SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पण्डितवर्य श्रीछबीलदाससंघवीमहोदयान् संस्मरन्ति स्म तेऽपि आयाताः । प्रतिक्रमणसंस्तारकपोरिसीप्रभृतिका आवश्यकक्रिया कारिता । काञ्चित् स्वस्थतामपि अलभन्त । नित्यक्रमतो जापं स्वाध्यायं च कृत्वा स्वयम् अशेरत, शिष्यपरिवारः सङ्घश्च सावधान: सन् नमस्कारमहामन्त्रादिकं श्रावयन्ति स्म । निशाया अन्तिमे प्रहरे पुनः तीव्रा हृदयवेदना समुत्पन्ना श्रीनमस्कारमहान्त्रं स्वयं गणयन्तः पूज्याः हस्तसन्ध्यानभोनेत्रमिते (२०३२) वर्षे वैशाखे कृष्णचतुर्दश्यां क्षणद्वयाधिके चतुर्वादने अस्माकं दौर्भाग्येन कालधर्मं प्राप्ताः । परमगुरुभक्ता आचार्यश्रीविजयचन्द्रोदयसूरिणस्तु मूर्छा प्राप्ताः अन्ये सर्वेऽपि शून्यमनस्काः, किंकर्तव्यमूढाश्च जाताः । , पुण्यपुरुषाणाम् अग्निसंस्कारो निजनिजग्रामेषु भवेदिति स्थम्मतीर्थ-पेटलादबोरसदादिसङ्घानां श्रावका अत्याग्रहं कृतवन्तः, पर शिष्यैः सोजित्रासङ्घेन च उद्घोषितम् पूज्याः स्वयमागत्य अत्र कालधर्मं प्राप्ताः, अतोऽत्रैव पुण्यभूमौ अग्निसंस्कारो भवितव्यः सर्वे च तं निर्णयं स्वीचक्रुः । ग्रामाद् बहिः पुण्यक्षेत्रे केषाञ्चिद् महापुरुषणां समाधयः आसन्, तत्रैव पूज्यानाम् अग्निसंस्कारं कर्तुं निश्चयो जातः । सोजित्राग्रामवासिनः अष्टादशज्ञातिमन्तः सर्वे शोकमग्ना जाता: । हट्टिकाद्वारमपि नोद्धाटितवन्तः, श्मशानयात्रायां च मिलिताः, अन्येऽपि सहस्रशः श्रावकाः राजनगर - भावनगर - खंभात- पेटलाद-बोरसदसुरत- मुम्बापुरीप्रभृतिनगरतः समागताः । विजयमुहूर्ते स्थम्भतीर्थादागतायां मयूरमुखशिबिकायां पूज्यानां विनश्चरदेहं संस्थाप्य 'जय जय नन्दा', 'जय जय भद्द' इति घोषणापूर्विका श्मशानयात्रा चलिता । सम्पूर्णं ग्रामं भ्रमित्वा चतुर्वादनकाले पुण्यभूमौ समागता । चन्दनबहुलायां चितायां शिबिका संस्थापिता । साश्रुलोचनैः पूज्यानां संसारिभ्रातृजैः बन्धुपुत्री - जामातृभि:, तथा चान्यैः चितायाम् अग्निः प्रज्वालितः । समयान्तरे ज्वलज्ज्वालायां पूज्यानां संयमपूतो विनश्वरो देहः पञ्चभूतेषु विलीनः । स्वयं तु प्रसन्नमुद्रया स्वर्गलोकं जग्मुः, परम् अत्र शिष्याः सर्वे श्रावकाश्च पूज्यगुरुवराणां सान्निध्यरहिताः समजायन्त । अहो ! धन्यस्तेषामवतारः (जन्म), ये संसारे सर्वादर्शस्वरूपाः । अहो ! धन्यः स शिष्यपरिवारः, यस्यैतादृशा महापुरुषा गुरुवराः ॥ अग्निसंस्कारस्थले श्रद्धालुजनैः संयमपूतानां पूज्यानां सर्वं भस्म गृहीतम्, तदनु तत्स्थलीया मृत्तिकापि गृहीता । अतो द्वितीयेऽह्नि प्रातः तत्र गमने अग्निसंस्कारभूमेरुपलब्धिः NO २४ Cle Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy