________________
७) अनासक्ता आर्षपुरुषाः 629) अनगारिण: साधवो बहवः सन्ति, परम् अनासक्ताः (अलगारि) तु कतिचिद् एव । अगारं-गृहं न विद्यन्ते येषां ते अनगारिणः, परं देहादिषु निखिलेषु परपदार्थेषु येषामासक्तिः न विद्यते ते अनासक्ताः । शिखरमारुह्य खराः कर्कशाः तु प्रायशो भवन्ति, ये तु परा: - परपदार्थैः अलिप्ता भवन्ति, ते एव विशिष्यन्ते । पुण्यपुरुषाः, धर्मपुरुषाः, साधुपुरषाः लभ्यन्ते एव, परंतु आर्षपुरुषाः केचनैव ।
आर्षा निरपेक्षाः मानमपमानं वा न गणयन्ति, निन्दाप्रशंसासु समाः, सुखे दुःखे च समदृष्टिकाः, व्याख्यानं तेषां नोपदेशः, आचरणमेव तेषामुपदेशः । एवं च इन्द्रियार्थेभ्योऽपि परास्ते अनासक्ता आर्षपुरुषाः । भगवद्गीतायामुक्तम्
"न हि संन्यासादेव, सिद्धिं समधिगच्छति" ।। किन्तु "कर्मेन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् ।
_इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते । यस्त्विन्द्रियाणि मनसा, नियम्यारभतेऽर्जुन ! । कर्मेन्द्रियैः कर्मयोग-मसक्तः स विशिष्यते । तस्मादसक्तः सततं, कार्यं कर्म समाचर। असक्तो ह्याचरन् कर्म, परमाप्नोति पुरुषः ॥” इति । पूज्यपादा विजयकस्तूरसूरीश्वरा अपि तथैव आसन् । न कोऽप्यिभलाषः, न कापि महत्त्वाकाङ्क्षा, न किमप्यभीप्सितम् । न स्वीयनाम्नो मोहः, न निजकर्मणां विमोहः; न शिष्याणामभीप्सा, नाहारेषु लिप्सा; न देहे आसक्तिः, नेन्द्रियार्थेषु प्रसक्तिः, न कापि विषयेषु क्रिया, न कापि परपदार्थेषु प्रक्रिया ।
७ १८ en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org