SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विजयकस्तूरसूरीश्वराः सन्ति । यदि तैः स्वरचिते “पाइयविन्नाणकहा" इत्याख्ये ग्रन्थे निजनामोल्लेखो न कृतः स्थान्, तर्हि अस्मादृशां संशोधकानां महती समस्या उद्भवेद्, यदेष ग्रन्थः कस्मिन् शतके?, केन विदुषा रचित आसीद् ?" इति । ___ "सिरिउसहणाहचरियं" - तेषां हृदयेऽयमप्यभिलाष आसीद् यत् - कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभिः यथा संस्कृत भाषायां पद्यबद्धतः त्रिषष्टिशलाकापुरुषचरितं निर्मितं तथा तत्सारभूतं चरितं प्राकृतभाषायां गद्यबद्धतोऽपि स्यात्, ततस्तदनुकारेण "सिरिउसहणाह चरियं" इत्येतद्ग्रन्थ निर्माणमपि कृतम् । "सिरिचंदरायचरियं"-समुपलब्धप्राकृतगाथाद्वयमवलब्य कविराजश्रीमोहनविजयकृत "चंदराजरास" नामकगुर्जरासकानुसारं "सिरिचंदरायचरियं" इति नामकग्रन्थं विरचय्य प्राकृतसाहित्ये संवृद्धिः कृता । अत एव तद्ग्रन्थप्रकाशनसमये प्रवर्तमानविज्ञाने विशेषदोषशोधकैः पंन्यासप्रवरश्रीअभयसागरजीगणिवर्यैः प्राकृतभाषया संदेशः प्रेषितः - "आगोवंगणविबुहजणविस्सुयस्स सुगहियणामधेयस्स सिरिचंदरायस्स महारिसिणो गेयकव्यस्स समुवलंभेऽवि पाइयभासाणिबद्धकव्वस्स खंडियप्पायस्स समुद्धारो सक्कयपाययभासाविसिट्ठविबुहसेहरेहिं पच्चूससमरिणज्जेहिं सिरिविजयकत्थूरसूरिवरेहिं कओ" इति । किंबहुना ? पाइयविन्नाण कहा भा. १,२; सिरिउसहणाहचिरयं, सिरिचंदरायचरियादिग्रन्थानां गुर्जरानुवादोऽपि प्रकाशितः । सिरिसिरिवालकहा, सिरिधणवालकहा, विविधग्रन्थसमुद्धृ तकरुणरसवर्णनसंग्रहरूप "करुणरसकदम्बक" प्रभृतिप्राकृतग्रन्थानां, श्रीहेमचन्द्राचार्यविरचितायाः चन्द्रोदयाभिधगुर्जरटीका-बीजक- शेषनाममाला - शिलोञ्छादियुताया: "अभिधानचिन्तामणिनाममालाया" श्च पूर्णपरिश्रमतः सम्पादनं कृतम् तच्च भारतराष्ट्रीयैः समर्थैः विद्वद्भिश्च सादरं स्वीकृतमपि । एतदपि श्रुतम्-आगमोद्धारकपूज्यपादाचार्यश्रीआनन्दसागरसूरिवपि प्राकृतविषयकप्रश्नेषु पूज्यगुरुवरा एव प्रमाणीकृताः । परमपूज्याचार्य श्रीविजयदेवसूरीश्वराणां शिष्यरत्नैः पंन्यासश्रीहेमचन्द्रिवजयगणिवर्यैः (श्रीविजयहेमचन्द्रसूरिभिः) सिरिचंदरायचरियप्रकाशनकाले सत्यमेव लिखितम् - ७ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy