________________
-
-
अतिव्याकुलोऽभवत् ।
क्षणेन स्वस्थीभूतः कम्मरअली आह-भो ! भो ! किं युष्माभिराक्षकगृहे एष वृत्तान्तो ज्ञापितो न वा? __ अकथयन् सर्वे जना अन्योन्यं मुखं वीक्षमाणाः, नहि, नहि, अस्माभिः सर्वैः विस्मृतमेवैतत्तु ।
तदैव ग्रामणीरुवाच-अरे ! करशन ! आरक्षकगृहं गत्वाऽधुनैवैतमुदन्तं ज्ञापय ।
श्रेष्ठिना प्रोक्तं - क्षणं तिष्ठन्तु, विचारयन्तु । अत्राऽऽगत्याऽऽरक्षकाः किं करिष्यन्ति, तद् यूयं जानीथ? आगत्य युष्मानेव प्रक्ष्यन्ति ते तु, यद् एतं को ममार। तदा किं प्रत्युत्तरं दास्यथ यूयम्?
ग्रामणीराह-श्रेष्ठिन् ! कथं त्वं मुह्यसि ?, अस्माकं सर्वेषामेषैव जिज्ञासाऽस्ति, केन मारितो निरपराधी हक्क एषः ।
श्रेष्ठी आह-ग्रामणि ! त्वं पुनः पुनः विचारय । एतावन्मात्रेणैकेनैव प्रश्नेनैतत्कार्यं न समाप्तं भवेत् । अन्यानपि प्रश्नान् प्रक्ष्यन्ति । शवं केन केन दृष्टम् । कियत्कालात् शवमत्र पतितम् । तदा कः क आसीत् । एवं नैकाः प्रश्ना उद्भविष्यन्ति, तत आरक्षकगृहे नैष वृत्तान्तो ज्ञापनीयः; एतदैवोचितम् ।
श्रुत्वैतत् श्रेष्ठिवचनं सर्वैः कथितम्- हा,हा, एतत्तु सत्यमेव, ते आरक्षकास्तु निर्दयाः सन्ति । तत: कमपि निरपराधिनं बन्दीकृत्य ताडयिष्यन्ति, तथैतादृशमतीव कष्टं सहित्वाऽपि तेभ्यः पुष्कलं धनं प्रदास्यन्ति, अतोऽलमारक्षकैः । अधुना तु निराधारस्याऽस्य हक्कस्याऽन्त्यक्रिया करणीया।
एतां वाचं निशम्यैकेन प्रोक्तम्-कथ्यते एषा तु हत्या, अस्य शवस्य हस्तस्पर्शोऽपि प्रोच्यतेऽपराधः । आरक्षका: कारागारेऽस्मानेव बन्दीकृत्य पूरयिष्यन्ति ततोऽस्य.. ___अभवन् स्तब्धीभूतास्सर्वे नागरिकाः । तेभ्यो न कोऽपि शवस्याऽस्य स्पर्शमपि कर्तुमुद्यम्यभवत् । अस्तङ्गता सहानुभूतिं दर्शयतां सर्वेषां जनानां क्षणमात्रेणैव दया । सर्वेऽप्यभवन् किंकर्तव्यमूढाः । न विश्वसनीया आरक्षकाः । ते तु येन केन प्रकारेण यं कमपि गृहीत्वैतेनैव हत्या कृता,
७ ६६ -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org