________________
-
"किमुदितम् ?'
सोऽकथयत् - 'नाऽहं ग्रहीष्याम्येष भारः । नैतादृशो दण्डो भवता कर्तव्यः । एष नोचितः ।'
ईश्वरः, साधुर्देवदूताश्च सर्वे एनं वामनं दरिद्रं मनुष्यं तस्य च कठोरं भावशून्यं च मुखमनिमेषनयनैर्निरीक्षितुं लग्नाः । अद्यपर्यन्तं न केनाऽपि दण्डकाले स्वीकृतिर्दर्शिता । __ ईश्वर: समगीरत - ' आदेशमनुसृत्य त्वया कर्तव्यमेव' ।
'नहि' - क्रोधावेशेन दग्ध इव स अन्यायं दृष्ट्वा कम्पित इवाऽभूत् । 'शृणोतु मे कथनम्, भगवन् ! न मम कथनेन भवता जन्मैतत् प्रदत्तम् । अपरं च, अस्मिन् जीवितव्ये भवता किं प्रशस्यं मह्यमर्पितम् ? यस्या मुखमपि मया न निरीक्षितं तादृशी जननीमहं प्राप्तवान् । येन सदाऽहमुपेक्षितस्तादृशः पिता मया लब्धः । शीतकालेनोष्णकालेन च कदर्थितोऽस्मि । हस्तावपि मे कर्कशौ जातौ । अङ्गलीभ्योऽपि शोणितं प्रवहति । सदाऽवमानयन्त्या पत्न्या सह लघीयसि गृहे मे वसतिरस्ति स्म । किं कदाऽपि ज्ञातो भवता ममोदन्त: ? क्वचिदागतोऽपि किं भवान् मत्सहायार्थम् ? मह्यं जन्म दत्त्वा भवान् मुक्त इवाऽभवत् । अधिकधनलाभार्थं मया विप्रतारणं कृतम् । बहुशो जाता मृत्योरिच्छा मम । मृतोऽप्यहं किं प्राप्तवान् ? भवता प्रदत्त एष कठोरः दण्डः । समग्रं जीवनमेव मे दण्डस्वरूपमासीत् । अधुना नाऽहमेनं दण्डं स्वीकरिष्ये' ।
कक्षमध्ये काष्ठहारकस्य शब्दा प्रतिध्वनिताः । पश्चात् स्वल्पेनैव कालेन उपशान्तकोपः स सञ्जातः । भयभीत इवाबभूव । तेन दृष्टं यद् -ईश्वरो रोदिति । आश्चर्यमनुभवान् सः । ईश्वरस्य शरीरं रोदनात् कम्पते स्म । पश्चाच्च साधुर्दूताश्चाऽपि रोदितुं लग्नाः ?
भगवता च काष्ठहारकस्य स्कन्धोपरि हस्तं प्रसार्य कथितम् 'अत्यन्तं दुःखितोऽस्मि । बहुषु कार्येषु व्यस्तत्वात् मया नैतद् ज्ञातम् । वत्स ! त्वं सत्यम् वदसि मया कर्थितस्त्वम् । क्षमस्व मां वत्स ! क्षमस्व । मह्यं क्षमां दास्यसि किम्?
काष्ठहारकः - 'यद्येतस्माद् दण्डात् मम मुक्तिः स्यात् !' 'तथाऽस्तु वत्स!'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org