SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ (७) कः खलु केन जीवति ? - मुनिकल्याणकीर्तिविजयः पुरा किलैकस्मिन् नगरे चत्वारः सुहृदोऽवसन् । एको राजपुत्रः, अन्यो मन्त्रिपुत्रः, अपरः श्रेष्ठिपुत्रः, इतरश्च सार्थवाहपुत्रः । ते चत्वारोऽपि सर्वदा सहिता एव रमन्ते पठन्ति भ्रमन्ति खादन्ति च। अथैकदा तैश्चिन्तितम्- 'वयं देशाटनं कुर्मः, तेन च नवनवान् अनुभवान् कुर्वाणा: विविधान् प्रदेशांश्च पश्यन्तो ज्ञानवृद्धिं कुर्महे ।' तदैकेन कथितं- 'किन्तु अस्माकं पितरौ देशाटनाय नोऽनुमतिं नैव दधुः । अतो वयं तावनापृच्छ्यैव इतो निर्गच्छामः ।' सर्वेऽपि 'बाढम्' इत्युकत्वा तस्यामेव निशि नगरान्निर्गताः । ततश्च ते सर्वत्र भ्राम भ्राममनेकेषु ग्रामनगरादिष्वनेकान् कुतूहलान् विलोकयन्तोऽन्यदैकं विशालं नगरं प्राप्ताः । नगरस्य बहिरेकं रमणीयमुद्यानमासीत्। चत्वारोऽपि सुहृदः तत्रैवोद्याने स्वादूनि फलान्यास्वाद्य वाप्याश्च निर्मलशीतलं जलं पीत्वा विश्रामार्थमेकस्मिन् लतामण्डपे उपविष्टाः ।। तदा राजपुत्रेण कथितं- 'भो वयस्याः ! कतिपयदिनेभ्यो मम मनस्येका जिज्ञासा उत्पन्नाऽस्ति । कथयेयं वा? वयस्या उचुः अवश्यं कथय भोः ! कोऽत्र प्रश्नावकाशः? तेनोक्तं- अस्मत् चतुर्थ्य: 'कः खलु केन जीवति ?' इति ज्ञातुमिच्छाम्यहम् । कोऽर्थः ? किं विवक्षति भवान् ? इति मित्राण्यपृच्छन् । सोऽवोचत्, अयमर्थः, वयं किल निजां आजीविका केन उपायेनाऽर्जयामः खलु ? इति । वद सार्थवाहज ! त्वं केन जीवसि? तेनोक्तं- अहं दाक्ष्येण जीवामि । श्रेष्ठिपुत्र ! त्वं केन जीवसि ? इति कुमारेण पुष्टे तेनाऽप्युक्तं अहं रूपेण जीवामि । 9 ६८ 6 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy