SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कालान्तरे च सूरिपदविभूषितास्ते गुरुशिष्याः सपरिवाराः सूर्यपुरं समागच्छन् । कस्यापि सङ्घस्य कतिचित् श्रावकाः शासनस्य विशिष्टकार्यार्थं समायाताः । श्रीविजयविज्ञानसूरिवराः श्रान्ताः, ततस्ते श्रावकाः पूज्यानां समीपमगच्छन्, पूज्यगुरुवरैस्तु सरलतया तेषां सर्वा विज्ञप्तिः स्वीकृता । एतत् श्रुत्वा श्रीविजयविज्ञानसूरिभिर्विचारितं नैतद् योग्यम्, अतो गमनकाले ते श्रावका आहूताः, तदा ते साक्रोशमुक्तवन्तः “कस्तूरविजयः किं जानाति? स तु मूर्योऽस्ति" इति । श्रावका मूका एवागच्छन् । ___गते काले तत्रैव विद्वांसः श्रावकाः आगमिकप्रश्नार्थं पूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपार्श्वे समायान्, पूज्यैः सर्वं श्रुतम्, पश्चाच्चोक्तम्, “किमर्थं मत्समीपम् आगताः? एष आगमावतारो वर्तते, तत्पाद्यं गच्छन्तु" । पूज्यगुरुवराणां मुखारविन्दे सरलतया मूर्खकथनकाले न विषादः आगमावतारत्वकथनसमये प्रसन्नता वा न, यद् गुरुभिरुक्तं तत् प्रमाणम्। __कदा कदा केचित् पण्डितम्मन्या पुरुषाः समागच्छन्ति, तर्हि गुरुभक्तितः शिष्याः पूज्यान् कर्णे कथयन्ति - भवन्तं वञ्चयितुमेते समायाताः, ततः सावधानीभूय भवन्तः तिष्ठन्तु, तदा ते पूज्याः कथयन्ति, मां केऽपि न वञ्चिष्यन्ति, ये मां प्रतारयिष्यन्ति ते एव वञ्चिष्यन्ते । अहो ! कीदृशी सरलता!। ____ अत एव निजसमुदायवर्तिनः, समुदायान्तरवर्तिनश्च साधव्यः, साधवः, श्रावकाः, श्राविका वा एवमाहुः - पूज्याः खलु भद्रकाः, मन्यामहे यत् - पञ्चमारके चतुर्थारकसाधूनां दर्शनमस्माकं सौभाग्येन सञ्जातम्; महाविदेहे श्रीसीमन्धरस्वामिनां समीपं गच्छन्तः महापुरुषा अस्मत्पुण्ययोगतो भरतक्षेत्रं समागताः, युगलिकसदृशा भद्रका एते पूज्याः । अतस्तेषां पूज्यानां "धर्मराजाः" इत्येवं प्रसिद्धिः लोके जाता ।। अहो ! पूज्याः साधुत्वेऽपि विद्वांसः, विद्वत्त्वेऽपि सरलाः, सरलत्वेऽपि गीतार्थाः, गीतार्थत्वेऽपि निरभिमानिनः । एवंविधाः ते कथं न सर्वैः आदरणीयाः वन्दनीयाश्च? । 9 १७ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy