________________
"सिरिचंदरायचरियं, पाइयभासामयं कयं जेण । रम्मं सकण्णसुहयं, पाइयभासादुवारं च ॥ सो कत्थूरायरियो, अणवरयं सत्थचिंतणानिरयो । अज्झावणम्मि रसियो, लोए न पसंसिणज्जो कि ? ||" इति ॥
(७)
७ सरला निरभिमानिनः -
निधि प्राप्य प्रायो जनाः साहङ्कारा भवन्ति, परं पूज्यगुरुवरास्तु "फलन्ति नम्रास्तरवः फलागमैः" इति नीतिवाक्यानुसारं यथा यथा ज्ञानं समुपलब्धवन्तः तथा तथा सरलाः निष्कपटाः, निरभिमानिनश्च समजायन्त । यतस्ते जानन्ति
"ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? ।
अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ? || (बृहत्कल्पे) इति । एकदा स्वपूज्यगुरुवर्यैः सह विहरन्तस्तत्रभवन्तो बुरहानपुरं समागताः । रात्रौ सहसा राजनगरतः श्रमणोपासकः फूलचंदभाई श्राद्धः समायातः । तैः पृष्टं, कुतोऽधुना? । तेनोक्तम् - पूज्यपादाचार्य श्रीविजयनेमिसूरीश्वराणां पत्रमानीय उपस्थितोऽस्मि । पत्रशब्दं श्रुत्वा सरला विचारमग्ना जाता:, अस्माभिः कोऽपराधः कृतः ? यत् पूज्यपादैः पत्रं प्रेषितम् । अवश्यं कोऽपि प्रमादः अज्ञानतया संजातो भवेत इति क्षणं तु निष्कपटास्ते विह्वला अभवन् । पश्चात् फूलचंदभाई - श्रावकेण पूज्यपादानां पत्रं दत्तम् । लिखितं चैतत् कृपापत्रे " उपाध्यायश्रीकस्तूरविजयः सूरिपदेन समलङ्कृतः क्रियेत, यदि विज्ञानसूरिः कस्तरविजयाय सूरिपदं नादास्यत्तर्हि तस्य प्रमादोऽभविष्यत्, यदि च कस्तूरविजयः सूरिपदं नाग्रहीष्यत् तर्हि तस्य प्रमादोऽभविष्यत्" इति । पश्चाद् गुर्वाज्ञां शिरस्यवधार्य चन्द्रगगनन भोनत्रमिते (२००१) विक्रमवर्षे फाल्गुने कृष्णचतुर्थ्यां पूज्यपादानामस्तित्वे अन्तिमाः सूरिभगवन्तो विजयविज्ञानसूरिवरपदधरा नाम्ना विजयकस्तूरसूरिणः समुद्घोषिताः ।
Jain Education International
१६
For Private & Personal Use Only
www.jainelibrary.org