________________
(९)
सुभाषित - कथा)
- एम्. के. नझुण्डस्वामी कदाचित् कबीर साधुः भिक्षामटन् स्वकुटीरं प्रति निवर्तमान आसीत् ।
मार्गं गमिष्यतस्तस्य मनसि सहसा चिन्ता उदियाय-अहो अहं बहोः कालात् तपस्यन् तत्त्वावगमाय यतमान एवास्मि । तथापि सिद्धिं नावगच्छामि; किं करोमि; कदा वा सिद्धिं प्राप्नुयामिति । स एवमत्यर्थं खिन्नः अग्रेसरन्नासीत् ।
एवं ध्यायन् कियच्चित् दूरं गतवतः तस्य मार्गपार्श्वतः कोऽप्याराम: दृष्टिगोचरो बभूव । तत्र आरामपालश्च वाषिकफलप्रसविनं कमप्येकमेव वृक्षं आलवालपरिक्षिप्तं सिञ्चन् अदृश्यत ।
कबीरः अवनम्रघटमुखात् पततः वारिणः मधुरध्वनिना आक्षिप्तिचित्तः आरामपालस्य जल-सेचन-क्रियां अवलोकयन् तूष्णीं कियन्तमपि कालं स्थित एवासीत् ।
आरामपालस्तु सिञ्चनात् न कथमपि विरमति ।
तदा समुत्सुकः कबीरः तं पप्रच्छ। ___ भोः आरामपालक !, कुत एवं एककमेव वृक्षं परःशतैः जलघटैः सिञ्चन् असि ?-' इति ।
आरामपालः प्रत्यवदत् - आर्य ! किमन्यत्, एष वृक्षः शीघ्रं फलं दद्यात्, इति । तदा कबीरः सहसाऽवदत् !
भोः अधिकजलसेचनेन न स्थाने प्रचुराणि फलानि भवेयुः । वृक्षः स्वं ऋतुमनुसृत्यैव फलति । शीघ्रं कथं वा फलति ?-इति ।
एवं कथयतस्तस्य मनसि विचारः समजनि-अहो ! अहं आरामपालं उपदेष्टुं यते, स्वयं तु आत्मसिद्धि प्रति त्वरावान् अभूवम् इति । एवं ध्यायतः तस्य मुखात् अतर्कितं वाणी निरगात् यथा
"धीरे धीरे रे मना, धीरे सबकुछ होय । माली सींचै सौ घडा रितु आये फल होय ॥"
ND ७४ en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org