________________
एवं प्रमाणीकरिष्यन्ति, ततः....एवं वदन् नगरश्रेष्ठी एवाऽऽद्य ततो निर्गतः । तत्पश्चात् सर्वे जनाः शनैः शनैः निर्गता अभवन् ।
प्रान्तेऽङ्गगतं मित्रं कम्मरअली एव तत्र स्थितः । स चिन्तयति यत्, शवं निराधारं विमुच्य सर्वेऽपि नगरजनाः स्वकीयगृहे गतवन्तः । अधुना त्वत्र नास्ति कोऽपि । ततो यद्यारक्षका आगच्छेयुः तहि ते मामेव बन्दीकरिष्यन्ति । प्रमाणीभविष्याम्यहमेवाऽपराधीस्वरूपेण; अतोऽहं किं करोमि ? किं शवं विमुच्याऽहमपि नश्येयम् ?
नहि, नैतदुचितम् । हक्कस्तु मे परमं मित्रमासीत् । आसीत् सुखदुःखयोः सहभागी । तथा दुःखिजनानां साहाय्यं करणीयम्, एतदेव परमो धर्मोऽस्ति । एवं विचार्य कियत्कालं स तत्रैवाऽतिष्ठत् । ___ पुनस्तन्मानसे एको विचार उद्भूतो यद्, आरक्षका न विश्वसनीयाः केन कृता हत्या हक्कस्य, एतत्तु न जानाति कोऽपि । तथापि न कदापि क्षमिष्यति हक्कस्य घातुकमल्लाहः । एवं मनस्येव चिन्तयित्वा स अपि ततो निर्गत्य द्रुतं स्वस्थानं प्रति गतवान् ।
इदानीं केवलं हक्कस्य शब एव तत्राऽस्थात् ।
तदैव हक्कस्तत्रस्थानादुदतिष्ठत् । समीपस्थतडागस्य जलेन हस्तौ मुखं च प्रक्षाल्य चचाल।
जीवनस्य कर्माष्टकम्
-साध्वीश्रीयुगन्धराश्री ज्ञानचन्द्रनामको जनः प्रतिदिनं दर्शनाय गच्छति । एकदा मार्गे गच्छतः तस्योदरे वेदना जाता । तदा तस्य सन्मुखं मोहनमहोदय आगतः । स ज्ञानचन्द्रमपृच्छत्, यत्कथं पीडितो दृश्यसे? तस्मै उवाच ज्ञानचन्द्रः-अधुना मम स्वल्पमपि आयुः नाऽवशिष्टमिति चिन्तया । मोहनमहोदयः तमकथयत्, ईदृशं न वक्तव्यम्, भगवतो नामस्मरणं कुरु, गोत्रदेवस्य स्मरणं कुरु, तत्प्रभावेण तव सर्वेऽपि अन्तराया: विनश्यन्ति ।
19 ६७ ene
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org