________________
Jain Education International
मर्म-नर्म
अध्यापक: निखिल ! " अहं धूमवर्तिकां पिबामी " - ति वाक्यस्य भविष्यत्काले किं रूपं भवति ?
निखिलः प्रभो ! भवन्तं 'केन्सर' व्याधिः भविष्यति ।
वैद्य: रमण, स्वर्गप्राप्त्यर्थं किं करणीयम् ? रमणः मर्तव्यम् !
वैद्यः मरणार्थ किं कर्तव्यम् ?
रमणः
भवत औषधं ग्राह्यम् ।
गृहिणी (दुग्धविक्रयिकं ) भोः ! प्रत्यग्रं खल्विदं दुग्धम् ?
दुग्धविक्रयिकः
प्रत्यग्रम् !!! कोऽत्र संशयः ? प्रहरपूर्वं तु घासस्वरूपेणाऽऽसीदेतत् !!
७५
मुनिधर्मकीर्तिविजयः
For Private & Personal Use Only
www.jainelibrary.org