________________
एकदा कस्यचिदारक्षकस्य वस्त्राणि धृतानि, चर्मणः कटिबन्धः (बेल्टः) गृहीतः, मस्तके शिरस्त्राणं परिधृतं, हस्ते दण्डं गृहीतं, अजायाः केशैः श्मश्रु कृतम् । पश्चात् हस्तदण्डमू/कुर्वन् नगरश्रेष्ठिन आपणं गत्वोच्चैरकथयत्, रे श्रेष्ठिन् ! उत्तिष्ठ ! उत्तिष्ठ ! मया दृष्टा दृष्टा तव प्रामाणिकता, अधुनैव मया सहाऽऽरक्षकस्थानं प्रति चल।
श्रेष्ठी तु भीतः । देहः कम्पितोऽभूत्, वदनमपि निस्तेजं भूतम् । अरे ! अरे ! मम कः....कः....अ...प...रा...ध:..., म..या..किं....किं....पा...पं...कृ...तम्...एवं दीनस्वरेण वदतः श्रेष्ठिनो मुखं संलक्ष्य हक्को जहास । स ज्ञातः श्रेष्ठिना; त्वरितमेव हस्ते दण्डं गृहीत्वा ताडयितुं तं प्रति धावितः। रे दुष्ट ! मम भापयितुं...। तावत्कालेन तु हक्कोऽन्यत्र गतवान् । ___ एवमीदृशानि नैकानि कुतूहलान्याचरितानि तेन । कदाचिदाभीरस्य, कदाचिदारक्षकस्य, कदाचिद् भिक्षुकस्य, कदाचित् श्रेष्ठिनः, कदाचिद् रामस्य, कदाचिद् हनुमतः कदाचित् शङ्करस्य, कदाचित् लकेशस्य, कदाचित् स्त्रियः वेषो धृतः, एवं भिन्न भिन्नं वेषं धृत्वा जनानां प्रमोदमचीकरत् ।
एवं तत्रस्थितैः सर्वैः जनैः तस्य हक्कस्य समस्तमपि जीवनं स्मृतिपटे आनीतम्। सर्वैः कथितं-यत्, तेन हक्केन स्वकीये जीवने कदापि कस्यापि न दुष्कार्यं कृतम्, केनाऽपि सह न वैरभावो बद्धः, तथाऽपि केन दुष्टेनैष निरपराधी हक्को मारितः ? एवं वदतां सर्वेषां नयनेभ्योऽश्रूण्यझरन्।
(३)
तदैव तत्राऽऽगतः 'कम्मरअली'नामको जनः । स आह- किमेतद् श्रृणोम्यहं, किमेतद् सत्यम् ? । नहि, नहि, कदापि न संभवेत्, यतस्स हक्कस्तु द्वादशवादने एव ममाऽऽपणे आगतः, वार्ताऽपि कृता मया सह, किञ्चिद्वस्तु गृहीत्वा गतः । अधुना...अधुना...एतद् किं...अहं पश्यामि । एवं वदन् स उच्चैः रुरोद । सहसैवाऽऽघातवशेन भूमितले पतितः ।
आसीत् हक्कः 'कम्मरअली त्यस्य मित्रम् । दिनपर्यन्तं तदापणे एव उपविशन्नासीत् हक्कः । आस्तां परस्परं सुखदुःखयोः सहभागिनौ तौ । तत एवाऽनया घटनया स कम्मरअली
७ ६५ en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org