________________
maasumme
(॥ श्रीमद्बाहुबलिस्तवः ॥
एम्. के. नअण्डस्वामी
प्रसन्न-मुखमुद्राय नमस्ते धीरचेतसे । नमस्तेऽद्भुतगात्राय नमो बाहुबले नमः ।।
शुभ्राभ्रपरिवीतस्त्वं उच्छिरा धीरलोचनः ।। पश्यन् लोकानशेषांश्च विनीतान् कुरुषे ननु ।।
वर्णयन्ति रसेन त्वां स्थाने खण्डान्तरागताः । जगत् स्निहति भव्येऽर्थे निवृत्तासूयमूर्जिते ।।
इयती मूर्तिरेषेत्थं जनानामभिधास्यताम् । लौकिकीयं स्मृता वाणी नेयत्ता महितस्य ते ।।
इदं तव मुखे तेज: इयं चाऽपि प्रसन्नता । अनुग्रहवती दृष्टिरियं चाऽन्यत्र दुर्लभम् ।।
उन्नतोऽपि विवस्त्रोऽपि महाकायोऽप्यभूषणः । पश्यतां सुन्दरो बाल इव धन्य, विराजसे ।।
आत्मगौरवरक्षार्थं जित्वाऽपि भ्रातरं पुन: । तस्मायेवोपदीकृत्य विजयं भ्राजसे भृशम् ।।
अहङ्कारस्य जनकौ शौर्यत्यागौ कदाचन । तद्वांस्त्वं प्रश्रयाधिक्यात् गुणात् गुणमवर्धयः ।।
७
२
ehe
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org