SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ न जाता, परं तत्र महती गर्ता दृष्टा, अतः शीघ्रं स्तूपः कारितः । पश्चाद् गुरुपादुकासमलङ्कृता देवकुलिका निर्मापिता । आश्चर्यं खलु एतद्-देवकुलिकारचनापूर्वमपि आणंदग्रामसमीपवर्तिनः वल्लभविद्यानगरात् कश्चित् प्राकृतभाषावित् प्राध्यापकः पुनः पुनः तत्र आयाति । स प्राध्यापकः 'गउडवहो' प्रभृतिप्राकृतग्रन्थानां पठनं करोति, कारयति च । यदा च ग्रन्थार्थो यथार्थो न बुध्यते । तदा मनसि मुह्यति, किं कार्यमधुना ? । परमेकदा समाचारपत्रे पठितं स्मरणागतम्, सोजित्रायां प्राकृतभाषाविशारदा जैनाचार्याः श्रीविजयकस्तूरसूरिणः स्वर्गं गताः । अतः स शीघ्रं सोजित्रां समागतः, अग्निसंस्कारस्थलं च गत्वा अदृष्टपूर्वाणां पूज्यानां मौनपूर्वकं ध्यानं स्मरणं च करोति, निजनगरं समागत्य ग्रन्थमवलोकयति, सर्वश्च अर्थो बुध्यते, परमो हर्षश्च भवति । एवं च वारंवारं स तत्रागत्य प्रश्नानां समाधानं कृतवान् । अग्निसंस्कारभूमेरपि कीदृशो महिमा । प्रान्ते-उपकारं मन्ये, परमपूज्याचार्य श्रीविजयसूर्योदयसूरीश्वराणां पूज्याचार्यश्रीविजयशीलचन्द्रसूरीश्वराणां श्रीकीर्तित्रस्याश्च येषां हृदयपूर्विकां विज्ञप्ति स्वीकृत्य परमपूज्याचार्यमहाराजैः श्रीविजयचन्द्रोदयसूरीश्वरैः प्रोत्साहित: परमपूज्यगुरुवर्यैः आचार्यश्रीविजयअशोकचन्द्रसूरीश्वरैः च लब्धाशीर्वादोऽहं गुणमहोदधीनां पूज्यप्रवराणां गुणलेशोत्कीर्तनं कृतवान् । यदि प्रस्तावोऽयं न सम्भाव्येत तर्हि लेखनमपि एतत् कथं स्यात् ? तथा च गुरुगणसंस्मरणमपि न भवेत् । पूज्यगुरुवरा न प्रत्यक्षा इति न स्वीकार्यम्, अद्यापि ते प्रत्यक्षा एव तेषां गुणगणा अपि दृष्टिसमक्षा एव तेषां गुणसमूहात् स्तोको वा गुणो निजजीवने समागच्छेत् तर्हि गुणोत्कीर्तनमेतत् सफलं स्याद् इत्याशासे ॥ विजयकस्तूरसूरिजन्मशताब्दीवर्षे वि.सं. २०५६ आषाढे शुदि पूर्णिमायाम् (गुरुपूर्णिमा) मुम्बापुरी- मलाड देवकरण-मूलजीजैनोपाश्रये । Jain Education International २५ Cle विजयचन्द्रोदयसूरिगुरुबन्धुविजयअशोकचन्द्रसूरिचरणकिङ्करः सोमचन्द्रविजयः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy