________________
-
देसाई, कान्तिभाई-प्रधाना व्यापारिणोऽपि स्वस्वक्षयोपशमानुसारमधीतवन्तः ।
अहो ! ज्ञाननिधीनां गुरुवराणां ज्ञानमहिमा अद्यापि जेगीयते ।।
७) प्राकृतवाविशारदाः ७) व्याकरण-न्याय-दर्शन-साहित्यपारंगता बुद्धिनिपुणा विद्वांसो बहवः, परं सचूर्णि-भाष्यनियुक्तिका जैनागमाः, प्रकरणानि, जैनावश्यकसूत्रादीनि इत्येवं प्रभूततरं जैनसाहित्यं च यया भाषया निबद्धं तस्या जैनानां मातृतुल्यायाः प्राकृतभाषाया अध्ययनं लुप्तप्रायम्, धीमन्तोऽपि तदभ्यासे न प्रयत्नशीलाः, अतः पूज्यपादैनिर्धारितम् “सर्वे यथेच्छं कुर्वन्तु, अहं तुं प्राकृतभाषाध्ययनं सप्रयत्नं करिष्यामि" इति । प्रारम्भत एव तथा प्रयासः समारब्धः, यथा तेषां प्राकृतवाग्विशारदत्वेन लोके प्रसिद्धिर्जाता।
श्रुतमेतद्-एकवारं पूज्यपादा आचार्यश्रीविजयनेमिसूरीश्वरा भगवन्तः शास्त्राध्यापनं कारयन्ति स्म, मुनिश्रीलावण्यविजयप्रमुखाः साधव आसन् । तदा 'अछुट्ठ'इति प्राकृतः शब्दः समागतः, पूज्यपादैः सर्वेभ्यः पृष्टम्, कोऽर्थः अद्भुट्ठशब्दस्य, न केऽपि प्रत्युत्तरमददुः । तदा पूज्यपादैः मुनिश्रीकस्तूरविजयं प्रति दृष्टिः कृता, तेन च क्षणमप्यविलम्ब्योक्तम् "सार्द्धत्रयम्" इति । पूज्याः प्रसन्नीभूय भाषितवन्तः "अवश्यमेष कस्तूरविजयो भविष्ये प्राकृतवाविशारदो भविष्यति" इति । शासनसम्राजां एतस्या वाचः फलश्रुतितयेव, संयमस्वीकारादनु षष्ठे वर्षे एव, नयनमदनारदविधुमिते (१९८२) विक्रमवर्षे मुनिकस्तूरविजयैः प्राकृतशब्द-धातुरूपाद्यनेकविषयगुम्फिता “प्राकृतरूपमाला" प्रथमं प्रकाशिता । तस्याः प्रस्तावनायां प्राकृतभाषामर्मज्ञैः मुनिश्रीपद्मविजयैः (विजयपद्मसूरिभिः) प्राकृतभाषा अध्ययनावश्यकता दर्शिता, प्रकाशकमुनिभ्यश्च धन्यवादो दत्तः ।
प्राकृतविज्ञानपाठमाला-प्राकृतभाषाया अभ्यासोऽनुभवगम्यः, प्राकृतभाषा-प्रवेशोऽपि न तथा सरलः, तदर्थं यः प्रयत्न क्रियते, स तैरनुभूतः, अतः प्राकृताभिलाषिणां विद्यार्थिनां प्राकृतभाषायां सरलतया प्रवेशः स्यादिति विचार्य कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं
9 १३ em
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org