________________
-
काष्ठहारकः स्वनाम उदचरत् । पुस्तकात्तस्य नाम्नः पत्रं दृष्ट्वा तत्रेश्वरेण चिहं कृतम् । 'आम् ! कानि तव सत्कर्माणि ?' एकमेव सत्कर्म तस्य स्मृतिपथमागतम् । अतः तुलायामेको धटः स्थापितः । 'अथ तव दुष्कृत्यानि कथय ।'
तस्य कथनमनुसृत्य एकैकं कृत्वा धटान् तुलाया विपक्षभागे मुच्यमानान् दृष्ट्वा काष्ठहारकः स्तब्धो जातः । क्षणेनैव तुलाया एक भागोऽनमत् । अधिकमधो नेतुं भूमिरुत्खाता।
एवं काष्ठहारकस्य पापानां गणना पूर्णाऽभवत् । प्रभुणा त्वरितं पुस्तकं पिहितम् ।
"अज्ञानिन् ! स्वाथिन् ! प्रमादिन ! अधमात्मन् !" भगवता चीत्कृतम् । “मया तुम्यं जीवनमर्पितं, त्वया चैतावदेव कृतम् ? तवैतानि दुष्कृत्यान्याश्रित्य कठोरोऽपि दण्डोऽल्पीयानेव मम भाति । ज्ञातम् ?"
हिमवत् स्तिमितः क्लान्तश्च काष्ठहारकः शीर्षमधूनयत् । “एका दुर्गता नारी त्वया वञ्चिता, तत्तु तवाऽत्यन्तमधमकृत्यमस्ति । तुलायां न्यूनं तोलितं त्वया ।" प्रभोर्वचनेषु तिरस्काराधिक्यं दृश्यते स्म । समीपस्थं देवदूतमादिशत् - 'काष्ठस्य स महान् भारोऽत्राऽऽनय' । त्रिभिर्देवदूतै र्दुःखेन उत्पाट्य स आनीतः । भगवच्चरणसमीपं च मुक्तः।
भगवता काष्ठहारक आदिष्टः "दृष्ट एष भारः? सदाकालं तव पृष्ठभागेन एनमुत्पाट्यैव त्वया जीवितव्यम् । एषा ममाऽऽज्ञाऽस्ति ।"
काष्ठहारकस्तु तं महान्तं भारं मूकवत् पश्यन् स्थितः । भगवता च निःश्वास्य मुखमन्यत्र कृतम् ।
'भारस्तस्य पृष्ठे स्थापयत । इतः परं च न केनाऽपि मम विक्षेप करणीयः' इत्याज्ञप्तं भगवता।
देवदूताः काष्ठहारकस्य समीपमागताः । 'नहि नहि' - सं उक्तवान् । देवदूताः स्थगिताः । भगवानपि तिर्यग्दृष्ट्या काष्ठहारकं दृष्टवान् । अवक् च -
.......
9 ५२ er
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org