामाभ्यां लभ्यमानं सुखं सुखाभासः एव । तथाऽप्येतस्मिन् सुखाभासे मोहिता वयं सर्वेऽपि तदर्थकामयोः प्राप्त्यर्थमेव निरन्तरं रात्रिंदिवं परिभ्राम्यामः । निद्रापरिश्रम-आतप-शीतादीनि दुःखान्यदृष्ट्वाऽऽजीवनमर्थकामार्थमेव सदा प्रयतामहे । किञ्च, एष सुखाभासस्तु अब्धिजलावर्तनिभोऽस्ति । अब्धिजलावर्ते पतितो जनो बहिनिर्गन्तुं यथा यथा प्रयतते तथा तथा स जीवस्तस्मिन्नेव दृढत्वेन निमज्जति, तथैवैकदाऽर्थकामयोः सुखेषु निमग्नो जनः कदाप्युपरि नाऽऽगन्तुं समर्थो भवति, किन्तु स बहिर्निर्गन्तुकामो जीवस्तस्य सुखाभासस्य भ्रमणायां विशेषतो निमज्जति । एवं शनैः शनैः स सर्वतो भ्रष्टो भवति । प्रान्ते स जीवः स्वकीयधर्मात्तथाशाश्वतादात्मिकसुखादपि वञ्चितो O ३३ er Page #41 -------------------------------------------------------------------------- ________________ भवति । परम्परया मोक्षसुखादपि दूरीभूतो भवति । तथाऽपीदानीं न जाने कथमर्थ एव परमेश्वरः, अर्थ एव जीवनदाता, अर्थ एव सर्वस्वमिति मन्यामहे वयं सर्वेऽपि । संप्रति अस्माकं सर्वेषामपि जीवानां चेतस्येका मिथ्याभ्रमणाऽस्ति, यदर्थेनैव जीवने सुखं लभ्यते, तेनैव धर्म आराधयितुं शक्यः, तेनैवाऽयं संसारव्यवहारः सुखेन निर्वहति, अर्थेनैव लोके समाजे कुटुम्बे च सत्कारो मानः प्रतिष्ठा च प्राप्यन्ते । तत एतया मिथ्याभ्रमणयाऽसत्कल्पनया चाऽस्माकं मनोवृत्तिः सङ्कुचिता भवति । ततः तत्प्रभावेण वयं परोपकारित्व-औदार्य-निरभिमानित्व- सन्तोषादीन् सहजगुणान् तथा सामाजिककर्तव्यमपि च विस्मृत्य अर्थकामार्थमेवैतज्जीवनं प्रवहामः । किन्तु नैतदुचितम्, यत अर्थ एव सर्वेषामप्यनर्थानां कारणम्। यद् वर्णितम्- अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ अस्मिन् कालेऽप्यर्थकामाभ्यां येऽनर्था उत्पादितास्ते तु कल्पनातीताः सन्ति । इदानी राजकीयक्षेत्रे विद्याकीयक्षेत्रे सामाजिकक्षेत्रे क्रीडाक्षेत्रे च याऽराजकताऽस्तव्यस्तता च वर्तते, तस्य मूलं किं? अर्थ एव । अहो ! धार्मिकक्षेत्रेऽपि तस्य विशिष्टः प्रभावो विद्यते । धार्मिकसंस्थाया अधिकारिषु गर्व-दम्भ-प्रपञ्च-ईष्या-असूया-महत्त्वाकाङ्क्षादिदुर्गुणानामुत्पादकोऽर्थ एव। अर्थकामाभ्यां मानवीया गुणा अपि नष्टाः । अर्थकामाभ्यां वशीभूता उच्चासने स्थिता आत्मानोऽपि घृणास्पदं जुगुप्साप्रेरकं चाऽनिष्टं कार्यस्य करणे कारणे च न लज्जामप्यनुभवन्ति। __एतादृशीं प्रवृत्तिं प्रेक्ष्य मनस्येवं भवति यद्, यद्यर्थ एव सर्वेषां सुखानां निदानं तथा जीवनस्याऽऽधारो भवेतां तहि पूर्वजैः पूर्वराजषिभिः महाराजैश्च न त्यज्येयातां विषयसुखं राजसुखं च । निखिलशर्मपूर्णराज्यवैभवमपि विहाय संन्यासं प्रत्यपद्यन्तते, तेनैव ज्ञायते यन्नाऽर्थकामाभ्यां सुखं लभते । पूज्यपादश्रीधर्मदासगणिना उपदेशमालायां प्रोक्तम्दोससयमूलजालं पुव्वरिसिविवज्जियं जई वंतं । अत्थं वहसि अणत्थं कीस अणत्थं तवं चरसि ? ॥ 19 ३४ ॥ Page #42 -------------------------------------------------------------------------- ________________ तथाऽपि कलिकालस्य महत्तममाश्चर्यमेतदेव यत् सर्वेऽपि जीवा अर्थकामयोः अशुभविपाकाननुभवन्ति पश्यन्ति च तथाऽन्यान् कथयन्त्यपि, किन्तु स्वयमर्थकामयोः मूर्च्छा विहातुं न समर्थास्ते । इदानीमर्थकामार्थं न केवलमज्ञानिनो मूढा निर्धनाश्चाऽपि तु धनपतयः त्यागिनो वचनमात्रेणैव धार्मिकाश्च जीवा अपि प्रोन्मत्ता भवन्ति । अहो ! संसारस्य विचित्रता । अहो ! अर्थकामयोः प्रभावः । एवमर्थकामयोः दुष्टविपाकं ज्ञात्वा वीतरागैः प्ररूपितो धर्म एवाऽऽचरणीय आदरणीयश्च । किं स्वरूपं धर्मस्य ? बाह्यपरिणति - विभावावस्थां च संत्यज्याऽऽभ्यन्तरपरिणतौ स्वभावाऽवस्थायां रमणमेव धर्मः । आत्मनो ज्ञान-दर्शन- चारित्रादिविशुद्धगुणानामुपासनैव धर्मः । अत्र जिनशासने जिनैः ज्ञानदर्शनचारित्रस्वरूपो धर्मः अहिंसासंयमतपोभेदरूपो धर्मः दानशीलतपोभावनास्वरूपो धर्मश्च निरूपितः, एवं भिन्न-भिन्नभेदैः धर्मो वर्णितः । एतद्धर्मेणैवाऽर्थकामाभ्यां यत्सुखं लभ्यते तत्सुखं प्राप्यते । यतो मोक्षपुरुषार्थान्वितो धर्मपुरुषार्थ एवोपादेयः, अर्थकामौ तु हेयौ । ततो धर्म एव सर्वसुखस्य निदानं स एवाऽर्थकामप्राप्तेर्मूलं, स एव दुःखौघनाशकः, तथा स एव मोक्षमार्गस्य सरणिः । एतेन धर्मेणैव पञ्चेन्द्रियाणां विषयभोगैश्च सहाऽऽत्मिकं परिपूर्णं सुखमपि प्राप्यते । तथा तत्सुखं च कदापि नष्टं न भवति मोक्षरूपस्य परमनिर्व्याघात - शाश्वतसुखस्य प्राप्तिपर्यन्तम् । एवमेतत्सुखं वर्द्धमानपरम्परया लभ्यते । ततोऽर्थकामयोः सुखस्याऽऽकाङ्क्षां त्यक्त्वा, येन देवानामपि दुर्लभं सुखं प्राप्यते स धर्म एवाऽऽराधनीयः । एतद् ज्ञेयमत्राऽपि न कयाऽप्याकाङ्क्षया धर्मः कर्तव्यः । यतो यत्र स्पृहा तत्राऽपेक्षा, अपेक्षा एव रागः, रागस्तु सर्वेषामपि दुःखानां मूलम् । ततो यत्राऽपेक्षा तत्र दुःखमस्त्यवश्यमेव । NO ३५ Page #43 -------------------------------------------------------------------------- ________________ उपदेशमालायां गदितं - को दुक्खं पाविज्जा ? कस्स व सुक्खेहिं विम्हओ हुज्जा ? । को वन लभिज्ज मुक्खं ? रागद्दोसा जइ न हुज्जा?॥ अस्मिन् जगत्यपेक्षया तुल्यं न किमपि दुःखमस्ति । ततोऽपेक्षाविहीनः कृतो धर्म एव श्रेयस्करो भवति । यदि बाह्यसुखस्य भौतिकसुखस्य च स्पृहया धर्मः क्रियेत तर्हि संसारनाशको धर्मोऽपि संसारवर्द्धको भवपरम्परादश्च भवेत् । निराशंसभावेनाऽऽदृतोऽल्पः सूक्ष्मोऽपि धर्मः कल्याणकारी भवति । तत एतादृश एव धर्म आचरणीयः । तदैवैतादृशो धर्मः साधयितुं शक्यः, यदा निष्काममनोवृत्तिः निरासक्तचित्तवृत्तिश्च प्रादुर्भवेत् । अन्यथा कर्मक्षयस्य निदानरूपो धर्मोऽपि कर्मबन्धस्य कारणं भवेत्, ततः शुभकर्मबन्धोऽपि बन्धनकतैव । शास्त्रेषु अपि कथितं-न पुण्यबन्धस्याऽपेक्षयाऽपि धर्मः कर्तव्यः । यतः कमैव पुण्यमपि, कर्ममात्रं बन्धनं, ततः शुभमपि कर्म मोक्षमार्गस्य बाधकं भवति । यथा शीतलचन्दनैः प्रादुर्भूतोऽग्निरपि विस्तृतं वनवृन्दं दहति तथैव धर्मेण प्राप्तं पुण्यसुखमप्यात्मनो विशुद्धगुणान् शाश्वतं सुखं च स्थगयति । तत उत्तमजीवा धर्मेण प्रादुर्भूतं पुण्यभोगं मनसाऽपि नाऽभीष्टं मन्यन्ते। तथापीदानी विदग्धात्मान एवं कथयन्ति, यद् यदि धनसंपत्तिः भवेत्तर्हि धर्मकार्याणि सामाजिककर्तव्यानि दुःखिजनसेवा चेति धर्मक्रियाः भवेयुरिति मत्वा ते जीवा धनार्थमन्यान् वञ्चयन्ति, असत्यं वदन्ति, मायया मुग्धजनेभ्यो धनं गृह्णन्ति, दुःखिजनानां हृदयं घातयन्ति एवं विविधप्रकारैः दुष्कृतैरनथैश्च द्रव्यमुपाय॑ सत्कार्येषु धार्मिकक्षेत्रेषु च धनव्ययं कुर्वन्ति । अधुनैतादृशो धर्मस्यैव प्रमाणमधिकं वर्तते । अपि तु वस्तुतोऽत्र न धर्मः किन्त्वाडम्बर एव । यतो भूतानां हिंसा, असत्यस्य आचरणं, अदत्तस्य ग्रहणं, मायाप्रपञ्चपूर्वकेण प्रवृत्तिः दुःखिजनानामवहीलना, एतदेवाऽधर्मः । कदाप्यधर्मेण प्राप्तया श्रिया धर्मः कर्तुं नैव शक्यः । यस्य मूलेऽशुभभावा वर्तन्ते स बाह्यापेक्षया दृश्यमानो बृहत्तमोऽपि धर्मोऽधर्म एव । कदाचिदेतादृशेन धर्मेण पुण्यबन्धो भवति किन्तु स सूक्ष्मरूपः, तदपेक्षया तस्याऽशुभः बन्धो बृहत्तमो भवति । तेन बन्धेन भविष्यति काले ते जीवाः पुण्यानुबन्धिपुण्यभाजो न - - 19 ३६ - Page #44 -------------------------------------------------------------------------- ________________ भवन्ति । ततो धर्मार्थं धनस्यऽपेक्षा न प्रशंसनीया । चतुर्दशशतग्रन्थप्रणेतृपूज्यपाद श्रीहरिभद्रसूरीश्वरभगवताऽष्टकप्रकरणे प्ररूपितं धर्मार्थं यस्य वित्तेहा तस्याऽनीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ एतेन ज्ञायते, यद् धर्मोऽपि निरपेक्षभावेनैव करणीयः । स धर्मो भिन्नभिन्नरीत्याssराधयितुं शक्यः । तं धर्मं कर्तुं सर्वेऽपि जीवाः समर्थाः । अत्राऽऽवश्यकमेतदेव, यत् सर्वेषामपि चित्ते शुभभावो भवेत् । प्रान्ते येषु जीवेषु कोऽपि पुरुषार्थो नास्ति ते जीवाः पृथ्व्यां मानवरूपेण पशुनिभा एव ज्ञेयाः । तथा च तेषां जीवनमपि निष्फलमेव भवति । अत एतादृशमनिच्छन्तो वयं सर्वेऽपि मोक्षपुरुषार्थान्वितधर्मपुरुषार्थाय विशेषतः प्रयतेमहीति मतिर्मे । { * फल्गु बाह्यं हि मण्डनम् । हैमवचनामृतम् " 66 गणकोटि: यः कर्म्मणः उदये उद्विग्नः स अज्ञः । यः कर्म्मणः उदये अनुद्विग्नः स विज्ञः । यः कर्म्मणः उदये सद्विचारेषु निमग्नः स प्राज्ञः । NO ३७ Cle } - साध्वी श्रीयुगन्धरा श्री Page #45 -------------------------------------------------------------------------- ________________ - मुनिधर्मकीर्तिविजयः यथा यथा वयो वर्धते तथा तथाऽऽत्मनः स्वभावस्य न्यूनता येन गृह्यते स विकासः । स्वकीयस्य स्वभावगतायाः न्यूनतायाः बोधो यस्य नास्ति, तस्याऽशक्यो विकासोऽपि । कदाचिद् बाह्यदृष्ट्या लोके समाजे चाग्रणीः प्रतिभाति तत्र तस्याऽदृष्टस्यैव प्रभावो ज्ञेयः, किन्तु न विद्यते तस्य तत्र पुरुषार्थलेशोऽपि । ततः पुरुषार्थेन विना केवलं दैववशेनैव विस्तृतः प्रभावो वस्तुतो विकासत्वेन कथयितुं न शक्यः । यतो विकास एव प्रगतिः, प्रगतौ गतिरस्ति, सा गतिः पुरुषार्थं विना कथमपि न शक्या । आत्मनो न्यूनता द्विप्रकाराभ्यां जनाभ्यां स्वीक्रियते- धृष्टेन वा लज्जालुना वा । स्वस्य न्यूनतायाः स्वीकृतावपि केषाञ्चिज्जनानां हृदयेऽहङ्कार उच्छलति । तत्र केवलं तस्य धृष्टतैव भवति । एतादृग्जनानां विकासस्याऽशक्यैवाऽस्ति संभावनाऽपि । स्वकीयस्य न्यूनतायाः स्वीकरणेऽप्यतीव लज्जामनुभवन्त्यन्ये तथा तस्मिन् काले सा न्यूनता तेषां बाढ पीडयति । तथैव तां न्यूनतामपाकर्तुं सदोद्यमशीला अपि भवन्ति । एतादृशानां जनानां विकासः सुलभ: शक्यश्चाप्यस्ति यतो न तेषामहङ्कारः, अपि तु पश्चात्तापोऽस्ति । विकासः (अनूदित:) { महात्मानः प्रकृत्याऽपि शपथच्छेदकातराः । हैमवचनामृतम् " 14 ३८ ele } Page #46 -------------------------------------------------------------------------- ________________ “स्याद्वादस्य पराजेता न भूतो न भविष्यति" ? ____ -मुनिहितवर्धनविजयः त्रिलोक गुरुभि जिनोत्तमैः प्ररूपितं विश्व-श्रेयस्करंजैन दर्शनं ननु स्याद्वाद-सिद्धान्तोपर्येव निर्भरम् । स्याद्वादः श्रीमज्जिनशासनस्य आत्मा। स्याद्वादवादस्य तन्तुभिरेव समग्रं जिनशासनं ग्रथितम् । स्याद्वादसिद्धान्तेन साकं जैनदर्शनस्याऽविभाज्यसम्बन्धः सुप्रसिद्धः । अत उच्यते - स्याद्वाद एव जैनमतोऽथवा तु जैनमतस्त्वेव स्याद्वादः । तत्स्याद्वादस्य विजितान्यनिखिलनादस्य धुरन्धरोद्गाता भगवान् श्रीतीर्थङ्करः । भगवद्भिस्तीर्थकृभिः प्रस्फूर्जितः स्याद्वाद एव नूनं ब्रह्माण्डस्य तत्त्वान्यारपारमगवन्तुं सक्षमः । विना स्याद्वादयुक्त्या कस्यचिदपि तत्त्वस्य निष्कर्ष क्वचिदपि नैव गम्यते। स्याद्वादस्तु प्रखरवादः । स्याद्वादः सर्वावगाही वादः । स्याद्वादः सापेक्षवादः । स्याद्वादस्तात्पर्योपजीवी वादः । तस्य प्रभावोऽपि महान् स्वभावोऽपि महान् ।। दिग्गजा अपि विपश्चितस्तं पराभवितुं सर्वथा पामराः । प्रचुरप्रभाविन्योऽपि विचारशैलयस्तमतिक्रमितुं त्रुटितांहयः । बुद्धि-जित बृहस्पतयोऽपि मेधाघनपतय स्तमर्दयितुं विकलबलाः । स्याद्वादरेखा किलेदृशी चातिशयवती लक्ष्मणरेखा, यदुत तामतिक्रमितुं केचिदपि दार्शनिकदशानना नह्येव प्रभवन्ति । स्याद्वाद पराजेता न भूतो न भविष्यति । स्याद्वादस्त्रैकालिकसङ्कुलोपरि स्वकीयस्य कीर्तिकलाकीर्णं विस्तीर्णं विजयध्वज - Page #47 -------------------------------------------------------------------------- ________________ मारोपयति । __स्यावाद एव दर्शनसिंहः । तस्य च सिंहनादेन सर्वेऽपि दर्शनगजास्तदनुयायिनश्च प्रत्यङ्गं प्रकम्पन्ते । स्याद्वादस्तु सिंहोपमः शेषास्तु गजोपमाः । मीलितकोटिबलोऽपि गजसङ्घः सिंहमपहर्तुं त्रिकालं न ईष्टे । स्याद्वादस्य व्यक्तित्वं सर्वविजयि । सर्वविजेतुस्तस्य सामर्थ्य समुद्घोषयिताऽसौ कथानकः। एकस्मिन् सभास्थाने गोष्ठीरसिकानां दार्शनिकानां महती सभा संमीलिता । अनेके विद्वांसस्तस्यामुपस्थितवन्तः । लोकवृन्दास्तु कौतुकवशादपरिमितसङ्ख्यासु तत्रैकत्रिताः । एवं बहुजनाकीर्णं तत्स्थानं समभूत् । मङ्गलोच्चारेण सहाऽग्रेसरजनैः सा सभाप्रारब्धवती। विदुरैरथो स्वकीया बहुचर्चाकर्कशा चिन्तनस्य कोट्याः शिरसि संकृष्टा विचारसंहिता क्रमशस्तत्र प्रकाश्यते । सभामध्ये क्वचित्तत्त्वतुमुलोऽपि प्रादुर्भूतः । व्याख्या-विग्रहोऽपि क्वचिज्ज्वलितवान्। संघर्षस्निग्धा लोका अपि तत्सकलदृश्यं प्रेम्णाऽवलोकयन्ति । एवंविघे सदःप्रवर्तिते तदैकश्छटाटोपकुशलो वक्ता वक्तुमुत्थितः । किन्तु तेन भाषणाऽऽरम्भस्य पूर्वस्मिन्नेव संरम्भेण पृष्टम् = कोऽपि स्याद्वादी वर्ततेऽत्र ? यदि च स्याद्वादी स्यानाहं ब्रुवे । सर्वैरुक्तं- न विद्यत इति । एवं विषयकस्य प्रौढसंशोधनस्य पश्चादेव तेन वक्तृणा व्याख्यानं समारब्धम् । विद्युच्चाञ्चल्यवच्च तेन वेगेन वाक्य-विस्तारेण व्याख्यानमग्रेकृतम् । व्याख्यानमध्ये प्रसङ्गोपात्तं तेनोक्तम् एका धवल-जलधारिणी सरिताऽभूत । सततं प्रवाहिन्यास्तस्याः पार्श्वे विशालदल एको वटवृक्षोऽप्यभूत् । स वटवृक्षश्चातिचमत्कारिकः । तस्य चमत्कारोऽप्यद्भुत एवंप्रकार: तद्वृक्षस्य काश्चिच्छाखा नदीजलोपरि काश्चिच्च पृथिव्युपरि आसन् । यानि च तस्य पर्णानि जले पतन्ति स्म तानि जलचराणि भवन्ति स्म; यानि च स्थले 19 ४० en Page #48 -------------------------------------------------------------------------- ________________ - पतन्ति स्म तानि स्थलचराणि भवन्ति स्म इति । एवं रसरसिका कथामाश्रुत्य सभा भूर्यातुरा जज्ञे । तस्य एवं वक्तव्यस्य अनन्तरं तत्सभायां एकः स्याद्वादी उत्थितः । सोऽप्यस्य कथाश्रवणस्य सहभाग्यभूत् । एवंविधकथाप्रसङ्गश्रवणेन तन्मनसि गूढस्तात्पर्यगम्भीरश्च संशयोऽजनि । समुत्थाय तेन स्याद्वादिनाऽभिव्यक्तम् "यानि जलस्थलयोर्मध्ये पतन्ति स्म तानि किं भवन्ति स्म?" प्रश्नश्रवणेनाऽनेन समग्रसभा स्तब्धा । कौशलिका अपि तेन क्षुब्धाः । वक्ता तु प्रतिरोम प्रकम्पितः। अथ तेन वक्तृणा पृष्ठम्- भो बन्धो ! किं भवान् स्याद्वादी ? - आमेति प्रत्युत्तरं प्रश्नकर्तृणाऽपि प्रदत्तम् । तत्क्षणमेव वक्तृणा स्वव्याख्यानं समापितम् स्वयं च पलायितः । सभा च विसर्जिता । अत एव प्रबोध्येताम् "स्याद्वादस्य पराजेता न भूतो न भविष्यति" निराम्नायस्य वचसि श्रद्धा न प्रत्ययं विना।। " हैमवचनामृतम् " 19 ४१ - Page #49 -------------------------------------------------------------------------- ________________ __नमो नमः श्रीगुरुनेमिसूरये ।। पत्रम् - मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । करुणानिधि-वात्सल्योदधि-जगज्जनपतिश्रीवर्द्धमानविभोः परमकृपया पूज्यपादानां गुरुवराणामाशिषा च लक्ष्यसिद्धिं प्रति मदीया संयमयात्रा शनैः शनैः प्रवर्द्धते। त्वदीयमान्तरिकमनोवेदनाभृतं पत्रं मिलितम् , मया पठितम्। किन्तु पत्रप्रत्युत्तरे कियान् कालो व्यतीतः, विहारपरिश्रमादध्यनव्यस्तत्वाच्च । _भ्रातर् ! कठिनोऽस्ति त्वदीयप्रश्नः । नैष प्रश्नः तवैव, अपि तु त्रिलोकवर्तिनिखिलप्राणधारकजनानामेष प्रश्नोऽस्ति । प्रश्नोऽस्ति तत्रोत्तरोऽप्यस्त्येव । आकालपर्यन्तं पृथक् पृथक् पद्धतिभिः बहवो जना धर्मगुरूनप्रश्नयन्। तैरुत्तरोऽपि दत्तोऽस्ति । एवं विद्वद्वर्यैः चिन्तकैरेतत्प्रश्नमनुलक्ष्य मननीयानि पुस्तकान्यपि लिखितानि सन्ति । तथापि यथाशक्ति तावकीनं प्रश्न निराकर्तुं प्रयत्नवान् भवाम्यहं, तवाऽऽग्रहत्वात् । त्वया पृष्टम्-"किं कर्तव्यं तरलं मनः प्रशान्तीकर्तुम्"? अस्मिन् जगत्यविरतगतेः स्वान्तस्य स्थैर्य दुःशकमस्ति । वाक्काययोः स्थैर्य सुलभं, न चेतसः । बन्धो ! तिष्ठतु दूरे मनसः साङ्गोपाङ्गं स्थैर्य, किन्तु यदि ज्ञायेस्त्रस्माभिरज्ञातचित्ते रममाणा अकथ्यभावाः, तदपि प्रशंसनीयम् । यतोऽज्ञातविचारावलिं ज्ञात्वा पश्चात् स्वान्तस्य स्थिरताऽशक्या तु नास्त्येव। अथ मनसि रममाणानामकथ्यभावानां जनकानीन्द्रियाणि सन्ति । ततो यदीन्द्रियाणि हस्तगतानि भवेयुस्तर्हि मनसः स्थैर्य अतीव सुलभं भवेत् । यदि भवेत् नगरस्य मुख्यद्वारं - NO ४२ @h Page #50 -------------------------------------------------------------------------- ________________ स्वाधीनं तर्हि सर्वमपि नगरं स्वसात् स्यात् । तथैवोपर्युक्तवर्णितानामगम्यविचारश्रेणीनां जनकानीन्द्रियाण्यात्मसात् भवेयुस्तर्हि चञ्चलमनस: स्थिरत्वं सिद्धयेदेव । ततश्चित्तस्य स्थैर्यार्थमाद्ये इन्द्रियाण्यात्मसात् करणीयानि सन्ति । किञ्च, हृषीकचित्तयोः साहचर्यमस्ति, अविनाभावित्वात् । वयं सर्वेऽप्यनुभवामः, यत् मनसि प्रतिक्षणमगणिता विचाराः प्रादुर्भवन्ति, किन्तु तान् सर्वानपि विचारान् सफलीकर्तुं न वयं समर्थाः । यतो न मनः स्वैरं विहर्तुं समर्थम्, किन्तु तत्र कस्यचिदपीन्द्रियस्याऽऽधार आवश्यकोऽस्ति । भवन्त्यत्र सर्वेऽपि विचाराः कस्याऽपीन्द्रियस्यैव विषयाः । तत इन्द्रियेण विषयीकृतो विचार एव दृष्टिगोचरो भवति, नान्यः । एवमिन्द्रियस्य साहाय्यं विना नास्ति शक्तिमत्किमपि कर्तुं मनः । यथा- यदा भवति घटं निरीक्षितुं स्पृहा, तस्मिन्नैव काले आन्तरचित्ते एकाऽतिसूक्ष्मप्रक्रिया भवति यन्मनो झटिति चक्षुषो निकटं गच्छति । तत्र गत्वा तदालम्बनेन घटप्रत्यक्षं करोति । एषा प्रक्रिया ज्ञातुं न शक्या । एतेन ज्ञायते, यत् प्रबलकामनायां सत्यामपि चक्षुरिन्द्रियं विनाऽशक्यमस्ति घटप्रत्यक्षम् । अतो यदेन्द्रियाण्युपशान्तानि निर्मलानि च भवन्ति तदा मनोऽप्युपशान्तं स्थिरं च भवति । एतत्कथनं दृढीकुर्वन् स्वामिरामस्य प्रसङ्गः स्मर्यते - एकदा स्वामिरामो हिमालययात्रां प्रवासयन्नासीत् । तदा मिलित एकः परमसिद्धयोगी। स्वामिरामेण स पृष्टः, प्रभो ! ज्ञानस्य परमावस्थां प्राप्तुं किं कर्तव्यम् ? तदोपनिषदो मन्त्रमुच्चरन् सिद्धयोगी आह-"यदेन्द्रियाणि संसारस्य विषयेभ्यो निर्वृत्त्य स्वायत्तानि भवेयुस्तदा तदुद्भूतसंस्काराः मानसं किमपि कर्तुं न शक्तिमन्तः । ततो मनः स्थिरमेकाग्रं च भवति" । एतेन कथनेन ज्ञायते , यदेन्द्रियाणि यदि स्थिरीभवेयुः तर्हि मनोऽवश्यमेव स्वस्थं भवेत् । ततो मनसः स्थैर्यार्थं प्रथममिन्द्रियाणि स्वाधीनानि करणीयानि सन्ति । अथ, इन्द्रियाणां स्वाधीनत्वे सति प्रवृत्तिविहीनं मनः व्याकुलं भवति, व्याकुलं मनश्च प्रतिक्षणमितस्ततो भ्राम्यति । तदा चञ्चले मनस्यनेके विकल्पा: विभिन्ना आकाङ्क्षाः 'कामनाश्चोद्भवन्ति । तदा तत्स्पृहायाः पूर्त्यर्थं मनो निरन्तरं प्रयतते । तथाऽप्युद्विग्नं मनः प्रतिनियतनिर्णयार्थमसमर्थं भवति । ततः स्वमनोरथानां निष्फलत्वात् मनसि संतापः 19 ४३ @ Page #51 -------------------------------------------------------------------------- ________________ उद्वेगश्चोत्पद्यते, एवमनेकानि शारीरिकाणि मानसिकानि च कष्टान्यापतन्ति । तथापि यदि तितिक्षावृत्तिः परिपालयेत् तहि तत्प्रभावेण चित्ते प्रादुर्भुता व्याकुलता शमत्वं प्राप्नोति । अन्यथा तितिक्षाभावेन मनसः प्रचण्डावेगात् स्वाधीनान्यपीन्द्रियाणि स्वतन्त्राणि भूत्वा स्वेच्छया सर्वत्र विहरति । तत एव स्वाधीनानामिन्द्रियाणां निरन्तरं स्थैर्यार्थं तितिक्षावृत्तिरभ्यसनीयाऽस्ति । या सहनशीलता सैव तितिक्षा, अथवेच्छनिरोध एव तितिक्षा । एवं बन्धो! कस्या अपि सिद्धेः प्राप्तिरशक्या, विना कष्टसहनम्। अस्त्येव प्रभु'वीर'स्याऽऽदर्शः । किं किं न कृतं कैवल्यलक्ष्म्याः प्राप्त्यर्थं तेन वीरप्रभुणा। यावत्केवलज्ञानं न सिद्धं तावत्कालपर्यन्तं विभुना मनुजैः देवैः तिर्यग्भिश्च कारिताः कदाचित्प्रतिकूलाः, कदाचिदनुकूलाः, कदाचित्तु मारणान्तिकाः सर्वेऽपि दुस्सहा उपसर्गा माध्यस्थ्यभावेन सोढाः । तस्मादेवाऽस्माभिः सर्वैरवश्यमेव तितिक्षावृत्तिः परिपालनीया। एवमिन्द्रियतितिक्षावृत्त्योः स्थिरत्वं संप्राप्य धैर्य पालनीयमस्ति । अस्मिन् जगति सुलभं कष्टसहनं, धीरता हि सुदुर्लभा । यथा नयनयुगलं कायस्य प्रमुखाङ्गं तथैवाऽस्ति जीवनोन्नते: आधारस्तम्भो धीरता । आजीवनं कृतं कष्टसहनमपि निष्फलं भवेत् यदि न धैर्यमभ्यासयेत् । धीरताया माहात्म्यं ज्ञानं सुलभं भवेत् केनाऽपि प्रसंगेनैव । ततः श्रीस्कन्धकसूरीश्वरस्य वृत्तान्तो दृग्गोचरो भवति। विनाऽपराधं जैनद्वेषी बद्धमत्सरो नमूचिः सूरिण: समक्षं क्रमश एकोनां शिष्यपञ्चशती यन्त्रेऽपिनड्। तदा सूरिणाऽवर्णनीयाऽतीव मानसिकपीडा सोढा । तत्पीडायाः कल्पनामात्रेणैवाऽस्मादृशां जीवानां कम्पनमुत्पद्यते । एतस्यां परिस्थितावपि धैर्य स्थैर्यं च सूरीश्वरेण नाऽमुञ्चि। बह्वीं यातनां दित्सुः नमूचिः सूरिणोऽनिच्छायां सत्यामपि तत्प्रत्यक्षमेव परमं प्रियं क्षुल्लकसाधुमानीय यन्त्रे प्राक्षिपत् । एतत् करुणदृश्यं निरीक्ष्य गुरोः धैर्यमस्खलत् । सूरिणः कायोऽकम्पत, मानसं विह्वलमभवत्, नेत्रयुग्मं कोधाग्निना रक्तवर्णीभूतम् एवं धैर्यवान्वितं चित्तमपि कूरकोपराक्षसपाशेन वेष्टितमभूत् । प्रान्ते धैर्यगिरेरपतत् सूरीश्वरः । इयत्कालपर्यन्तं धैर्यं धृत्वा तेन सूरिणा सर्वेषां शिष्याणां - 9 ४४ . Page #52 -------------------------------------------------------------------------- ________________ मुनीश्वराणां निर्यामणाऽकारि । ततस्सर्वेऽपि वाचंयमाः मोक्षभाजोऽभवन् । अपि तु प्रदत्तशिवसरणिः स सूरीश: स्वयमेव नाऽभवत् परमपदभागधैर्यत्वात् । अहो ! धैर्यस्य बलम्। एवं सूरिणा सोढाऽकल्प्ययातनाऽपि व्यर्थीभूताऽधीरतया । एवमिन्द्रियस्य स्वायत्तं तथा तितिक्षाधैर्ययोः परिशीलनं मनसः स्थैर्यार्थमत्यावश्यकमस्ति । मित्र ! साम्प्रतं तु मनः स्थिरीकर्तुं रेचक-कुम्भक-शून्यक-पूरक-अनुलोम-विलोमरूपप्राणायामादयः प्रयोगाः प्रचलिताः सन्ति । तथैव प्रत्याहार-ध्यानादयोऽपि प्रवर्तन्ते । ते सर्वेऽपि मनः स्थैर्यार्थं शोभना उपायाः सन्ति । अधुनाऽऽवश्यकक्रियावसरो भवति, ततो विरमामि । प्रश्नं पृष्टवा त्वया मय्युपकारः कृतः, यतः स्वाध्याये चिन्तने च कालो व्यतीतः। 19 ४५ eh Page #53 -------------------------------------------------------------------------- ________________ कथा विवादो व्याघ्र-सिंहयोः । - विजयशीलचन्द्रसूरिः आसीदेकं वनम् । अतिगहनम् । अतिघोरम् । बिभीषिकाशतसङ्कलम् । परितो हिंस्रैः पशुभिर्व्याप्तम् । तत्र द्वौ वसतः स्म । एको मृगेन्द्रः अपरः शार्दूलश्च । । द्वावपि स्वं वनराजम्मन्यौ भृशं पराक्रमिणौ च । द्वावपि च तौ स्वीयसाम्राज्यहानिभयेनेव परस्परं मित्रायते । नैकोऽपि परस्य मर्यादामुल्लङ्घते स्म। कार्यक्षेत्रमपि ताभ्यां स्वाभाविकविवेकशीलतयैव पृथक् पृथक् स्वीकृतमासीत् । अतो न कोऽपि तयोर्मध्येऽन्यस्य क्षेत्रे प्रवेशं हस्तक्षेपं वा करोति स्म । ____ एकदा शीतकालः प्रवृत्तः । सर्वेऽपि जन्तवः शीतकातराः स्वस्वकोटरे निलीय स्थिताः । न कोऽपि प्राणी वने विचरन् दृश्यते स्म। इमावपि शीतकम्पितौ तु अभूतामेव, किन्तु भक्ष्यालाभेन क्षुधादुर्बलावपि अभूताम् । तयोर्मनसि लग्नं यत्-क्षुधितस्य शीतमतिशयेन बाधत एव, अतो भक्ष्यगवेषणाऽवश्यं त्वरितं च कर्तव्यैव। . समदुःखितौ तौ दैवयोगात् समकमेव स्वस्वावासान्निर्गतवन्तौ, भोजनान्वेषणे च इतस्ततः परिभ्रमन्तौ अकस्मादेवैकत्र स्थले मीलितवन्तौ । पृष्टपरस्परकुशलोदन्तयोस्तयोर्दन्ता दंष्ट्राश्च शैत्यप्राचुर्येण कट-कट् इति शब्दं बाढं कर्तुं लग्नाः । ईदृशीं दशां उभयस्यावलोक्य मृगेन्द्रेण सहसा शार्दूलः पृष्टः - भोः ! पौषमासे शीतं 19 ४६ er Page #54 -------------------------------------------------------------------------- ________________ सदैवाऽधिकं स्यादिति मे मतिः । तव किं प्रतिभाति ? । किञ्चिद् विमृश्य शार्दूल उक्तवान्- नैवं नैवं, पौषे न, माघमासे एव प्रतिवर्षं शैत्याधिक्यं भवति । प्रभूतैर्वषैरहमेवमेव पश्यामि, अनुभवामि च । श्रुत्वेदं स्वमान्यताभञ्जकं तद्वचनं मृगारिरुच्छलित:-रे ! किमहं मृषा कथयामि तर्हि ? शार्दूलेनाऽपि तथैव प्रत्युक्तम्- तहि किमहं वितथं वदामि भोः !!? कति क्षणा द्वयोरपि 'घुर् घुर्' इति कुर्वाणयोरेवमेव व्यतीताः । द्वावपि स्वीये मन्तव्ये तथा दृढा बभूवतुर्यथा द्वयोरपि शीतं निर्नष्टं, देहे धर्म उद्भूतः । क्षुधा तु दूरविस्मृतैव । पश्चात् कलहायमानयोस्तयोः कियानपि समयस्तद्विवादे एव क्षीणः । किन्तु तौ विवेकशीलौ स्वार्थसुहदौ चाऽऽस्ताम् । ताभ्यां चिन्तितं यद्येवमेव आवां झकटराटिमग्नौ वर्तेव तर्हि न कोऽपि निर्णयः प्राप्स्यते, क्षयश्चोभयोरपि अकाल एव भविष्यति । अतोऽत्र कलहकरणं विमुच्य कमपि मध्यस्थं जनं पृच्छावः । तस्य निर्णय एवाऽऽवाभ्यामङ्गीकार्यः श्रेयस्कारी च । निश्चित्यैवं द्वावपि प्रस्थितौ वनमध्ये कमपि मध्यस्थजनमन्वेष्टम् । गच्छद्भयां ताभ्यां सहसा स्मृतं यदस्मिन् वने अस्मादृशां राज्ञामपि मान्यः आदरणीयश्चैको वृद्धो मार्जारो वर्तते । स तु दीर्घायुः, अनुभववृद्धो ज्ञानी च । चलतु तमेव पृच्छावः ।। त्वरितं तौ गतौ तस्य जरन्मार्जारस्य बिलसमीपे । गत्वा च पूत्कृतं- भो भो वृद्धमार्जारश्रेष्ठ ! बहिरागच्छ बहिरागच्छ। ___ मार्जारस्तु तं नादं श्रुत्वैव थरथरायते स्म । तथाऽपि स्पष्टावबोधार्थं तेन सौम्यस्वरेणाऽऽभाषितमन्तःस्थेनैव - कस्कोऽत्र भो ! मां पूत्कुरुते? अहं जरन्मार्जारः क्षीणदेहः भगवन्नामस्मरणपरायणः प्रायो बिलाद् बहिर्न निर्गच्छामीति प्रायः सर्वत्र वने विश्रुतम् । किं भवान् न जानात्येनां वार्ता येन मामाह्वयति ? मृगेन्द्रेण जल्पितं- तात ! अस्माभिः सुज्ञातमेवेदम् । किन्तु अद्यैको विवादो मम व्याघ्रस्य च मध्ये समुत्पन्नोऽस्ति । न तन्निराकरणं आवाभ्यां केनाऽप्यन्येन वा कर्तुं शक्यते । अत आवाभ्यां विचारितं भवानेवाऽस्माकं विवादं निराकर्ता स्यात् तदा शोभनं स्यात् । अतोऽद्य तत्रभवते भवते कष्टं दातुमावामागतौ । कृपयाऽस्मत्कृते बहिरागम्यताम्। ७ ४७ ॥ Page #55 -------------------------------------------------------------------------- ________________ - मार्जारेण चिन्तितं - अहो ! एतौ द्वौ राजानौ साक्षादत्र समागतौ ! अनयोर्मध्यादेकोऽपि यदि मादृशं पश्येत्, तर्हि मम मृत्युरेव निश्चप्रचम् । तर्हि यदा द्वावपि समायातौ तदा तु किं विचार्यम्? किन्तु यदि ताभ्यामाहूतोऽपि न गच्छामि तदा तु असंशयं प्राणसंशयो भावी। शिव ! शिव ! शिव ! किमधुना कार्यम्? इतो व्याघ्र इतो हरिः । इतोऽपि मृत्युरितोऽपि मृत्युः । भगवन् ! पाहि माम् । पाहि माम्। एवमेव चिन्तामग्नस्य तस्य पुनरपि कतिपये क्षणा: अतिक्रान्ताः । ततश्च बहिः प्रतीक्षमाणयोर्वनराजयोधैर्य गलितम् । शार्दूलेन पुनर्गर्जारवं कृत्वा पृष्टं- भो गलद्गात्र ! बहिरागच्छसि न वा? आवां कियती वेलां प्रतीक्षावहे? शीघ्रमागच्छ। माजीरेण यद्भवति तद्भवतु, गच्छामि बहिः, यथा पतिष्यति तथा दास्यते' इति विचार्य 'अयमागतोऽस्मि वत्स! जराजर्जरितकायस्य मादृशस्य जनस्य ईदृशो वेलाविलम्बः क्षन्तव्य एव त्वादृशा पराक्रमशालिना' इति वदन् स बिलाद् बहिरागतः । द्वावपि सिंह-शार्दूलौ तं प्राणमताम् । तेनाऽपि तौ दीर्घायुष्याशिषा संभावितो, अकस्मादागमनकारणं च पृष्टौ । ताभ्यां स्वकीयविवादकारणवार्ता तदग्रे निवेदिता, पृष्टं चतात ! भवान् वृद्धः अनुभवसमृद्धः। बहवः शीतकाला भवता समतिक्रान्ताः । अतोऽत्र विषये भवानेव आवयोः प्रमाणम् । कथयतु, किं पौषमासे शैत्यं बहु स्यादुत माघमासे? मारिण द्विस्त्रिश्च तयोर्विवादः श्रुतः । नैके प्रश्ना अपि उत्थाप्य सूक्ष्मात् सूक्ष्मतरं विवादविषयं पदार्थं परीक्षितवांश्च स: । ततस्तेन तावुपवेशितौ बिलाद दूरम् । स्वयं च निजदेहस्य पश्चार्धं बिलमध्ये रक्षित्वा मुख-कण्ठभागमेव बहिः कृत्वा स्थितोऽकथयत्काचिद् वेलाऽस्य विवादस्य निराकरणान्वेषणार्थमभिलषामि । युवां विना किञ्चिद् घुघुरारावं तिष्ठतामत्र । मा विक्षेपं कुरुतं चिन्तननिरतस्य ममेति जल्पित्वा गम्भीरमुखमुद्रया चिन्तनमुद्रायामुपविष्टः सः। चिन्तितवांश्च स मनसि तदा- इमौ द्वावपि वने नृपौ । नृपाणां मनांसि सदैव तरलान्येव भवन्तीति बहुशोऽनुभूतपूर्व्यहम् । एतयोरेतावन्मात्रे विवादे निराकरणं न कठिनम् । किन्तु स्पष्टनिराकरणकथने द्वयोर्मध्यादेकस्य मन्तव्यं वितथत्वेन दर्शनीयमेव । तथा च यस्य मन्तव्यं असाधु कथयिष्यामि मां तत्क्षणं व्यापादयिष्यतीति नाऽत्र शङ्का मे चित्ते । ततः कं मिथ्या 19 ४८ or Page #56 -------------------------------------------------------------------------- ________________ वदामि, कं वा सत्यं कथयामि ? अहो ! सुमहद्धर्मसङ्कटं आपतितम् । किं करोमि? शिव ! शिव ! शिव ! किन्तु क्षणानन्तरमेव तस्य हृदये स्फुरितं - अरे रे ! वृथैवाऽहं विचारप्रस्तारं करोमि, इदं तु अतीव सरलं किमनेन प्रलम्बविचारेण ? अहमेतादृशमेव निराकरणं वदामि यथा न व्याघ्रो रुष्यति न वा सिंहः । सर्पो म्रियेताऽपि न यष्टिर्भञ्ज्यादपि न । ----- वदनोपरि पूर्णां गम्भीरतां विलिप्य स स्वस्थान एव सहसोत्थितः । प्रतीक्षारतौ तौ अपि सज्जीभूतं दृष्ट्वा हृष्टौ साकाङ्क्षौ च बभूवतुः । जरन्माजरिण तारस्वरेण विवादस्य निराकरणं निर्णयश्च श्रावितौ तौ - भो महाराजपादौ ! भवतोर्विवादोऽतीवगम्भीरः, सूक्ष्मविषयश्च । नैतादृशस्य विवादस्य निर्णयं कर्तुं अन्यस्य वराकस्य पृथग्जनस्य शक्ति: । मादृशोऽनुभवसम्पन्नो जन एवाऽधिकारी स्यादीदृशे विषये । अतो भवन्ताविहाऽऽगतौ तद् बाढं साधु कृतमिति मन्ये । मद्गेहाङ्गणमपि भवादृशानां चरणधूल्याऽद्य पावनं संजातम् । अथ भवतोर्विवादस्य निराकरणं वदामि । सावधानीभूय शृणुतम् । - महाराजौ ! शीतं सदा पवनाधीनं वर्तत इति मामकीनाऽनुभूतिः । ततश्च मन्येऽहं यद् यदा यत्र मासे पवनाधिक्यं तदा तत्र मासे शीतमपि प्रभूतं स्यात् । यदि स्पष्टं वदेयं तदा यस्मिन् शीतकाले पौषमासे पवनस्य प्रचुरता स्यात्, तदा पौषमासे शैत्यप्राचुर्यं निश्चितमेव स्यात् । यत्र च शीतकाले माघमासे पवनबाहुल्यं भवेत्, तदा माघमास एव शैत्यस्याऽपि बाहुल्यं भवेदेव । शैत्यं कस्मिन् मासे कियदिति भवतोर्जिज्ञासाया विवादस्य च एतदेव समीचीनं समाधानं निराकरणं च मम प्रतिभाति । भोः ! अन्यदपि किञ्चित् प्रष्टव्यमस्ति ? तर्हि त्वरितं वदतम् । अन्यथाऽहं वार्धक्यप्रभावाच्छीतभीतो गेहान्तर्गच्छामि, नामजपलीनश्च भवामि । शिव ! शिव ! शिव ! ततश्च एवं वदन् तयोः प्रतिवचनमनपेक्ष्यैव स मार्जारो बिलं प्रविष्टः । सिंह - द्वीपिनौ च तौ द्वावपि स्वं स्वं विजितम्मन्यौ यथागमं जग्मतुः स्वस्थानम् । ――――― ४९ ele Page #57 -------------------------------------------------------------------------- ________________ झेनकथा । - विजयशीलचन्द्रसूरिः एकस्य झेनसाधोः पार्श्वे गत एको जनः । स प्रणम्य मौनं उपविष्टः । झेनसाधुस्तु ध्यानलीन आसीत् । कतिचित् क्षणानन्तरं झेनसाधुना ध्यानं विसृज्य प्रसन्नदृष्ट्याऽवलोकितं आगमनप्रयोजनं च पृष्टम् । आगन्तुकेन कथितं - अहं कथाकारत्वेन विश्रुतोऽस्मि । श्रुतं मया तत्रभवतां धन्यं नामाभिधानम् । ततश्च मम हृदये सङ्कल्प उत्थितो यद् यदि मम वाणी भवादृशानां परमतत्त्वसाधकानां कर्णातिथिर्भवेत् तर्हि सा निःशङ्कं पवित्रिता भवेत् । अतो यदि भवतां सम्मतिः समयश्च स्यात्, तदा किञ्चिच्छ्रावयितुकामोऽयं पामरजनः । झेन साधुना मन्दं मन्दं हसित्वा गदितम्भद्र ! नाऽस्ति अधुना मम ईदृशः समयः । किन्तु, ओम्, एकं निजप्रसङ्गं स्मराम्यहम् । यदाऽहं पञ्चवर्षीयो बाल आसम, तदा मम जननीपार्ध्वात् प्रतिदिनमहं कथायाः श्रवणं अकरवम् । साऽपि नित्यं नूतना कथां मे श्रावयति स्म । तां शृण्वन् शृण्वन् एवाऽहं निद्राधीनो भवन्नासम् । कथाऽपूर्णेवाऽवर्तत, निद्राराज्ञी तु कथार्धे एव मामधिकृत्य प्रावर्तततराम् ।। अद्य तव निवेदनं श्रुत्वा तत्सर्वं स्मृतिपथमागतं मम । अहमिह क्षणे विचारयामि - किं तादृशीं वार्ता कोऽपि मामधुना श्रावयितुं समर्थः स्यात् ? यदि त्वं तादृशीं कथां कथयितुं शक्तिमान् स्याः तदाऽवश्यं श्रावय । अस्ति मम पार्श्वे तत्कृते समय: नाऽन्यथा । 19 ५० @h Page #58 -------------------------------------------------------------------------- ________________ (३) हे भगवन् ! - मुनिरत्नकीर्तिविजयः __ आसीदेकः काष्ठहारकः । दारिद्यस्य मन्दिरम् । ग्रामस्य सीमनि साधुजनानां सहवास एव तस्याऽतीवाऽरुचिकरम् । तस्य गृहिणी तं सदाऽवमानयति स्म। ___एकदा रात्रौ मत्तवत् स गृहं प्रति गच्छन्नासीत् । सहसा भयावहं ताण्डवमुद्भूतम् । मार्गाद् भ्रष्टः सः । निश्चेष्ट इव भूत्वा भूमावपतत् । गाढनिद्रां स लेभे। यदा जागृतस्तदा स्वसमीपमेवैकं साधं दृष्टवान् । ___ 'अरे ! एष साधुस्तु बहुकालपूर्वं मृतः' इति तेन स्मृतम् । साधुरवदत् 'त्वं ताण्डवात् मृतोऽसि । अधुना त्वया तव सर्जकस्येश्वरस्य पार्श्वमागन्तव्यम् ।' ____ काष्ठहारकोऽपि तं साधुमन्वसरत् । उभावपि तावरण्यस्यैकं लघुगृहं प्राप्तवन्तौ । ईश्वरोऽत्र निवसति स्म । साधुरिमुदघाटयत् । अन्तस्तीब्रोऽग्निः प्रज्वालित आसीत् । ईश्वरस्य दूताः परित उपविश्याऽङ्गानि तापयन्ति स्म । काष्ठहारकं दृष्टा पुनः तापयितुं प्रवृत्ताः ।। साधुरेकं दूतमकथयत्-अन्तर्गत्वा ईश्वरं सन्दिशतु यत् न्यायार्थमेकः काष्ठहारक आगतोऽस्ति। काष्ठहारकोऽग्निं प्रत्यपासरत् । देवदूतास्तमरुन्धन् तापियतुं च नान्वमन्यन्त । तावत् कक्षद्वारमपावृतम्, बहिरागत्य देवदूत उवाच- 'भगवान् आगच्छति' । कक्षमध्ये एका तुला स्थापिता । धटा अपि तत्राऽऽनीताः । ___ काष्ठहारकः साधुश्च शीतमपनेतुमितस्ततो भ्रमितुं लग्नौ । तावत् कक्षद्वारं पुनरुद्घटितम् , ईश्वरश्चाऽऽगतः । ईश्वरः श्रान्तो वयोवृद्धश्च प्रतिभासते स्म । अधिकेन कार्यभारेण स एवं दृश्यते स्म । कार्ये विक्षेपात् विक्षुब्धोऽपि स आसीत् । "किं नाम ?'- सोऽपृच्छत् । Page #59 -------------------------------------------------------------------------- ________________ - काष्ठहारकः स्वनाम उदचरत् । पुस्तकात्तस्य नाम्नः पत्रं दृष्ट्वा तत्रेश्वरेण चिहं कृतम् । 'आम् ! कानि तव सत्कर्माणि ?' एकमेव सत्कर्म तस्य स्मृतिपथमागतम् । अतः तुलायामेको धटः स्थापितः । 'अथ तव दुष्कृत्यानि कथय ।' तस्य कथनमनुसृत्य एकैकं कृत्वा धटान् तुलाया विपक्षभागे मुच्यमानान् दृष्ट्वा काष्ठहारकः स्तब्धो जातः । क्षणेनैव तुलाया एक भागोऽनमत् । अधिकमधो नेतुं भूमिरुत्खाता। एवं काष्ठहारकस्य पापानां गणना पूर्णाऽभवत् । प्रभुणा त्वरितं पुस्तकं पिहितम् । "अज्ञानिन् ! स्वाथिन् ! प्रमादिन ! अधमात्मन् !" भगवता चीत्कृतम् । “मया तुम्यं जीवनमर्पितं, त्वया चैतावदेव कृतम् ? तवैतानि दुष्कृत्यान्याश्रित्य कठोरोऽपि दण्डोऽल्पीयानेव मम भाति । ज्ञातम् ?" हिमवत् स्तिमितः क्लान्तश्च काष्ठहारकः शीर्षमधूनयत् । “एका दुर्गता नारी त्वया वञ्चिता, तत्तु तवाऽत्यन्तमधमकृत्यमस्ति । तुलायां न्यूनं तोलितं त्वया ।" प्रभोर्वचनेषु तिरस्काराधिक्यं दृश्यते स्म । समीपस्थं देवदूतमादिशत् - 'काष्ठस्य स महान् भारोऽत्राऽऽनय' । त्रिभिर्देवदूतै र्दुःखेन उत्पाट्य स आनीतः । भगवच्चरणसमीपं च मुक्तः। भगवता काष्ठहारक आदिष्टः "दृष्ट एष भारः? सदाकालं तव पृष्ठभागेन एनमुत्पाट्यैव त्वया जीवितव्यम् । एषा ममाऽऽज्ञाऽस्ति ।" काष्ठहारकस्तु तं महान्तं भारं मूकवत् पश्यन् स्थितः । भगवता च निःश्वास्य मुखमन्यत्र कृतम् । 'भारस्तस्य पृष्ठे स्थापयत । इतः परं च न केनाऽपि मम विक्षेप करणीयः' इत्याज्ञप्तं भगवता। देवदूताः काष्ठहारकस्य समीपमागताः । 'नहि नहि' - सं उक्तवान् । देवदूताः स्थगिताः । भगवानपि तिर्यग्दृष्ट्या काष्ठहारकं दृष्टवान् । अवक् च - ....... 9 ५२ er Page #60 -------------------------------------------------------------------------- ________________ - "किमुदितम् ?' सोऽकथयत् - 'नाऽहं ग्रहीष्याम्येष भारः । नैतादृशो दण्डो भवता कर्तव्यः । एष नोचितः ।' ईश्वरः, साधुर्देवदूताश्च सर्वे एनं वामनं दरिद्रं मनुष्यं तस्य च कठोरं भावशून्यं च मुखमनिमेषनयनैर्निरीक्षितुं लग्नाः । अद्यपर्यन्तं न केनाऽपि दण्डकाले स्वीकृतिर्दर्शिता । __ ईश्वर: समगीरत - ' आदेशमनुसृत्य त्वया कर्तव्यमेव' । 'नहि' - क्रोधावेशेन दग्ध इव स अन्यायं दृष्ट्वा कम्पित इवाऽभूत् । 'शृणोतु मे कथनम्, भगवन् ! न मम कथनेन भवता जन्मैतत् प्रदत्तम् । अपरं च, अस्मिन् जीवितव्ये भवता किं प्रशस्यं मह्यमर्पितम् ? यस्या मुखमपि मया न निरीक्षितं तादृशी जननीमहं प्राप्तवान् । येन सदाऽहमुपेक्षितस्तादृशः पिता मया लब्धः । शीतकालेनोष्णकालेन च कदर्थितोऽस्मि । हस्तावपि मे कर्कशौ जातौ । अङ्गलीभ्योऽपि शोणितं प्रवहति । सदाऽवमानयन्त्या पत्न्या सह लघीयसि गृहे मे वसतिरस्ति स्म । किं कदाऽपि ज्ञातो भवता ममोदन्त: ? क्वचिदागतोऽपि किं भवान् मत्सहायार्थम् ? मह्यं जन्म दत्त्वा भवान् मुक्त इवाऽभवत् । अधिकधनलाभार्थं मया विप्रतारणं कृतम् । बहुशो जाता मृत्योरिच्छा मम । मृतोऽप्यहं किं प्राप्तवान् ? भवता प्रदत्त एष कठोरः दण्डः । समग्रं जीवनमेव मे दण्डस्वरूपमासीत् । अधुना नाऽहमेनं दण्डं स्वीकरिष्ये' । कक्षमध्ये काष्ठहारकस्य शब्दा प्रतिध्वनिताः । पश्चात् स्वल्पेनैव कालेन उपशान्तकोपः स सञ्जातः । भयभीत इवाबभूव । तेन दृष्टं यद् -ईश्वरो रोदिति । आश्चर्यमनुभवान् सः । ईश्वरस्य शरीरं रोदनात् कम्पते स्म । पश्चाच्च साधुर्दूताश्चाऽपि रोदितुं लग्नाः ? भगवता च काष्ठहारकस्य स्कन्धोपरि हस्तं प्रसार्य कथितम् 'अत्यन्तं दुःखितोऽस्मि । बहुषु कार्येषु व्यस्तत्वात् मया नैतद् ज्ञातम् । वत्स ! त्वं सत्यम् वदसि मया कर्थितस्त्वम् । क्षमस्व मां वत्स ! क्षमस्व । मह्यं क्षमां दास्यसि किम्? काष्ठहारकः - 'यद्येतस्माद् दण्डात् मम मुक्तिः स्यात् !' 'तथाऽस्तु वत्स!' Page #61 -------------------------------------------------------------------------- ________________ तहि क्षमयामि। 'अभिवादनम् । अधुना किं दीर्घनिद्रां वाञ्छसि पृथिव्यां वा पुनर्गन्तुमिच्छसि?' 'किम्? पुनः पृथिव्याम् ?' 'आम् वत्स ! तत्शक्यम् । पृथिव्यां यदा जागरिष्यसि तदा शीतेन पीडितो भविष्यसि किन्तु जीविष्यसि । कथय किं रोचसे, दीर्घनिद्रां जीवनं वा? काष्ठहारकः मनसि आलोचितवान् - 'अतः परं भगवान् एव सर्वं करिष्यति ।' 'यदि भवान् प्रसन्नस्तहिं गृहगमनमेव काळे' - स उवाच । 'शोभनम् ! तदप्यनुभव' - ईश्वरोऽवदत् । 'एनं पुनर्नयतु' भगवता साधुरुक्तः । पश्चात् कक्षान्तरं प्रविश्य द्वारं पिहितवान् । काष्ठहारकः सोऽरण्ये जागृतोऽभवत् । ताण्डवं तु तदा शान्तं जातम् । सूर्यस्तु मन्दं प्रकाशते स्माऽऽकाशे । तत उत्थाय गृहं प्रति धावितवान् । स्वयं जीवति इति आनन्दित आसीत् सः । गृहस्य जीर्णद्वारं लीलयैवोद्घाटितम् । यदनुभूतं तत् कथयितुं यावद् वचनमुच्चारितं तावत् पत्नी तं ताडितवती। ‘कियान् विलम्बः कृतः त्वया?' - सा उक्तवती । काष्ठहारको भूमावपतत् । व्योम प्रति करुणदृष्टिं कृत्वा पाश्र्वं परावृत्त्य च मन्दमवदत् - 'हे भगवन् !!!' [क्रिस्टोफर-लीच-इत्यनेन आङ्ग्लभाषायां लिखिताया मूलशङ्कर-भट्ट-इत्यनेन च गूर्जरभाषा- यामनूदिताया 'हे भगवान!' इति कथाया अनुवाद एषः ।] । सर्वं शोभते समयोचितम्।। " हैमवचनामृतम् " 19 ५४ en Page #62 -------------------------------------------------------------------------- ________________ सरला उपायाः खलु दुःखप्राप्तः। - स्वामी अध्यात्मानन्दः सर्वदा निजवृत्तान्तस्यैव वर्णनम् । सदा स्वस्यैव चिन्तनम्। स्वस्योपेक्षायां अन्तर्व्वलनम् । सर्वतो निजश्लाघायाः स्पृहा । आत्मानं मुक्त्वा सर्वत्राऽविश्वासः । यथाप्रयत्नं निजकर्तव्यात् च्युतिः । यथाशक्यं सर्वत्र 'अहं' शब्दस्य प्रयोगः । परार्थे यथाशक्ति अल्पीयान् प्रयत्नः । तुच्छेऽपि परोपकारे निजस्तुतेरभिलाषः । प्रतिप्रवृत्ति 'ममैव सत्यं' इति कदाग्रहः । (अनुवादः) आधुनिकः पूजकः !!! Tabir 19 ५५ Page #63 -------------------------------------------------------------------------- ________________ - | "भावना भवनाशिनी” - मुनिरत्नकीर्तिविजयः साधुजनानामागमनेन तेषां चोपदेशदानेन सततं लाभान्वित एको ग्राम आसीत् । तत्रत्या जना अपि भावुका मुग्धा धर्मरुचयश्चाऽऽसन् । साधूनां पदार्पणेन ते सर्वे प्रसन्नतां प्राप्नुवन्ति स्म । सर्वरीत्या च तान् पर्युपास्य तल्लाभेन तोषमनुभवन्ति स्म । सर्वेषां साधूनां सकाशात् धर्मवचनान्यपि तेऽश्रृण्वन् । एकदा तस्मिन् ग्रामे शिष्यगणपरिवृत एक साधुरागतः । ग्रामजनाश्च तेषां स्वागतं कृतवन्तः । वन्दनादिकं कृत्वा तत्र स्थैर्यार्थं प्रार्थनाऽपि लोकैः कृता । लोकानां भक्तिमनुलक्ष्य विज्ञप्तिः स्वीकृताऽपि साधुभिः । अन्यस्मिन् दिने प्रवचनमपि निश्चितम् । अथ द्वितीयदिने प्रवचनसमये सर्वेऽपि जना उपस्थिता अभवन् । साधुमहात्मनाऽपि मंगलाचरणपूर्वकं प्रवचनं प्रारब्धम् । तस्मिंश्च प्रवचने "भावना भवनाशिनी । भावनाया अनेके लाभाः सन्ति । भावनया हृदयस्य शुद्धिर्भवति । शत्रुरपि मित्रायते शुभभावेन । अतो नित्यं शुभभावना भावनीयैव" इत्याद्युक्त्वा भावनया केन कीदृग्रूपेण को लाभविशेषः प्राप्तस्तदृष्टान्तोऽपि सूचितः। यथाकालं प्रवचनं समाप्तिमगात् । जना अत्यन्तं मुदिता जाताः । जना भावुका आसन् किन्तु किञ्चिज्जाड्यमपि तेषु प्रवर्त्तते स्म । अत उपदेशस्य भावार्थमगृहीत्वा शब्दा एव तैर्गृहीताः, यत् "शुभभावना नित्यं भावनीयैव" इति । सपरिवार: स साधुश्च प्राप्तकालस्ततो विहृतवानपि । अत्र ग्रामजनैः - 'अहरह एकत्र सम्मील्याऽस्माभिर्भावना भावनीया' इति निश्चयः कृतः । तदर्थं च स्थलं कालश्चाऽपि निश्चितौ।। अथ सर्वेऽपि रात्रिसमये नित्यमेकत्र सम्मीलन्ति । भिन्न भिन्नां च भावनां भावयन्ति । केचित् प्रभुभक्त्यर्थं किं कर्तव्यमिति भावयन्ति-यद् ‘भगवत्प्रतिमां वयमाभूषणैरलङ्करिष्यामः । 19 ५६ en Page #64 -------------------------------------------------------------------------- ________________ तत्समक्षं च गीत-नृत्य-नाट्यादि रचयिष्यामः' इत्यादि । केचिद् दानधर्मेण दुर्गतानामनाथानां दीनानां च जनानां सहायार्थं भावयन्ति । केचिद् ग्रामस्योन्नत्यर्थमहमेवं करिष्यामि, एतादृशं करिष्यामी' ति प्रस्तौति । कश्चिदहं नित्यं दीनेभ्यो भोजनं दास्यामि इति भावयन्ति । एवमेव च दिवसा गमयन्ति । ___ एकदा रात्रौ सर्वैः सम्मील्य तीर्थयात्रार्थं भावना भाविता। "तीर्थयात्रा त्वश्यमेव कर्तव्या। तीर्थयात्रया दुरितानि क्षयन्ति, परमात्मनामनुग्रहश्चाऽपि प्राप्यते" इत्यादि वार्तालापं कुर्वद्भिस्तैः "अतीवोत्कण्ठा वर्ततेऽस्माकं तीर्थयात्रायामतस्तदर्थं निश्चिनुमः" इति कृत्वा तद्दिवसोऽपि निश्चितः । परस्परमामन्त्रिता अपि ते सर्वे ।। तस्मिंश्च दिने तेषां तद्भावनासभायामेक आगन्तुकोऽप्युपस्थित आसीत् । स च तेषामेनया प्रणालिकयाऽनभिज्ञ आसीत् यद्-अत्र केवलं भावनैव भाव्यते न किञ्चिदपि किन्तु क्रियते इति । तेनाऽपि तद्दिने तेषां तीर्थयात्राया वार्ता श्रुता । सोऽपि तत्रोपास्थितत्वात् यात्रार्थमामन्त्रितस्तैः। अतस्तदामन्त्रणं सत्यं मत्वा हृष्टचित्तः सोऽभूत् । समस्तो महाजनस्तु नित्यमिव भावना निवृत्य स्वगृहं प्रस्थितः । आगन्तुकोऽपि स्वग्रामं गतवान् । तेन स्वग्रामं गत्वा सर्वेभ्यस्तयात्रावार्ता श्राविता । तत्संश्रुत्य 'बहुभिर्वर्षेर्यात्रावसरः प्राप्तः' इति सर्वेऽप्यानन्दभरहृदया बभूवुः । सोऽपि निश्चितं यात्रादिवसं ज्ञाप्य, 'कथं तत्र गन्तव्यम् ? के के आगमिष्यन्ति' इत्यादि निश्चितवान् । अथ-'कदा तदवसर आगमिष्यति' इति चिन्तनेनैव दिनानि व्यतियन्ति । एवमेव प्रतिज्ञातदिवस आगतः । पूर्वस्मिन् दिने सर्वयात्रिकैः सार्द्धमेकेन बृहद्यानेन स तद्ग्राम सम्प्राप्तः । तत्र च नित्यव्यवहारे एव प्रवर्तमानान् जनान् स दृष्टवान् किन्तु न काऽपि यात्रायाः सज्जा दृग्गोचराऽभूत् । तेन चकितोऽभूत् सः । स महाजनस्य पावें गतः । तं चाऽपृच्छत् "तद्दिने यात्राया वार्ता प्रवृत्ताऽऽसीत् । सर्वे निमन्त्रिता अपि तत्रोपस्थिताः । 'निजस्वजना ग्रामजनाश्चाऽप्यानेतव्या अवश्यमेव' इत्यादि भवद्भिरुक्तम् । अहमपि तद्दिने तत्रोपस्थित आसम् । अतः कथनानुसारेण अहमागतः । कदा च यात्रार्थं प्रस्थानं भविष्यति ?" ७ ५७ " Page #65 -------------------------------------------------------------------------- ________________ महाजनश्च तमवदत् 'भोः । अस्माभिः केवलं भावनैव भाविता यात्रार्थम् । तदर्थं कृतो निश्चयः प्रदत्तमामन्त्रणं चाऽपि भावनास्वरूपे एवाऽऽस्ताम् । वयं तु नित्यमेवं भावनां भावयामः । अतो नास्ति यात्राप्रवासे काऽपि प्रवृतिः । अतो भवानपि यथेच्छं निवर्तताम् । एतेन प्रत्युत्तरेण स खिन्नोऽभवत् । तेन - 'एतैरहं वञ्चित:' इति चिन्तितम् । किञ्चिद् विचार्य स्वास्थ्यं च सम्प्राप्य स महाजनमुक्तवान् " भवतु यद् भूतम् । अहमप्येतान् सर्वान् नीत्वाऽत्राऽऽगतोऽस्मि । सर्वेऽपि बुभुक्षिता जाता: । काऽपि भोजनव्यवस्था करणीया । यूयं च मम साधर्मिकाः, अतोऽहमिच्छामि यद् भवन्तः सर्वेऽप्यस्माभिः सार्धं भोजनं कृत्वा मां लाभान्वितं कुर्वन्ताम्। साधार्मिकभक्तेर्लाभेन मामुपकुर्वन्तु । सर्वाऽपि व्यवस्था त्वरितगत्या कर्तव्याऽधुना, येन पुनर्गमनं सुलभं भवेत् ।" महाजनेन गदितम् - अस्मिंश्च कार्ये द्रव्यव्ययोऽधिको भविष्यति । स समगीत - नास्ति किमपि चिन्ताकारणम् । कदाऽहं भवादृशां लाभं प्राप्स्यामि ? | श्रुत्वैतद् वचनं तस्य सर्वोऽपि महाजनो भोजनव्यवस्थायां प्रवृत्तोऽभवत् । भिन्नभिन्नमिष्टान्न-पान-धान्यादिका सर्वाऽपि सामग्री सज्जीकृता । सूदा अपि आनीताः । समागताश्चाऽभ्यागता भोजनार्थमुपविष्टाः । भोजनादिना निवृत्य प्रतिगन्तुं स प्रवृत्तोऽभूत् । यावत् पुनःप्रस्थानार्थं स प्रवृत्तस्तावद् महाजनेनोक्तम्- अरे ! क्व गमिष्यन्ति सर्वे ? एतद्धनं को दास्यति ?' सोऽवोचत् किं नाम द्रव्यम् ? जना: किं नाम किम् ? एतस्य भोजनस्य । सज्जनः नाऽयं मम विषयः । मया तु केवलं भावनैव भाविता युष्मद्वत्... 1 - { कृते प्रतिकृतं सद्यो कुर्वन्ति हि मनस्विनः । हैमवचनामृतम् " 66 NO ५८ } 1 Page #66 -------------------------------------------------------------------------- ________________ - - सत्यघटना __- मुनिधर्मकीर्तिविजयः पुरा किल वसति स्म 'सूर्यपूरे' श्रेष्ठी सुश्रावकश्च 'श्रीमोहनलाल पानाचन्दे' त्यभिधानकः । स च श्रीमच्छखेश्वरपार्श्वनाथप्रभोः परमोऽनुरागी सेवक आसीत् । 'श्रीमच्छङ्खेश्वरपार्श्वनाथप्रभुरेव मम शरणं, रक्षकः पालकश्च, स एव जीवनाधारो मे' इति मेरुगिरिरिव तस्य मनसि परमाऽविचला श्रद्धाऽऽसीत् । ___यदा कदाचिद्विभुः स्मृतिपथमायाति तदा सर्वमपि कार्यं विहाय द्रुतमेव श्री शङ्खश्वर'तीर्थं स गच्छन्नासीत् । तत्र गत्वा पार्श्वनाथविभोः मङगलदायिनं सांनिध्यं संप्राप्याऽनन्यचित्तेन तद्भक्ति चकार । प्रभोः भक्तिप्रभावेण सर्वस्या अप्याधि-व्याधिस्वरूपपीडायाः निवृत्तीभूय प्रसन्नतां स्वस्थतां च प्राप्नोति स्म सः । एकदा पार्श्वनाथभगवत आराधनार्थं स तत्र गतः । विभुवदनैकचित्तस्तद्गुणमयमनस्कश्च स जगत्पतेः पर्युपासनां कुरुते स्म । तस्य कण्ठः पिकवत् मधुरोऽब्धिवद्गम्भीरचाऽऽसीत् । तस्योच्चैनिनादस्य प्रतिध्वनि निशो नीरवे परमशान्तिमये च वातावरणे सर्वतोऽगुञ्जत् । यथा हरिणा: मधुरगान्धर्वतूर्यरवेणाऽऽकृष्यन्ते तथैवाऽस्य मधुरेण मङ्गलगानेन बहिःस्थिताः सर्वेऽपि जना आकृष्य झटिति मन्दिरमागताः । एवं शनैः शनैः जिनालयस्य समग्रोऽपि मण्डपो जनवृन्देन भृतः। दैवात् तदैव सेवकसमुदायैः परिवेष्टितेन तत्क्षेत्राधिपतिना 'नवाबेन जिनगृहस्यान्तिकं शिबिरोऽकारि । ततस्तेनाऽपि जिनेश्वरभक्तस्याऽस्य श्रावकस्य मधुरो निनादः श्रुतः । तस्य मानसमानन्देन प्रोल्लसितमभूत् । “चारु चारु" एवं तन्मुखात् वाणी निर्गता । प्रत्यक्षमेतच्छोतुमुत्कण्ठितमभूत् तन्मानसम् । द्रुतमेव स सेवकमादिष्टवान् - त्वमधुनैव तत्र गच्छ, यः कोऽपि भवेत् तं सादरमत्राऽऽनय। . . Page #67 -------------------------------------------------------------------------- ________________ 'तथाऽस्तु' एवमुक्त्वा स सेवकस्तत्र जगाम । तेन सविनयं सः श्रावको विज्ञप्तःश्रेष्ठिन् ! महाभाक् ! तव निर्मलामनुपमां च भक्तिं दृष्ट्वा तथा सुमधुरं गम्भीरमारवं च निशम्याऽस्मदीयः नवाबोऽतीव प्रसन्नोऽभूत् । ततः प्रत्यक्षं तस्य शुश्रूषाऽस्ति । अतस्तत्राऽऽगत्य मे प्रभोः स्पृहापूर्ति करोतु भवान् । श्रावक आह - नैतत् शक्यम् । न त्रिजगदीश्वरं विना कस्याऽपि सदेशमेवंरीत्या गीतं गायाम्यहम् । यद्यस्ति तेषां जिज्ञासा त_त्राऽऽगन्तुमहमामन्त्रयामि। सुखेनाऽत्राऽऽगम्यताम् । स सेवकः क्रुद्धोऽभवत् श्रुत्वैवम् । तेन कथितम्-श्रेष्ठिन् ! नैष कोऽपि सामान्यजनः अपि तु अस्याः सर्वस्या अपि भूमेरधिपतिरस्ति, वयं सर्वेऽपि तदाज्ञायां वर्तामहे । ततस्तत्राऽऽगच्छ सपदि, अन्यथा भवन्तं दण्डयिष्यति सः।। तेन श्रावकेण निर्भयत्वेनोदितम्- न काऽपि मे भीतिः । तव स्वामिने यद् रोचते तत्कर्तुं स स्वतन्त्रोऽस्ति। श्री शङ्खश्वरपार्श्वनाथ' विमुच्य तस्य मनोरञ्जनार्थं न तत्राऽऽगच्छेयमहम् । ___ अपूर्वसामर्थ्यान्वितमेतद्वाक्यं संश्रुत्य स सेवकोऽपि विह्वलो भीतश्च । अचिरेण शिबिरं गत्वा 'नवाबा'य तेन सर्वमपि निवेदितम् । क्षणं नवाबेनाऽपि आश्चर्यमनुभूतम् । तस्याऽपि वाशक्तिः किञ्चित्कालं स्थगिता। परं तु, सः नवाबोऽपि भक्तिनिष्ठ आसीत् । तेन (स्वतः) मनसि चिन्तितम्- एष एव प्रामाणिकः प्रभुभक्तः, अस्यैव भक्तिरपि तथ्या। मयाऽद्यपर्यन्तमनेके प्रभुसेवकाः दृष्टाः, अपि तु, एतादृशो भक्तस्तु न निरीक्षितः यतो यस्य चरणे जीवनं समर्पितं तं विना कस्याऽपि चरणसेवां न करोति । एवं विचार्य स्वसेवकमाहूय तेन नवाबेन प्रोक्तम् - भवतु स नाऽऽगतोऽत्र, किन्तु एतादृशो भक्तिनिष्ठस्य परमश्रद्धावतश्च भक्तसेवकस्य दर्शन कर्तुं मे मनोऽत्युत्कण्ठितमस्ति, अत आवां द्वावपि तत्र गच्छेताम् । अन्यच्च प्रभोः साक्षात् दर्शनं तु कदा भविष्यति तदहं न जानामि, परंतु प्रभोः प्रतिकृतिसमस्याङ्गगतस्य च भक्तिमत आत्मनः पुण्यदर्शनं कृत्वा मन्मानसं पवित्रं करवाणि । एवं ससेवकस्स 'नवाबः' जिनगृहं गतः । 19 ६० en Page #68 -------------------------------------------------------------------------- ________________ - ST - अत्र च-स श्रावकस्तु एतां घटनां विस्मृत्य प्रभुभक्तौ निमग्न आसीत्। अस्खलितवाग्धारया मधुरस्वरेण रसनिबद्धं भक्तिभृतं च गीतं गायन्नासीत् सः । स 'नवाबोऽपि किमप्यनुक्त्वा अस्य भक्तिपूतं समर्पणसंदीप्तं च वदनं निरीक्षमाणोऽतिष्ठत् । 'पार्श्वनाथ'प्रभोः पर्युपासनां कृत्वा स श्रावको बहिरागच्छति । तदैव नवाबेन स श्रावक आश्लिष्टः । आनन्दाश्रुपूरित- अनुमोदनाभावभरितेन वदनेन तेन प्रोक्तम्-त्वं धन्योऽसि, त्वं सत्यमेव प्रभुभक्तोऽसि, तवाऽकम्पितश्रद्धान्वितां निरुपमां भक्ति वीक्ष्यातीव प्रसन्नो भवाम्यहम् । अपि च, अद्य सफलीभूतं मे जन्माऽपि । अनेकशो भक्तेः वार्ता श्रुता, किन्तु भक्तिशब्दस्य तात्पर्य तु ज्ञातमनुभूतं चाऽद्यैव । शक्तिप्राप्तेः चिन्तायामशक्तः अयं जातः Page #69 -------------------------------------------------------------------------- ________________ शवम् - मुनिधर्मकीर्तिविजयः शवम्, शवम्, शवम्। पतितमासीत् सर्वतो भूमिं स्पृष्ट्वा शवमेकम् । सर्वं मुखमपि तस्य रुधिरेण रञ्जितमासीत् । एकः क्रमो वक्र: । एको हस्तो वक्षसि, अन्यो हस्तो वदनोपरि पतित आसीत् । आस्तां द्वौ हस्तावपि रुधिरेण लिप्तौ । नयनेऽपि मीलितेऽभूताम् । पतित आसीदेष कुणपो नगरस्य मार्गस्य मध्यभागे । नासीत् कोऽप्यन्यो मार्गो नगरस्य बहिर्गन्तुं ततोऽन्यग्राम प्रति गमनोत्सुकास्सर्वे पौरजना एतदेवाऽयनं प्रत्यागच्छन्त आसन् । किन्तु वर्त्मनो मध्यस्थितं कुणपमेतं वीक्ष्य भीति प्राप्नुवन्तो न केऽपि जनाः पुरस्सरं गमनार्थं समर्था आसन् । ततस्तत्रैव सर्वे जनाः स्तम्भीभूता इव स्थिताः । एवं तत्रत्यस्थाने बहवो नागरिका मीलिताः । अपि तु नासीत् शक्तिरुपकुणपं गन्तुं केषाञ्चिदपि । ततस्सर्वे जना दूरे एव संस्थिताः । तदा तत्रस्थितास्सर्वे जनाः परस्परमेवमलपन् । संभवत्येष मार्गस्तु मध्याह्न एव केवलं पथिकविहीनः । अन्यस्मिन् काले तु भवत्येव पौरजनानां गमनाऽऽगमनम् । अत एवैतद्धटनाकालोऽपि मध्याह्न एव संभाव्यते । एवं सर्वे निर्णीतवन्तोऽभवन् । तदैवैको जन आह, यन्नैष निर्णयो योग्यो युष्मदीयः, यतोऽहमस्मादेवाऽयनात् मध्याह्ने आगत आसम्; तदा तु नासीत् कुणपोऽत्रैषः । श्रुत्वैतद्वाक्यं सर्वे जनाः पुनश्चिन्तिता बभूवुः । कुत आगत एष कुणप:? किमत्रैवाऽस्य हत्या कृता, उताऽन्यत्र हत्यां कृत्वाऽत्र शवं प्रक्षिप्तम् ? 19 ६२ Page #70 -------------------------------------------------------------------------- ________________ कस्यचिदेष कुणपः? किमस्ति कञ्चिदस्य शवस्याऽभिव्यञ्जकः?, एवं सर्वे यथामति प्रश्नान् चक्रुः । तथाप्येतस्य शवस्य समीपं न केऽपि जना जग्मुः, दूरात्तु न शवं संलक्ष्यते । किं करिष्याम: ? किं करिष्यामः ?, एवं निःश्वस्य सर्वे तूष्णींस्थिताः । तदा केचिद्घीरपुरुषाः कुणपस्याऽस्य लक्षणानि ज्ञातुं समीपं गताः । कुणपं निरीक्ष्यएकेन कथितं - अरे ! एषः ? अन्येनोक्तं-ज्ञायते देहस्य रचनयैष यद्, अहो ! ज्ञातं ज्ञातम् .....। अन्येन प्रोक्तं - अरे ! तस्य सदृशान्येवाऽस्य वस्त्राणि; अतस्स एवाऽयं, स एवाऽयम्....। तदा सहसैवैक आह - एष तु हक्कः कल्प्यते यत्, चिकुरा अपि तन्निभा एव अन्येन गदितं- सत्यमेव, सत्यमेव, एष हक्क एव दृश्यते; यत उपानहावपि तत्तुल्ये एव। प्रान्ते जनसमुदायादेको बलिष्ठो जनस्सर्वेषां शङ्कां दूरीकुर्वन्नुवाच यत्, तत्तुल्यान्यंशुकानि, तन्निभाः शिरोरुहाः, तस्य प्रतीकाशे उपानहौ, एवं कथं वदथ? एष हक्क एवाऽस्ति, इत्येवं किमर्थं न जल्पथ? एवं संश्रुत्य सर्वे जनाः स्तब्धा इवाऽभवन्, किमपि न वदन्ति, सर्वे जनाः क्षणं शबमेव दरीदृश्यन्ते । 'अस्ति हक्क एव' एवं निर्णीते सति व्याकृतमेकेन, एतत्तु न संभवति, न कथमपि मन्येऽहम्, यतो मया स प्रातरेव दृष्टः । अन्येनाऽऽचष्टम् - भो ! भो ! त्वया तु प्रातः काले दृष्टः, किन्तु मया त्वधुनैव कियत्कालं पूर्वमेव निरीक्षितः, अहो किमेतद् ? एवं श्रुत्वा वीक्षन्ते सर्वेऽन्योन्यं मुखानि, क्षणवारं सर्वेऽवाच इव भूताः । प्रकृतिरपि शोकमयी भूता, सर्वे स्तम्भीभूता इव संस्थिताः ।। N७ ६३ @n Page #71 -------------------------------------------------------------------------- ________________ (२) अस्त्यत्र घटनैषा । अस्मिन्नेव नगरे निवसति स्मैष हक्कः । अमृत तस्य पिताऽल्यवयस्येव । अकस्मात् तन्माताऽपि कियत्कालपूर्वं मृता । एवं नासीत् तस्य परिवारे कोऽपि जन:, यतस्स निर्बन्ध एव ग्रामेऽपि व्यहरत् । तस्याऽऽसीत् काऽपि नाऽन्या चिन्ता । ग्रामजनानामापणं गत्वा तैः सह वार्तालापद्वारेण समयाकरोति स्म । निशि तु मन्दिरस्य विद्यालयस्य ग्रामचत्वरस्य वा भूमौ स स्वपन्नासीत् । अथ च, स सर्वेषां नगरजनानां प्रिय आसीत्, यतो नगरस्य बालैः वा वृद्धैः वा, स्त्रीभिः वा पुरुषैः वा, सामान्यजनैः वा विशिष्टजनैः वा, सर्वैरपि लक्षितानि कृत्यानि स निरालसं कुर्वन्नासीत् । स प्रकृत्या हसनशीलः, निष्पापी, उत्साही, सर्वेषां कर्मकरणोद्यमी चासीत् । स कौतुकी अप्यासीत् । सर्वेऽपि तस्य कुतूहलं सहमाना आसन्, यतो हक्कस्य स्वभावो निष्पापः । एवं भ्रमति स्म स इतस्ततस्सर्वस्मिन्नैव नगरे । किन्तु तस्य चारित्रमतिविशुद्धमासीत् । आस्तामतिगम्भीरेऽब्धिवत् तस्य नयने, तस्य मानसमपि स्फटिकवत् सुनिर्मलमासीत् । तस्य चारित्रे न केऽपि शङ्किता आसन् । अत एव केषाञ्चिदपि गृहे आपणे वा निर्बन्धं गन्तुं समर्थ आसीत् स हक्कः । यदा कदाचित् बुभुक्षितो भवेत् तदा कस्यचिदप्यापणात् किमपि खाद्यवस्तु गृहीत्वा तमेवाऽऽपणस्वामिनं प्रति मयैतद्वस्तु गृहीतं, किं ज्ञातं भवता ? इति पृष्ट्वा सर्वानपि जनान् हासयति स्म । एवं स जनप्रिय आसीत् । किञ्च, आसीत् तस्याऽन्यदपि वैशिष्ट्यमेकम् । पृथक् पृथक् वेषमाकलय्य स ग्रामे निर्गच्छेत् तदा तमालोक्य सर्वेऽपि मुह्यन्ति स्म । यस्य कस्याऽपि वेषं स भजेत् तदा तमनुलक्ष्यैव तैः सह व्यवहरन्ति स्म सर्वे जनाः । वेषपरिवर्तनेन स एतादृशं सादृश्यं निरूपयति स्म । ६४ @the Page #72 -------------------------------------------------------------------------- ________________ एकदा कस्यचिदारक्षकस्य वस्त्राणि धृतानि, चर्मणः कटिबन्धः (बेल्टः) गृहीतः, मस्तके शिरस्त्राणं परिधृतं, हस्ते दण्डं गृहीतं, अजायाः केशैः श्मश्रु कृतम् । पश्चात् हस्तदण्डमू/कुर्वन् नगरश्रेष्ठिन आपणं गत्वोच्चैरकथयत्, रे श्रेष्ठिन् ! उत्तिष्ठ ! उत्तिष्ठ ! मया दृष्टा दृष्टा तव प्रामाणिकता, अधुनैव मया सहाऽऽरक्षकस्थानं प्रति चल। श्रेष्ठी तु भीतः । देहः कम्पितोऽभूत्, वदनमपि निस्तेजं भूतम् । अरे ! अरे ! मम कः....कः....अ...प...रा...ध:..., म..या..किं....किं....पा...पं...कृ...तम्...एवं दीनस्वरेण वदतः श्रेष्ठिनो मुखं संलक्ष्य हक्को जहास । स ज्ञातः श्रेष्ठिना; त्वरितमेव हस्ते दण्डं गृहीत्वा ताडयितुं तं प्रति धावितः। रे दुष्ट ! मम भापयितुं...। तावत्कालेन तु हक्कोऽन्यत्र गतवान् । ___ एवमीदृशानि नैकानि कुतूहलान्याचरितानि तेन । कदाचिदाभीरस्य, कदाचिदारक्षकस्य, कदाचिद् भिक्षुकस्य, कदाचित् श्रेष्ठिनः, कदाचिद् रामस्य, कदाचिद् हनुमतः कदाचित् शङ्करस्य, कदाचित् लकेशस्य, कदाचित् स्त्रियः वेषो धृतः, एवं भिन्न भिन्नं वेषं धृत्वा जनानां प्रमोदमचीकरत् । एवं तत्रस्थितैः सर्वैः जनैः तस्य हक्कस्य समस्तमपि जीवनं स्मृतिपटे आनीतम्। सर्वैः कथितं-यत्, तेन हक्केन स्वकीये जीवने कदापि कस्यापि न दुष्कार्यं कृतम्, केनाऽपि सह न वैरभावो बद्धः, तथाऽपि केन दुष्टेनैष निरपराधी हक्को मारितः ? एवं वदतां सर्वेषां नयनेभ्योऽश्रूण्यझरन्। (३) तदैव तत्राऽऽगतः 'कम्मरअली'नामको जनः । स आह- किमेतद् श्रृणोम्यहं, किमेतद् सत्यम् ? । नहि, नहि, कदापि न संभवेत्, यतस्स हक्कस्तु द्वादशवादने एव ममाऽऽपणे आगतः, वार्ताऽपि कृता मया सह, किञ्चिद्वस्तु गृहीत्वा गतः । अधुना...अधुना...एतद् किं...अहं पश्यामि । एवं वदन् स उच्चैः रुरोद । सहसैवाऽऽघातवशेन भूमितले पतितः । आसीत् हक्कः 'कम्मरअली त्यस्य मित्रम् । दिनपर्यन्तं तदापणे एव उपविशन्नासीत् हक्कः । आस्तां परस्परं सुखदुःखयोः सहभागिनौ तौ । तत एवाऽनया घटनया स कम्मरअली ७ ६५ en Page #73 -------------------------------------------------------------------------- ________________ - - अतिव्याकुलोऽभवत् । क्षणेन स्वस्थीभूतः कम्मरअली आह-भो ! भो ! किं युष्माभिराक्षकगृहे एष वृत्तान्तो ज्ञापितो न वा? __ अकथयन् सर्वे जना अन्योन्यं मुखं वीक्षमाणाः, नहि, नहि, अस्माभिः सर्वैः विस्मृतमेवैतत्तु । तदैव ग्रामणीरुवाच-अरे ! करशन ! आरक्षकगृहं गत्वाऽधुनैवैतमुदन्तं ज्ञापय । श्रेष्ठिना प्रोक्तं - क्षणं तिष्ठन्तु, विचारयन्तु । अत्राऽऽगत्याऽऽरक्षकाः किं करिष्यन्ति, तद् यूयं जानीथ? आगत्य युष्मानेव प्रक्ष्यन्ति ते तु, यद् एतं को ममार। तदा किं प्रत्युत्तरं दास्यथ यूयम्? ग्रामणीराह-श्रेष्ठिन् ! कथं त्वं मुह्यसि ?, अस्माकं सर्वेषामेषैव जिज्ञासाऽस्ति, केन मारितो निरपराधी हक्क एषः । श्रेष्ठी आह-ग्रामणि ! त्वं पुनः पुनः विचारय । एतावन्मात्रेणैकेनैव प्रश्नेनैतत्कार्यं न समाप्तं भवेत् । अन्यानपि प्रश्नान् प्रक्ष्यन्ति । शवं केन केन दृष्टम् । कियत्कालात् शवमत्र पतितम् । तदा कः क आसीत् । एवं नैकाः प्रश्ना उद्भविष्यन्ति, तत आरक्षकगृहे नैष वृत्तान्तो ज्ञापनीयः; एतदैवोचितम् । श्रुत्वैतत् श्रेष्ठिवचनं सर्वैः कथितम्- हा,हा, एतत्तु सत्यमेव, ते आरक्षकास्तु निर्दयाः सन्ति । तत: कमपि निरपराधिनं बन्दीकृत्य ताडयिष्यन्ति, तथैतादृशमतीव कष्टं सहित्वाऽपि तेभ्यः पुष्कलं धनं प्रदास्यन्ति, अतोऽलमारक्षकैः । अधुना तु निराधारस्याऽस्य हक्कस्याऽन्त्यक्रिया करणीया। एतां वाचं निशम्यैकेन प्रोक्तम्-कथ्यते एषा तु हत्या, अस्य शवस्य हस्तस्पर्शोऽपि प्रोच्यतेऽपराधः । आरक्षका: कारागारेऽस्मानेव बन्दीकृत्य पूरयिष्यन्ति ततोऽस्य.. ___अभवन् स्तब्धीभूतास्सर्वे नागरिकाः । तेभ्यो न कोऽपि शवस्याऽस्य स्पर्शमपि कर्तुमुद्यम्यभवत् । अस्तङ्गता सहानुभूतिं दर्शयतां सर्वेषां जनानां क्षणमात्रेणैव दया । सर्वेऽप्यभवन् किंकर्तव्यमूढाः । न विश्वसनीया आरक्षकाः । ते तु येन केन प्रकारेण यं कमपि गृहीत्वैतेनैव हत्या कृता, ७ ६६ - Page #74 -------------------------------------------------------------------------- ________________ एवं प्रमाणीकरिष्यन्ति, ततः....एवं वदन् नगरश्रेष्ठी एवाऽऽद्य ततो निर्गतः । तत्पश्चात् सर्वे जनाः शनैः शनैः निर्गता अभवन् । प्रान्तेऽङ्गगतं मित्रं कम्मरअली एव तत्र स्थितः । स चिन्तयति यत्, शवं निराधारं विमुच्य सर्वेऽपि नगरजनाः स्वकीयगृहे गतवन्तः । अधुना त्वत्र नास्ति कोऽपि । ततो यद्यारक्षका आगच्छेयुः तहि ते मामेव बन्दीकरिष्यन्ति । प्रमाणीभविष्याम्यहमेवाऽपराधीस्वरूपेण; अतोऽहं किं करोमि ? किं शवं विमुच्याऽहमपि नश्येयम् ? नहि, नैतदुचितम् । हक्कस्तु मे परमं मित्रमासीत् । आसीत् सुखदुःखयोः सहभागी । तथा दुःखिजनानां साहाय्यं करणीयम्, एतदेव परमो धर्मोऽस्ति । एवं विचार्य कियत्कालं स तत्रैवाऽतिष्ठत् । ___ पुनस्तन्मानसे एको विचार उद्भूतो यद्, आरक्षका न विश्वसनीयाः केन कृता हत्या हक्कस्य, एतत्तु न जानाति कोऽपि । तथापि न कदापि क्षमिष्यति हक्कस्य घातुकमल्लाहः । एवं मनस्येव चिन्तयित्वा स अपि ततो निर्गत्य द्रुतं स्वस्थानं प्रति गतवान् । इदानीं केवलं हक्कस्य शब एव तत्राऽस्थात् । तदैव हक्कस्तत्रस्थानादुदतिष्ठत् । समीपस्थतडागस्य जलेन हस्तौ मुखं च प्रक्षाल्य चचाल। जीवनस्य कर्माष्टकम् -साध्वीश्रीयुगन्धराश्री ज्ञानचन्द्रनामको जनः प्रतिदिनं दर्शनाय गच्छति । एकदा मार्गे गच्छतः तस्योदरे वेदना जाता । तदा तस्य सन्मुखं मोहनमहोदय आगतः । स ज्ञानचन्द्रमपृच्छत्, यत्कथं पीडितो दृश्यसे? तस्मै उवाच ज्ञानचन्द्रः-अधुना मम स्वल्पमपि आयुः नाऽवशिष्टमिति चिन्तया । मोहनमहोदयः तमकथयत्, ईदृशं न वक्तव्यम्, भगवतो नामस्मरणं कुरु, गोत्रदेवस्य स्मरणं कुरु, तत्प्रभावेण तव सर्वेऽपि अन्तराया: विनश्यन्ति । 19 ६७ ene Page #75 -------------------------------------------------------------------------- ________________ (७) कः खलु केन जीवति ? - मुनिकल्याणकीर्तिविजयः पुरा किलैकस्मिन् नगरे चत्वारः सुहृदोऽवसन् । एको राजपुत्रः, अन्यो मन्त्रिपुत्रः, अपरः श्रेष्ठिपुत्रः, इतरश्च सार्थवाहपुत्रः । ते चत्वारोऽपि सर्वदा सहिता एव रमन्ते पठन्ति भ्रमन्ति खादन्ति च। अथैकदा तैश्चिन्तितम्- 'वयं देशाटनं कुर्मः, तेन च नवनवान् अनुभवान् कुर्वाणा: विविधान् प्रदेशांश्च पश्यन्तो ज्ञानवृद्धिं कुर्महे ।' तदैकेन कथितं- 'किन्तु अस्माकं पितरौ देशाटनाय नोऽनुमतिं नैव दधुः । अतो वयं तावनापृच्छ्यैव इतो निर्गच्छामः ।' सर्वेऽपि 'बाढम्' इत्युकत्वा तस्यामेव निशि नगरान्निर्गताः । ततश्च ते सर्वत्र भ्राम भ्राममनेकेषु ग्रामनगरादिष्वनेकान् कुतूहलान् विलोकयन्तोऽन्यदैकं विशालं नगरं प्राप्ताः । नगरस्य बहिरेकं रमणीयमुद्यानमासीत्। चत्वारोऽपि सुहृदः तत्रैवोद्याने स्वादूनि फलान्यास्वाद्य वाप्याश्च निर्मलशीतलं जलं पीत्वा विश्रामार्थमेकस्मिन् लतामण्डपे उपविष्टाः ।। तदा राजपुत्रेण कथितं- 'भो वयस्याः ! कतिपयदिनेभ्यो मम मनस्येका जिज्ञासा उत्पन्नाऽस्ति । कथयेयं वा? वयस्या उचुः अवश्यं कथय भोः ! कोऽत्र प्रश्नावकाशः? तेनोक्तं- अस्मत् चतुर्थ्य: 'कः खलु केन जीवति ?' इति ज्ञातुमिच्छाम्यहम् । कोऽर्थः ? किं विवक्षति भवान् ? इति मित्राण्यपृच्छन् । सोऽवोचत्, अयमर्थः, वयं किल निजां आजीविका केन उपायेनाऽर्जयामः खलु ? इति । वद सार्थवाहज ! त्वं केन जीवसि? तेनोक्तं- अहं दाक्ष्येण जीवामि । श्रेष्ठिपुत्र ! त्वं केन जीवसि ? इति कुमारेण पुष्टे तेनाऽप्युक्तं अहं रूपेण जीवामि । 9 ६८ 6 Page #76 -------------------------------------------------------------------------- ________________ - त्वं च मन्त्रिपुत्र ! कथं जीवसि? इति राजपुत्रेण पृष्टे तेन गदितं-- अहं बुद्ध्या जीवामि। अथैतत्प्रश्नानन्तरं त्रिभिरपि सम्भूय कुमारोऽपि पृष्टः-कुमार ! त्वमपि कथय निजाजीविकोपायम् । तेनोक्तं- अहं तु भाग्येन जीवामि । किन्तु भोः वयस्याः ! अस्माभिरेतेषां निजनिजवृत्त्यर्जनोपायानां परीक्षाऽपि कर्तव्या । अतोऽद्यप्रभृति प्रतिदिनं प्रत्येकं सुहृदा निजसम्मतोपायेन वृत्तिं प्रसाध्य स्वेन सह चत्वारोऽपि भोजयितव्याः । अद्य तव वारकोऽस्ति सार्थवाहपुत्र !, भोजयिष्यिसि न वा? अवश्यं भोजयिष्यामि मम कौशलेनेति तेनाऽपि प्रत्युक्तम् । तदनु स नगरं प्रविष्टः । अथ तद्दिने किमपि पर्व आसीत् । अत: नगरे सर्वत्र लोका दरीदृश्यन्ते स्म । तान् विलोकयन् विपणौ च भ्राम्यन् स एकं हट्टमपश्यत् । तत्र हट्टे एको वृद्धः श्रेष्ठी ग्राहकेभ्यो विविधान् क्रयाणकान् विक्रीणन् आसीत् । तस्य हट्टे बहवो ग्राहका आगताः । किन्तु वार्धक्यग्रस्तत्वात् स तेभ्यः शनैः शनैर्वस्तूनि ददाति स्म । एतद् दृष्ट्वा सार्थवाहपुत्रो झटिति हट्टान्तर्गतः श्रेष्ठिनमापृच्छ्य च विविधवस्तूनां पुटकान् बद्धमालग्नः । स्वहस्तलाघवेन तेनाऽल्पेनैव कालेन सर्वेभ्योऽपि ग्राहकेभ्य इष्टक्रयाणकानि दत्तानि । तेन सर्वेऽपि ग्राहकाः सन्तुष्टाः सन्तः श्रेष्ठिने उचितमूल्यं दत्त्वा गताः । अनेन पार्श्वस्थेष्वापणेषु स्थिता अन्येऽपि बहवो ग्राहकास्तत्रैव हट्टे वस्तूनि केतुमागताः । तेऽपि सार्थवाहपुत्रेणाऽल्पीयसा कालेनैव सन्तोषिता उचितमूल्यं दत्त्वा गताः । एतेन तस्य श्रेष्ठिनस्तद्दिनेऽचिन्तितलाभो जातः । अत सोऽतीव हृष्टः सन् तमपृच्छत्- कस्त्वं पुत्र !? नाऽत्रत्यो दृश्यसे। तेनोक्तं- तात ! पर्यटकोऽस्म्यहम् । विविधान् देशान विलोकयितुं भ्राम्यामि । तमुद्य त्वं ममाऽतिथीभव । चल, मम गृह एव त्वां स्नानभोजनादिकं कारयामीति श्रेष्ठ्युवाच। किन्तु तात ! नाऽहमेकलोऽस्मि । मम त्रयो वयस्या अपि नगराद् बहिरुद्याने सन्ति । तान् विहाय नाऽहं भवदातिथ्यं स्वीकुर्याम् । इति स प्राह । श्रेष्ठी कथितवान् कोऽत्र बाध: ? आकारय तान् । तेऽपि ममैवाऽतिथीभविष्यन्ति। . 19 ६९ Page #77 -------------------------------------------------------------------------- ________________ भवतित्युक्त्वा स तान् त्रीनपि तत्राऽऽनीतवान् । श्रेष्ठी च तान् चतुरोऽपि निजगृहं नीतवान्, दीनारदशकव्ययेन च स्नानादिकं कारयित्वा नवानि वस्त्राणि परिधाप्य भोजितवांश्च । - एवं प्रथमो दिनो व्यतीतः । अथ द्वितीयदिने श्रेष्ठिपुत्रस्य वारक आसीत् । सोऽपि प्रातःकृत्यानि समाप्य नगरभ्रमणमारब्धवान् । __ इतस्तत्र नगरे एका नर्तकी समवसत् । तस्याः पुत्री षोडशवर्षीया नवयौवनाऽतिरूपलावण्यवत्यासीत्। किन्तु साऽऽबाल्यात् पुरुषद्वेषिण्यभवत् । अत: पुरुषप्रतिच्छायामपि नैवाऽऽदत्ते स्म । तद्दिने तु गवाक्षस्थया तया सुन्दर्या नगरचर्यां विलोकयन्त्या सुरूपवानयं श्रेष्ठिपुत्रो दृष्टः । तं दृष्ट्वैव तस्या मनसि महाननुराग उत्पन्नः । मुखं च विकस्वरं जातम् । समीपस्थया तत्सख्या तस्या मुखभावो लक्षितः । अतस्तमातरमाहूय तयोक्तं- मातः ! पश्यैतं श्रेष्ठियुवानं, तव पुत्री तं दृष्ट्वाद्याऽनुरागवती जाता । तस्याः पुरुषद्वेषो नष्ट इति मन्ये । ___ नर्तक्याऽपि निजपुत्रीमुखं विलोक्य, तद्भावं चोपलक्ष्य दासीद्वारा स श्रेष्ठिपुत्र आहूत उक्तश्च - भो युवन् ! कस्त्वं? कुतश्चाऽऽयातः? प्रवास्यस्मीति मधुरस्वरेण तेनोक्ते तया कथितं- तमुद्य मदृह एव तव निवासः । त्वयि आयाते मम भाग्योदयोऽद्य । यत आबाल्यात् पुरुषद्वेषिणी मत्पुत्री त्वां दृष्ट्वाऽनुरागवती जाता । अतस्त्वया ममाऽऽतिथ्यं स्वीकर्तव्यमेव । - तेन प्रत्युक्तं- मातः ! ममाऽन्येऽपि त्रयः सुहृद उद्याने विद्यन्ते । तान् मुक्त्वा नाऽहं भवदातिथ्यस्याऽधिकारी। नर्तिकाऽवदत्- अरे ! किमत्र वक्तव्यम् ? तेऽपि ममाऽतिथीभवन्तु । बाढमित्युक्त्वा स्ववयस्यानाहूय स तद्गृहमागतः । मुदितया तयाऽपि दीनारशतव्ययेन स्नान-भोजनादि कारयित्वा वस्त्रालङ्कारादिभिः सत्कृताः । एवं श्रेष्ठिपुत्रेण निजरूपप्रभावेण सर्वेऽपि भोजिता इति द्वितीयदिनमपि व्यतीतम् । - तृतीयदिने तु मन्त्रिपुत्रस्याऽऽजीविकार्जनावसर आसीत् । सोऽपि प्रभातकाल एव नगरं प्रविष्टः । दर्शं दर्शं नगररमणीयतामुपन्यायालयं प्राप्तः सः । तत्र बहून् लोकान् समाकीर्णान् दृष्ट्वा कुतूहलवशात् तेन कश्चित् तत्कारणं पृष्टः । तेनाऽपि प्रोक्तं यदद्यैका विचित्रा घटना Page #78 -------------------------------------------------------------------------- ________________ घटिताऽस्ति । इह नगरे एक पुरुषस्य द्वे पत्न्यौ आस्ताम् । स पुरुषः कतिचिद्दिनपूर्वं विपन्नः । तस्य धनमनयोर्द्वयोर्भार्ययोर्मध्ये विभजनीयमस्ति । एतावता तु न काऽप्यापत्तिस्तयोः । किन्तु तयोर्मध्ये एका सपुत्राऽस्ति द्वितीया त्वपुत्रा । याऽपुत्रा सा, तं बालकं प्रति प्रेमपरवशा भणति यदेष ममैव पुत्रोऽस्ति नाऽन्यस्याः । अतः स मह्यमेव दातव्यः । पुत्रमाता च भणति यन्ममैवैष पुत्रो मह्यमेव च दातव्य इति । एतेन कोऽपि निर्णेतुं न पारयति यत् कस्या अयं पुत्रः ? का वा सत्या माता? इति । अतोऽनयोर्द्वयोायोऽपि न भवति । तेनाऽत्रैतावान् कोलाहल: प्रवृत्तोऽस्तीति । एतच्छ्रुत्वा मन्त्रिपुत्रेण भणितं- अहो ! सामान्येयं घटना । सरलश्चाऽत्र न्यायः । एषोऽहमेवाऽनयोविवादं शमयामि । तस्य इयन्तमात्मविश्वासं दृष्ट्वा स जनस्तं न्यायालयान्तरनयत्, कथितवांश्चोच्चैः - भो जनाः ! अयं कश्चित् प्रवासी अत्राऽऽगतोऽस्ति । सोऽनयोर्द्वयोर्विवादं शमयिष्यति । सर्वे जनास्तं विलोकितवन्तः । स ते द्वे स्त्रियौ कथितवान् युवयोः पत्युर्यद् धनमस्ति तस्य सर्वस्याऽपि द्वौ समौ भागौ कुरुताम् । तथाऽस्याऽपि युवयोर्विवादमूलस्य बालस्य द्वौ भागौ कुरूताम्। द्वाभ्यामपि स्त्रीभ्यां एकैको भागो गृह्यते चेत् तदाऽयं विवादो निर्मूलीभविष्यति । एतच्छ्रुत्वा सर्वेऽपि जना स्तब्धीभूताः, किन्तु पुत्रमाता साश्रुनयना झटित्युवाच- भो युवन् ! न मे कार्यमनेन धनेन । पुत्रमपि चैतस्यै एव देहि येन जीवन्तं पुत्रं दूरतोऽपि द्रक्ष्यामि नयनयुगलं च प्रीणयिष्यामि । द्विधाकृतं ततश्च मृतं तं कथं द्रक्ष्यामि ? - ___ द्वितीया स्त्री तु मन्त्रिपुत्रस्यैतद्वचः श्रुत्वाऽपि तूष्णीका एवाऽतिष्ठत् । एतद् विलोक्य तेन कथितं- भो जना: ! नैष बालकोऽस्या द्वितीयायाः कुक्षावुत्पन्नः । तस्य सत्या माता तु प्रथमैव । अतस्तस्यै एव एष दीयते।। ततश्च मुदितैर्जनैायाधीशैश्च स बालकस्तन्मात्रे समर्पित: धनमपि च द्वयोर्मध्ये विभाजितम् । एतेनाऽतीव प्रसन्ना तन्माता मन्त्रिपुत्रं स्वगृहे भोजनादिकृते आमन्त्रितवती । तेनाऽपि स्वमित्रवृत्तान्ते कथिते ते सर्वेऽपि आकारितास्तया । सोऽपि सुहृद आहूय तद्गृहं 19 ७१ @he Page #79 -------------------------------------------------------------------------- ________________ प्राप्तः । तया च स्त्रिया दीनारसहसव्ययेन स्नान- भोजनादिकं कारयित्वा ते सर्वेऽपि वस्त्रादिभिः सत्कृताः । एवं तृतीयदिनमपि तेषां निराबाधं व्यतीतम् । अथ चतुर्थे दिने त्रिभिरपि वयस्यै राजपुत्रो भणित: कुमार ! अद्य त्वया निजभाग्यबलेनाऽस्माकं योगो वोढव्यः । एवं भवत्विति प्रोच्य सोऽपि उद्यानान्निर्गतः । बहिरागत्य स एकस्य विशालवृक्षस्य च्छायायां निर्भरं प्रसुप्तः । इतश्च पूर्वस्यामेव रात्रो तन्नगरस्य राजा अपुत्रो मृतः । ततो मन्त्रि - सचिवादिभिरन्यस्य राज्ञो गवेषणाय हस्त्यश्व - छत्र- कलश- चामरारूपाणि पञ्च दिव्यानि देवतयाऽधिवासितानि । तदनु ते सर्वेऽपि तानि दिव्यान्यग्रेकृत्वा सर्वं नगरं भ्रामं भ्रामं यत्र राजपुत्रः सुप्त आसीत् तत्राऽऽगताः। तं दृष्ट्वैव हस्तिना गर्जितं, अश्वेन हेषारवः कृतः, कलशेन स मस्तकेऽभिषिक्तः, चामरे च स्वयमेव तं वीजयितुमारब्धे । एतद् दृष्ट्वा मुदितैः प्रधानपुरुषैर्जनैश्च 'नूतनो राजा जयतु' इति जयजयारावं कृत्वा हस्तिन: स्कन्धे उपवेशितः । ततश्च सर्वेऽपि मङ्गलगानपूर्वं नगरं प्रविष्टाः राजप्रासादं च प्राप्ता: । तत्र स मन्त्रि - सामन्ताद्यैः सिंहासनोपरि समुपवेश्य राजत्वेऽभिषिक्तः । अभिषेकानन्तरं स निजमित्राण्युद्यानादाहूय ससम्मानं विविधेषु पदेषु संस्थापितवान् कथितवांश्च यदहं भाग्येन जीवामि । पश्यत, मम भागधेयैरद्याऽहं राजा सञ्जातः इति । एतच्छ्रुत्वा सुहृद्भिरुक्तं - सत्यमेतत् मित्र ! सर्वेषां पुरुषकाराणामुपरिष्टाद् भाग्यमेव विद्यते तदेव च बलिष्ठम् । . 榮 यस्योदयः स वन्द्यो हि यथा हीन्दुर्यथा रविः । ' हैमवचनामृतम् " '} 66 ७२ Page #80 -------------------------------------------------------------------------- ________________ - - बुद्धिर्यस्य धनं तरय। ___ - साध्वीश्रीयुगन्धराश्री एकदा कश्चित् श्रेष्ठी बालकश्चाऽग्निरथेऽन्योन्यं सन्मुखमुपविशतः स्म । बालको धनवान्नासीत् तथाऽपि स धीमानासीत् । गणकयन्त्रयुग इव सोऽपि धनोपार्जनार्थं मुम्बापुरी गच्छनासीत् । तत्र यात्रायां कालक्षेपार्थं स बालकः श्रेष्ठिनमवदत् यद्, आवां परस्परं प्रश्नं पृच्छावः । यदि भवान् पराजितः स्यात्तदा भवता दश रूप्यकाणि मह्यं प्रदेयानि । यद्यहं पराजितः स्याम् तदा मया रूप्यकमेकं देयमिति। . श्रेष्ठी - कथमेवम् ? बालक:- दरिद्रोऽहं, श्रीमान् भवान्, अतः । श्रेष्ठी - शोभनं, शोभनम् । अधुना कः प्रथमः पृच्छको भवेदिति प्रश्ने उद्भूते श्रेष्ठिना बालकः कथितः, 'त्वमेव प्रथमः पृच्छको भव', इति । बालक:- (पृच्छति)गगने उड्डयमानस्य कस्य खगस्य पादौ भूतलं स्पृशतः ? श्रेष्ठी - (किञ्चिद् विचार्य) न जानाम्यहम् । बालक:- तहि देहि मे दश रूप्यकाणि । वचनानुसारं स श्रेष्ठी बालकाय दश रूप्यकाण्ययच्छत् । बालकः- (पुनः) अधुना प्रश्नार्थं ते वारकः । श्रेष्ठी - (किमन्येन प्रश्नेन इति विचिन्त्य) तवैव प्रश्नमहं त्वां पृच्छामि । कथय तस्योत्तरम् । बालक:- न जानेऽहमपि, अतो गृह्णातु एकं रूप्यकम् । एवं, स बालकः स्वधिया नव रूप्यकाण्युपार्जितवान् । अत एव ज्ञायते यद्यथा बुद्धिर्यस्य बलं तस्य तथा बुद्धिर्यस्य धनं तस्येत्यपि सत्यम् । Page #81 -------------------------------------------------------------------------- ________________ (९) सुभाषित - कथा) - एम्. के. नझुण्डस्वामी कदाचित् कबीर साधुः भिक्षामटन् स्वकुटीरं प्रति निवर्तमान आसीत् । मार्गं गमिष्यतस्तस्य मनसि सहसा चिन्ता उदियाय-अहो अहं बहोः कालात् तपस्यन् तत्त्वावगमाय यतमान एवास्मि । तथापि सिद्धिं नावगच्छामि; किं करोमि; कदा वा सिद्धिं प्राप्नुयामिति । स एवमत्यर्थं खिन्नः अग्रेसरन्नासीत् । एवं ध्यायन् कियच्चित् दूरं गतवतः तस्य मार्गपार्श्वतः कोऽप्याराम: दृष्टिगोचरो बभूव । तत्र आरामपालश्च वाषिकफलप्रसविनं कमप्येकमेव वृक्षं आलवालपरिक्षिप्तं सिञ्चन् अदृश्यत । कबीरः अवनम्रघटमुखात् पततः वारिणः मधुरध्वनिना आक्षिप्तिचित्तः आरामपालस्य जल-सेचन-क्रियां अवलोकयन् तूष्णीं कियन्तमपि कालं स्थित एवासीत् । आरामपालस्तु सिञ्चनात् न कथमपि विरमति । तदा समुत्सुकः कबीरः तं पप्रच्छ। ___ भोः आरामपालक !, कुत एवं एककमेव वृक्षं परःशतैः जलघटैः सिञ्चन् असि ?-' इति । आरामपालः प्रत्यवदत् - आर्य ! किमन्यत्, एष वृक्षः शीघ्रं फलं दद्यात्, इति । तदा कबीरः सहसाऽवदत् ! भोः अधिकजलसेचनेन न स्थाने प्रचुराणि फलानि भवेयुः । वृक्षः स्वं ऋतुमनुसृत्यैव फलति । शीघ्रं कथं वा फलति ?-इति । एवं कथयतस्तस्य मनसि विचारः समजनि-अहो ! अहं आरामपालं उपदेष्टुं यते, स्वयं तु आत्मसिद्धि प्रति त्वरावान् अभूवम् इति । एवं ध्यायतः तस्य मुखात् अतर्कितं वाणी निरगात् यथा "धीरे धीरे रे मना, धीरे सबकुछ होय । माली सींचै सौ घडा रितु आये फल होय ॥" ND ७४ en Page #82 -------------------------------------------------------------------------- ________________ मर्म-नर्म अध्यापक: निखिल ! " अहं धूमवर्तिकां पिबामी " - ति वाक्यस्य भविष्यत्काले किं रूपं भवति ? निखिलः प्रभो ! भवन्तं 'केन्सर' व्याधिः भविष्यति । वैद्य: रमण, स्वर्गप्राप्त्यर्थं किं करणीयम् ? रमणः मर्तव्यम् ! वैद्यः मरणार्थ किं कर्तव्यम् ? रमणः भवत औषधं ग्राह्यम् । गृहिणी (दुग्धविक्रयिकं ) भोः ! प्रत्यग्रं खल्विदं दुग्धम् ? दुग्धविक्रयिकः प्रत्यग्रम् !!! कोऽत्र संशयः ? प्रहरपूर्वं तु घासस्वरूपेणाऽऽसीदेतत् !! ७५ मुनिधर्मकीर्तिविजयः Page #83 -------------------------------------------------------------------------- ________________ मर्म-नर्म मस्तिष्कस्य क्षकिरणछायाचित्रे |x-Ray Clinic LI किमपि न दृश्यते ? यदि स्यात् तर्हि दृश्येत ! I Taail शिक्षकः रमेश ! अस्मिन् विश्वभूपटे (MAP) अमेरिकादेशः कुत्र, वर्तते? दर्शय त्वम्। रमेशः (निरीक्षमाणः ) नोपलक्षयामि शिक्षकवर्य! शिक्षकः (क्रुद्धः) किमेतावदपि न जानासि? मञ्चोपरि उत्तिष्ठ । रमेशः (मञ्चोपरि उत्थाय शिरः कण्डूयन् ) शिक्षकवर्य ! तथाऽपि न दृश्यते। . 19 ७६ ehe Page #84 -------------------------------------------------------------------------- ________________ - मर्म-नर्म ( कथाकारो रामायणं व्याख्याति । कथान्तरे श्रोतृवर्गे नगरश्रेष्ठी निद्रायमाणो दृश्यते) कथाकारः श्रेष्ठिन् ! भोः श्रेष्ठिन् ! स्वपिषि किम् ? श्रेष्ठी (प्रबुद्धः सन् ) को वदति? (क्षणार्धेन पुनर्पूर्णमानं तं दृष्ट्वा ) कथाकारः श्रेष्ठिन् ! स्वपिषि किम्? श्रेष्ठि (सहसोत्थाय ) को वदति? ( पुनरपि तं सुप्तं दृष्टवा ) कथाकार: (किञ्चिद् विचार्य) श्रेष्ठिन् ! भोः श्रेष्ठिन् ! जीवसि किम्? श्रेष्ठी (झटिति जागृतः सन् ) को वदति? रामलालः भोः किं त्वं राजकीयक्षेत्रे प्रधानोऽसि? श्यामलाल: नहि भोः !, केनोक्तम् ? रामलालः तर्हि अर्धहोरातः किमिति अस्खलितं वावद्यसे? - मुनिकल्याणकीर्तिविजयः 19 ७७ en Page #85 -------------------------------------------------------------------------- ________________ मर्म-नर्म आचार्यः रमण, गवि गोपाले च को भेदः? रमणः गुरुदेव ! गौः शुद्धदुग्धं ददाति, गोपालश्च जलमिश्रितं दुग्धं ददाति । on. सोहनः भोः ! मोहन ! त्वं कथं सोपनेत्रः स्वपिषि? मोहनः स्वप्नं सुस्पष्टं द्रष्टुं तथा करोम्यहम्। रमेशः पितः, अस्माकं शिक्षकः किमपि न वेत्ति । पिता अहो ! किमपि न वेत्ति सः? तत्तु सर्वथाऽसम्भवम् । रमेशः पितः , सत्यमेव वदाम्यहम् , स पाठशालायां निरन्तरमस्मभ्यं एव प्रश्नान् पृच्छति । यदि स किञ्चिदपि जानीयात्तदा केन कारणेन अस्मभ्यं एतादृशान् प्रश्नान् पृच्छेत् ? - साध्वीश्रीयुगन्धराश्री 19 ७८ eve Page #86 -------------------------------------------------------------------------- ________________ 510 SARAN प्राकताविभाग Page #87 -------------------------------------------------------------------------- ________________ प्राकृत विभाग सयलसुयसिद्वसारं मुणिमणआणंदनंदणुज्जाणं । मणगस्स कए रइयं सिरिदसवेयालियं जयउ सव्वसुहमूलबीयं, सामण्णं, तस्स सारमायारो । तस्स वि सारो जं तं सिरिदसवेयालियं जयउ सिज्जंभवसूरिसर - रइयं जं पुत्तभावकरुणाए । नवनीयमागमाणं सिरिदसवेयालियं जयउ अप्पाणं जो सत्तू मोहो लोहो तहा य कामो य । ताण जये जं कुसलं तं दसवेयालियं जयउ समणस्स य राइंदिअ - चरिया वरिया पयासिया जत्थ । कम्मगणनासणत्थं तं दसवेयालियं जयउ हिययाहारो देहो आहारो तस्स होइ आहारो । तव्विही जेण नज्जइ तं दसवेयालियं जयउ दुज्जयमयणविकारं जेउं जं परममंतसारिच्छं । पदमंतक्खरभरियं तं दसवेयालियं जयउ सिरिदसवेयालियं जयउ - विजयप्रद्युम्नसूरी 11211 ॥२॥ ॥३॥ ||४|| ॥५॥ ॥६॥ 11611 Page #88 -------------------------------------------------------------------------- ________________ काल पहावेण जया सुत्ताणन्नाण होइ विच्छेिओ। जेस्सइ तया जए जं तं दसवेयालियं जयउ ॥८॥ नियसुयमणगेण कयं सहियं अप्पायुणा वि दट्ठण । आणंदंसुजुओ जाओ सिज्जंभवो जयउ ॥९॥ ॥९॥ । जा ज वच्चइ रयणी न सा पडिनियत्तई। । । अहम्मं कुणमाणस्स अफला जंति राइओ॥ J (उत्तराध्ययनसूत्रम्-१८-२८) ७ ८१ ला Page #89 -------------------------------------------------------------------------- ________________ प्राकृताविभाग संवेगमंजरीकुलयं - मुनिकल्याणकीर्तिविजयः जाणतो अणुहवंतो वि य पावकम्माणं कडुअं विरसं च विवागं जीवो ताई निस्संकं आयरइ तं तु महंतं अच्छरियं ति कहेइपिच्छसि ताव सयं चिय निसुणेसि सत्थेसु पावकम्माणं । कडुअं विवागमायरसि तह वि रे! पावकम्माइं ॥११॥ अन्वयः रे (जीव ! तं) ताव सयं चिय पावकम्माणं कडुअं विवागं पिच्छसि सत्थेसु य निसुणसि, तह वि पावकम्माइं आयरसि? । भावार्थः रे जीव ! एत्थ संसारंमि जे जीवा हिंसाईणि पावकम्माई आयरंति ते तेसिं फलत्तणेण बंध-वधच्छेआईणि अवस्सं पावेंति, इइ तं धम्मसत्थेसु पढसि गुरुमुहाओ निसुणेसि य, तं तु कामं; किं तु सयमेव पिच्छसि जं एसो हिसं काउं विविहाइं दुक्खाइं पत्तो, एसो मुसं वयंतो लोए अवीससणिज्जो जाओ एसो य चोरियं काउं एरिसं दंडं पत्तो त्ति । तहा तं सयमवि कयाइ किंचि पावकम्मं आसेविऊण तस्स विरसं फलं अणुहवसि । तह वि रे निब्भीअ ! तं सव्वं भयं चइऊण पावकम्माइं आयरंतो न लज्जेसि तं तु महंतं अच्छेरं । ' एत्थ संसारे किर वेरग्गस्स कारणाई सव्वहा सुलहाई, तह वि जीवो न पडिबुज्झइ वेरग्गं च न पावेइ त्ति निदरिसइ कइया वि किंपि संपप्प कारणं जायइ जह विरागो । खणमेगं सो जइ तुह सया वि ता किं न पज्जतं? ॥१२॥ अन्वयः (जीव!) कइया वि किंपि कारणं संपप्प तुह जह एगं खणं विरागो जायइ, सो (विरागो) जइ सया वि (हवेज्ज) ता किं न पज्जत्तं? भावार्थः रे जीव ! इह भवे अकालमच्चु-रोगा-गिट्ठसंजोग-इट्ठवियोगाईणि वेरग्गस्स निमित्ताई पए पए लब्मति । अह कयाइ एयाइंदठु तुज्झ चित्तंमि खणमेत्तकालं पि वेरग्गस्सुब्भवो हवइ, जहा-एयं सव्वमणिच्चं खणियं असासयं च । न केणा वि अत्तणो कज्जं सिज्झइइच्चाई । किं तु खणद्धमत्तेण वि तं सव्वं पि वेरग्गं मेहजालं पवणेण व रागाइणा विणस्सइ तुज्झ चित्ताओ। ता एसो विरागो तुह चित्ते सया वि थिरीहवेज्ज-तं किं न पज्जत्तं? अस्सि N७ ८२ Page #90 -------------------------------------------------------------------------- ________________ च अद्वे तं किं ति पयत्तसीलो न हवसि? पावकम्मकरणे धम्मायरणे य जीवस्स चित्तवित्ती केरिसी हवइ तं दरिसेइविसविसमं पि हु पावं करेसि अमयं व हरिसिओऽणज्ज । अमयमहुरं पि धम्म मन्नसि लिंबाउ कडुअयरं ॥१३॥ अन्वयः (रे) अणज्ज ! (तं) विसविसमं पि हु पावं अमयं व हरिसिओ करेसि, अमयमहुरं पि धम्मं लिंबाउ कडुअयरं मन्नसि ॥ भावार्थः रे अणायारकरणे अणज्जसम ! तं इमस देहस्स अट्ठाए नियचिंतियस्स य पूरणाए हालाहलविसं पिव दारुणं पावं पि अमयं व सुमहुरं मन्नमाणो निभरत्तणेण करेसितत्थ कइया वि जीवाणं घायं करेसि, कइया वि माया-कवडाईसु जंजसि अप्पाणं, कयाइ तु अन्नेसिं धणहरणं करेसि, कइया वि अणायारे रमसि । इच्चाईणि अणेगपावाइं अत्तविणासणे विससारिच्छाणि वि तं अमयपाणं व मन्नंतो करेसि हरिसिओ य भवसि । अन्नपक्खंमि पुण अत्तविगासणे पीऊससरिसाइं मिट्ठ-महुराई वि धम्मकज्जाइं खमा-अहिंसा- सच्च-संयमदाण-तवाईणि लिंबाइ- कडुयपयत्थेहितो वि अहियकडुयाई अणिट्ठाइं च मन्नंतो नेव कयाइ आयरसि । पसभं आयरणे अ वाउलीहवसि । इच्चेयं अईव विम्हयकरं । विसयपसत्तं जीवस चित्तं कस्सेव किं कुणइ त्ति पयासेइविसएसु लोलुअंतुह चित्तं चित्तं कुलालचक्कं व । परिभममाणं दुग्गइ-दुहभंडे घडइ अखंडे ॥१४॥ अन्वयः (रे जीव !) विसएसु लोलुअं तुह चित्तं कुलालचक्कं व परिभममाणं अखंडे दुग्गइ-दुहभंडे घडइ (तं) चित्तं ।। भावार्थः रे विसयासत्त ! सद्द-रूव-गंध-रस-फासेसु विसएसु गाढत्तणेण अणुरत्तं तुह चित्तं कया वि थिरत्तणं न पावेइ । तं तु सया वि इट्ठा-णिढेसु विसएसु कुलालचक्कं पिव परिभमइ । जहा य कुलालो चक्कं भमाडिअण विविहाई घडाइभायणाई घडइ एवं तुह चित्तं पि अखंडपरिभमणेण दुग्गईए दुहसरूवे अखंडे भायणे घडइ । अह एयं नियचित्तसरूवं जाणंतो वि तं विसयेहितो तं न पडिनियत्तावेसि तं तु महंतं अच्छरियं ।। N७ ८३ - Page #91 -------------------------------------------------------------------------- ________________ पत्रम् -मुनिकल्याणकीर्तिविजयः सोत्थिसिरि चरमतित्थयरं समणभगवंतं सिरिमहावीरजिणेसरं चित्ते धरिऊण परमगुरुसिरिविजयणेमिसूरीसरं च वंदिऊण सधम्मलाहं लिहइ मुणिकल्लाणकित्ती - सिरिआणंद ! पुज्जगुरुभगवंताणं पवित्तनिस्साए अम्हे सव्वे वि ससुहा सज्जा य वट्टेमो । तुमं पि खेमजुत्तं संभावेमि। पुव्वपत्तंमि ण्हाणाइविसओ पण्हो उट्ठिओ आसी। अओ पढमं ण्हाणस्स चेव विभावणं करेमो। ___ धम्मसत्थेसु ण्हाणं दुविहं पण्णत्तं । तं जहा-दव्वण्हाणं भावण्हाणं च । अन्ने उण एअस्स चेव ण्हाणदुगस्स बाहिरं ण्हाणं अभिंतरं च ण्हाणं इइ नामंतरं कहेंति । तत्थ-जं तुब्भे जलाइयं गहिऊण सरीरस्स बाहिरपएसस्स सोहिं करेह तं दव्वं बाहिरं वा पहाणं कहीअइ । एएण ण्हाणेण सरीरस्स बाहिरो च्चिय पएसो सो वि य थोवकालमत्तं चिय सुईहवइ जओ अभिरं सरीरप्पएसं सोहिउं न जलस्स पहुत्तणमत्थि । तत्थ य पइखणं रुहिरवसाईणं मलस्स य निज्झरणं सया संचलइ । सो य मलो ते य रुहिर-वसाईया न जलेण सुईकाउं समत्था । तहा जलेण सुद्धीकओ वि बाहिरो पएसो पस्सेयाईहिं खणमेत्तेणं चिय असुईहवइ । तहा अस्सिं पहाणे जलकायजीवाणं वहो वि हवइ । अओ एअं दव्वण्हाणं वहजणियं पावं बंधावेइ। ___ तहा वि एअं पहाणं न सव्वहा निप्फलं पावजणयं च । जओ अं पहाणं काऊण तुब्भे गिहत्था जइ जिणेसराणं दव्वपूअं करेह, ताए य पूयाए भावस्स विसोहिं काउण सम्मत्ताइगुणज्जणं गुणवुड्डिं च करेह ता एअं ण्हाणं सोहणफलं पसाहेइ । अण्णहा पावकम्मजणयं MD ८४ er Page #92 -------------------------------------------------------------------------- ________________ तहा तुच्छं चिय मुणेयव्वं दव्वण्हाणं । तहा सुहचित्तस्स एगग्गयारूवेण झाणजलेण कम्ममलस्स सुद्धीए कारणं अत्तणो य परमनिम्मलयाजणयं ण्हाणं भावण्हाणं अभिंतरं वा पहाणं कहीअइ । हिंसाईदोसेहिं निवट्टियाणं सव्वेहिं सावज्जेहिं च विरयाणं मुणीणं तु एअंचिय परमत्थियं उत्तिमं च पहाणं ति भणंति परमरिसिणो सव्वण्णू भगवंता । एएण ण्हाणेण मुणिणो निययचित्तं विसोहिऊण कम्ममलं च पक्खालिऊण जिणेसराणं भावपूयं करेंति, ताए य पूयाए सव्वं कम्मलं पक्खालिऊण परमसुईभूया तेण कम्ममलेण पुणरवि न लिप्पंति । अओ ते चेव ण्हायगा इइ कहिज्जंति । अम्हाण साहूणं एअंचेव भावण्हाणं अहिगयं न उण दव्वण्हाणं । किंतु तुम्हे उण एअं भावण्हाणंपि काऊण निम्मलयं पाविऊण विसुद्ध होउं सव्वहा अरिहेह। अह पूयाए सरूवं किंचि विचारेमो । तत्थ वि पढमं दव्वपूया कहेयव्वा । सा य सत्थेसु विविहप्पयारेहिं वण्णिया अस्थि । तं जहा-दुप्पयारा, पंचप्पयारा, अठ्ठत्तरसयप्पयारा सव्वप्पयारा इच्चाई। किंतु एत्थ अट्ठप्पयाराए तहा अट्ठपुप्फियाए चेव सरूवं विभावेमो । तत्थ अट्ठप्पयारा पूया एवं हवइ-पढमा जलपूया, बिइआ चंदणपूया, तइया पुप्फपूया, चउत्थी धूवपूया, पंचमी दीवपूया, छट्ठी अक्खय(तण्डुल)पूया, सत्तमी नेवेज्ज(नैवेद्य)पूया अट्ठमी य फलपूया। एयाण नामेहिं चिय जाणिज्जइ एत्थ किं कायव्वंति । जहा जलपूयाए जिणेसराणं पडिमाए जलाभिसेओ, चंदणपूयाए चंदणस्स विलेवणं, पुप्फपूयाए पुप्फारोवणं, धूवपूयाए दीवपूयाए य धूव-दीव उक्खेवणं, अक्खयपूयाए अक्खएहिं तण्डुलेहिं जिणेसराणं पुरओ सोत्थियाईण आलेहणं, नेवेज्जपूयाए जिणेसराणं पुरओ नेवेज्जढोयणं तहा फलपूयाए फलढोयणं । __ अट्ठपुप्फियाए पूयाए उ अट्ठ सुयंधीणि पच्चग्गाइं च पुप्फाई गहिऊण जिणेसराणं पडिमाए आरोवियव्वाई हवंति । एत्थ अट्ठसद्दो जहन्नपयमहिकिच्च कहिओ अत्थि । जओ अहिगाण पुप्फाण आरोवणे अहिगो लाहो हवइ । अट्ठप्पयाराए अट्ठपुफियाए य पूयाए जा अट्ठ त्ति संखा गहिआ तत्थ एअं कारणं ७ ८५ era Page #93 -------------------------------------------------------------------------- ________________ अस्थि-सिरिजिणेसरभगवंता अट्ठविहाई कम्माई खविऊण अणंतनाणाई अट्ठ गुणे पयडीकाउं सिद्धिगई पत्ता । अओ अम्हे वि तेसिं पूया अट्टप्पयारेहिं अट्टपुप्फेहिं वा करिऊण ताई अम्माई खविडं समत्था हवेमो इइ एएण अत्थेण पूयाए अट्ठत्ति संखा गहिआ अत्थि । अहुणा भावपूयाए अवसरो । किंतु अज्ज मह समओ नत्थि । अओ अण्णंमि पत्तंमि तस्सरूवं जाणाविस्सं ति सं ॥ वन्निज्जई भिच्चगुणो न परुक्खं न य सुयस्स पच्चक्खं । महिलाए नोभया वि हु न नस्सए जेण माहप्पं ॥ } ( उवएसरयणकोस- १७) NO ८६ Ev Page #94 -------------------------------------------------------------------------- ________________ - Non - - प्राकृताविभाग सिरिअइमुत्तमुणिचरियं । - विजयभद्रसेनसूरिः कयाणेगणमक्कोऽवि नियं णिदंतो भावओ। ईरियावहियाए सिद्धो अइमुत्तो महामुणी ॥ १ ॥ पेढालणामे महाणयरे सिरिविजयाभिहो राया रज्जं करीअ । तस्स सुसीलसालिणी सिरिमई अभिहाए रायपत्ती आसी। दोण्णि अवि रंपई जिणधम्मे कुसला होत्था । दाणसील-तव-भावणा-पूजा-पहावणा-अमारिघोसणा सत्तक्खेत्तीए अप्पणिज्जधणवावाइयं पुण्णकज्जं कुणन्ति । अप्पसिरिसंजुआ जेऽवि दाणं कुणंति अणेगसो। . नियसत्तिं पयडीकिच्चा ते धण्णा दाणीणं णेया ॥ २ ॥ धम्मकज्जाइं कुणंताणं तेसिं दुण्हं एगो सुहलक्खणोवेओ पुत्तो अभू । तस्स पुत्तस्स जम्मोच्छवं काऊण राएण अइमुत्त त्ति नामं दिण्णं । कमेण सो वुड्ढिं पावतो अट्ठवरिसो जाओ। एगया समवयंसेहि सद्धि रच्छाए रमन्तो आसी । इओ गोअरचरियाए तत्थ वियरंतं सिरिगोयमसामि गणहरेंदं दइटु सो अइमुत्तकुमारो हिट्ठो संतो पणमिऊण भणीअ - हे भगवंत ! के तुम्ह ! केण कारणेण च एत्थ विहरेह ? तेहिं भणिअं - अम्हे समणा म्हो । सुद्धाहारं गवेसेउं विहरामो । अइमुत्तेण कहिअं - तो हे भयवं ! मज्ह गिहे समागच्छेह । 'मे जणणी तुम्हाणं सुद्धाहारं देस्सइ' इइ भणिऊण हत्थं गहिऊण सो गोयमसामि नियगेहे समाणीअवंतो। तस्स माआए वि भगवंतं सिरिगोयमसामि समागयं पेच्छिऊण अईव हिट्ठाए मोयगाइसुद्धाहारो तेसिं पडिलंभिओ। अह तओ पइणिवटतं सिरिगोयमसामि अणुगच्छिऊण अइमुत्तो भणीअ-भयवं-अहं भवारिसो होउं इच्छामि । तया गोयमेण भणिअं-भो अइमुत्त ! तुमं अज्ज वि बालो सि, जईण दिक्खा दुक्करा अस्थि । अओ तए वयपालणं सुदुक्करं संभाविज्जइ। " तव-किरियामणोगुत्ति-विणयादिसुकम्मेहिं चारित्तं दुक्करं बालत्तणे नज्जइ न इह संसओ।" तं सोच्चा अइमुत्तेण भणिअं-भयवं! णाहं बालो णूणं महव्वयडिवत्तीए तुम्ह सरिसो भविस्सं, अओ मं ७ ८७ ला Page #95 -------------------------------------------------------------------------- ________________ कहेह - तुम्हे कहिं वसित्था ? जहा अहं तुब्भेहिं सद्धिं तत्थ आगच्छेमि । सिरिगोयमेण भणिअं - मम आयरिया सिरिवीरजिणिंदा एत्थ उज्झाणे णिवसंति । अम्हे वि तेहिं सद्धि तत्थेव वसेमो । इइ सोच्चा सो बालो अइमुत्तो वि तेहिं सद्धिं सिरिवीरजिणालंकिए पुरस्स बाहिरे उज्जाणे समागओ । तत्थ आगमिउं गोयमजुत्तो अइमुत्तो जिणं नच्चा, धम्मं सोच्चा बुद्धो । गिहमागच्छिऊण अब्बवी पियरं । हे माआ ! हे पिअर ! अज्ज मए पुरस्स उज्झाणं गएण सिरिवीरपहुणो मुहकमलाओ धम्मसवणं कयं, अओ अहं एयाओ अइघोरसरूवाओ संसाराओ उव्वग्गो म्हि, तेणे मह दिक्खाए अणुमण्णेह । पिअरेहिं भणिअं - हे वच्छ ! तए कहं एवं भणिज्जइ । तुमं एगो च्चिअ अम्हाणं पुत्तो सि, अस्स रज्जस्स आलंबणो भविस्ससि । एहिं तु अम्हाणमेव दिक्खाग्गहणावसरो अत्थि । तं तु एहि बालो सि, भागवई दिक्खा य सुदुक्करा विज्जए । एयं सोच्चा अइमुत्तओ भणीअ- भो पिअरे ! केण जाणिज्जइ को वुड्ढो ? को लहू ? संसारे सव्वं वि अणिच्चं च्चिअ संभाविज्जइ । को कस्स पुत्तो अत्थि ! संसारम्मि भमंताणं जीवाणं बहवो संबंधा बहूसु भवेसु हविआ सन्ति । परंण को वि कस्सावि सरणं । ओ - माया पिअरो भाया भज्जा पुत्ता य मित्तधणणिवहा । न य सरणं संसारे जीवाणं मोत्तुं जिणवयणं ॥१॥ जो पिया सो हु पुत्तो सिआ जो पुत्तो सा पिआ भवे । जो पिआ सो भवे माया जा माया सो सुओ भवे ॥२॥ एवं भवे भवेऽग-संबंधा कम्मजोगओ । जम्मं देहीणं तेण को पुत्तो को पिओ कहिज्जह ||३|| किंच - संसारंमि असारे नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो न कुणइ जिणदेसियं धम्मं ॥४॥ एवं माआपिअरे अणुजाणिउं सो अइमुत्तकुमारो महोच्छवपुव्वयं सिरिगोयमसामिहत्थेण पव्वज्जं गहीअ । एवं सिरिगोयमसामिणा आदिट्टं चारित्तकिच्चं कुणंतो हिट्ठमणो संतो सो अमुत्तमणी 9 ८८ Page #96 -------------------------------------------------------------------------- ________________ सुद्धं संजमं आराहइ। ____ अह एगया गोअरचरियाए एगम्मि गामम्मि भमंतो सो अइमुत्तओ मुणी एगाए वुड्ढाए हसंतीए भणिओ - रे खुड्डगमुणे ! किं तुमए अकाले च्चिअ उच्छूरो कओ? किं णच्चा तुमए एयम्मि बालत्तणच्चिअ चारित्तं गहीअं? एवं अउव्ववाणीए निअहिअयम्मि अईव अच्छरिअं पत्तो सो खुइडगो अइमुत्तमुणी भणीअ - "जं जाणामि तं न जाणामि" एयं सोच्चा विलक्खीभूयाए अच्छरिअं च पत्ताए ताए वुड्ढाए तेण मुणिणा भणिअस्स भावत्थमजाणंतीए भणियं - रे खड्डगमुणे ! तुमए किं भणिअं? अहं तए भणिअस्स वयणस्स अत्थं जाणिउं असमत्था म्हि । तया सो रवडगो वि निअकहिअस्स वयणस्स अत्थं अब्बवी - रे वुड्ढे! वयग्गहणे सकाले बालत्तणे वि को उच्छूरं कुज्जा? | जंजाणामि तं मरणं कस्सि पि वरिसे अवस्सं भविस्सइ त्ति, इइ मए संसारदुहमुत्तीए सकालेऽवि बालत्तेण वयं गहिअं अत्थि । उच्छूरो तु सो कालो तया एव जाणिज्जइ जया नाणं हवइ । तं नाणं तु मम अज्झ वि पत्तं नत्थि । इअ मया भणिअस्स वयणस्स रहस्सं णेयं । तं पच्चुत्तरं सोच्चा अच्छारिअं पत्ताए ताएं वुड्ढाए हिअअम्मि चिंतिअं। अहो एएण खुड्डगेण मुणिणा सव्वमेव भणिअं। इइ विचिंतिऊण ताए साविगाए तस्स अइमुत्तमुणिणो समीवे हासकयस्स अवराहस्स खमाजायणपुव्वयं सम्मत्तमूलाई बारह सड्ढवयाई अंगीकयाइं । अइमुत्तो खुड्डगो वि सुद्धान्नपाणं गवेसिऊण धम्मसालाए गओ। __ अह एगया सो खुड्डगो कईहिं मुणीहिं सद्धि देहचिंतत्थं बाहिरं भूमीए गओ । तत्थ वरिसाकालत्तणेण लहुगड्डाइँ जलपुण्णाणि अभविसु । तेसु जलपुण्णगड्डेसु नगरस्स बाला नियनियपत्तपवहणाणि तारेन्ता अरमिंसु । एवं रमन्ते ते बाले दट्ठण सो अइमुत्तमुणिवरो वि नियबालचावल्लसहावओ सकीयकट्ठपत्तं तेसु गड्डेसुं तारन्तो तेहि बालेहिं सह कीलं काउं पवत्तो । पच्छा बोल्लिअंच रे बाला ! पासह पासह ममावि इमा नावा जले तरेइ ! एवं बालेहिं सह कीलन्तं तं मुणि दट्ठण ते थेरमुणिणो तं निवारिऊण तेण सह उवस्सये समागया। तओ संझाए आवस्सयं काउं अइमुत्तुसंजुत्ता ते सव्वेवि मुणिणो सिरिमहावीरपहुणो समीवे समागया । तत्थ च पहुं पयाहिणं किच्चा पणमिऊण य सव्वे ते मुणी तं अइमुत्तखुड्डगं पुरओ काऊण पहुं विण्णाविंसु । भयवं! इमो अइमुत्तो सिसुत्तणाओ दिक्खाए अणरिहो संभाविज्जइ, इअ ७ ८९ er Page #97 -------------------------------------------------------------------------- ________________ भणिऊण तेहिं दिटुं तस्स बालचेट्ठिअं पहुणो भणिअं । तं सोच्चा केवलनाणणायसव्वचराचरसरूवेण भगवया भणियं - रे मुणिणो ! एअस्स बालस्स वि खड्डगमुणिणो आसायणं मा कुणह तुब्भे । संपइ च्चिअ एसो केवलनाणं लहिस्सइ । एयं सुणिऊण ते गोयमाईणो सव्वे मुणिणो विम्हयं पत्ता । इह सो अइमुत्तखुड्डगमुणी वि समोसरणे जगगुरुणो पुरओ सुहवासणाए पायच्छित्तरूवं ईरियावहियं पडिक्कमन्तो "दगमट्टि" ति सदं उच्चारतो पुढवीकाय-आउक्कायादिजीवे खमावन्तो तया च्चिअ केवलनाणं लहीअ । तया गोयमाइमुणिवग्गेसु अच्छेरं पत्तेसु देवा तस्स खुड्डगकेवलिणो महोच्छवं अकारिंसु । जओ - पणिहणंति खणःण सम्ममालंबिऊण कम्मं तं । जं हणेउ न सक्कइ नरो तिव्वतवसा जम्मकोडिहिं । अह सो केवलनाणालंकिओ नववरिसो खुड्डगो अइमुत्तमुणी पुहवीए विहरन्तो भव्वजीवे पडिबोहेंतो पइदेसं पइनयरं पइगामं च जणगणे विम्हावीअ। एवं विहरमाणो सो अइमुत्तकेवली एगया सुज्जपुरस्स बाहिं उज्झाणे समवसरिओ । तत्थ जिअसत्तुणामो निवई अणेगणरणारीगणोवेओ तं केवलिं वंदिउं समागओ। केवलिणो पयाहिणं किच्चा तईयधम्मदेसणं सुणिउं च सो अग्गे समुवविट्ठो । सव्वे णरणारीगणा वि जहाठाणं तत्थ समुवविट्ठा । अइमुत्तकेवलिणा वि धम्मदेसणा पारद्धा । तं जहा - आउं वाउचलं सुरेसरधणुलोल बलं जोव्वणं विज्जुदंडतुलं धणं गिरिनईकल्लोलमिवाथिरं । जाव सत्थमिमं कलेवरगिहं जाव य दूरे जरा ताव धम्मफलत्तिए जणगणेहिं कज्जो पयत्तो सुहो ।। एवंविहं केवलिणो धम्मदेसणं सोच्चा पडिबोहिओ जिअसत्तुराया सम्मत्तमूलाइं बारह सावगवयाइं गहीअ। अण्णे वि बहवो लोगा भद्दगभावजुआ सम्मत्तं पत्ता । एवं कइपयकालं विहरिऊण सो अइमुत्तकेवली अंते मोक्खं गओ। (श्रीशुभशीलगणीभिर्विरचितस्य संस्कृतचरित्रस्याऽनुवादोऽयम् ।) ७ ९० er Page #98 -------------------------------------------------------------------------- ________________