SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तहि क्षमयामि। 'अभिवादनम् । अधुना किं दीर्घनिद्रां वाञ्छसि पृथिव्यां वा पुनर्गन्तुमिच्छसि?' 'किम्? पुनः पृथिव्याम् ?' 'आम् वत्स ! तत्शक्यम् । पृथिव्यां यदा जागरिष्यसि तदा शीतेन पीडितो भविष्यसि किन्तु जीविष्यसि । कथय किं रोचसे, दीर्घनिद्रां जीवनं वा? काष्ठहारकः मनसि आलोचितवान् - 'अतः परं भगवान् एव सर्वं करिष्यति ।' 'यदि भवान् प्रसन्नस्तहिं गृहगमनमेव काळे' - स उवाच । 'शोभनम् ! तदप्यनुभव' - ईश्वरोऽवदत् । 'एनं पुनर्नयतु' भगवता साधुरुक्तः । पश्चात् कक्षान्तरं प्रविश्य द्वारं पिहितवान् । काष्ठहारकः सोऽरण्ये जागृतोऽभवत् । ताण्डवं तु तदा शान्तं जातम् । सूर्यस्तु मन्दं प्रकाशते स्माऽऽकाशे । तत उत्थाय गृहं प्रति धावितवान् । स्वयं जीवति इति आनन्दित आसीत् सः । गृहस्य जीर्णद्वारं लीलयैवोद्घाटितम् । यदनुभूतं तत् कथयितुं यावद् वचनमुच्चारितं तावत् पत्नी तं ताडितवती। ‘कियान् विलम्बः कृतः त्वया?' - सा उक्तवती । काष्ठहारको भूमावपतत् । व्योम प्रति करुणदृष्टिं कृत्वा पाश्र्वं परावृत्त्य च मन्दमवदत् - 'हे भगवन् !!!' [क्रिस्टोफर-लीच-इत्यनेन आङ्ग्लभाषायां लिखिताया मूलशङ्कर-भट्ट-इत्यनेन च गूर्जरभाषा- यामनूदिताया 'हे भगवान!' इति कथाया अनुवाद एषः ।] । सर्वं शोभते समयोचितम्।। " हैमवचनामृतम् " 19 ५४ en Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy