________________
श्रीशङ्केश्वरपार्श्वनाथजिन-गीतिका ॥
(यमनकल्याण-रागण गीयते)
वन्दे शङ्केश्वरजिनचन्द्रं वन्देडहं गतपातकतन्द्र...
अम्लानं यद्वदनकमलमिह, राजति नित्योन्निद्रम्। सुरभितधर्मपरागप्रकटने, यदहर्निशमदरिद्रम्
कठिनकर्मकाष्ठानि विदग्धु, वह्निसदृशमतिरुद्रम्। द्विष्टजनेष्वपि शिष्टजनेष्विव, त्वां कारुण्यसमुद्रम् .....२
सुप्रसन्नमधुरा तव दृष्टि-र्विदधात्विह मम भद्रम् । वितर वितर हे जिनवर ! मां, गुणनिधानमुन्मुद्रम् .....३
- विजयशीलचन्द्रसूरिः
ccce0000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org