SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 'तथाऽस्तु' एवमुक्त्वा स सेवकस्तत्र जगाम । तेन सविनयं सः श्रावको विज्ञप्तःश्रेष्ठिन् ! महाभाक् ! तव निर्मलामनुपमां च भक्तिं दृष्ट्वा तथा सुमधुरं गम्भीरमारवं च निशम्याऽस्मदीयः नवाबोऽतीव प्रसन्नोऽभूत् । ततः प्रत्यक्षं तस्य शुश्रूषाऽस्ति । अतस्तत्राऽऽगत्य मे प्रभोः स्पृहापूर्ति करोतु भवान् । श्रावक आह - नैतत् शक्यम् । न त्रिजगदीश्वरं विना कस्याऽपि सदेशमेवंरीत्या गीतं गायाम्यहम् । यद्यस्ति तेषां जिज्ञासा त_त्राऽऽगन्तुमहमामन्त्रयामि। सुखेनाऽत्राऽऽगम्यताम् । स सेवकः क्रुद्धोऽभवत् श्रुत्वैवम् । तेन कथितम्-श्रेष्ठिन् ! नैष कोऽपि सामान्यजनः अपि तु अस्याः सर्वस्या अपि भूमेरधिपतिरस्ति, वयं सर्वेऽपि तदाज्ञायां वर्तामहे । ततस्तत्राऽऽगच्छ सपदि, अन्यथा भवन्तं दण्डयिष्यति सः।। तेन श्रावकेण निर्भयत्वेनोदितम्- न काऽपि मे भीतिः । तव स्वामिने यद् रोचते तत्कर्तुं स स्वतन्त्रोऽस्ति। श्री शङ्खश्वरपार्श्वनाथ' विमुच्य तस्य मनोरञ्जनार्थं न तत्राऽऽगच्छेयमहम् । ___ अपूर्वसामर्थ्यान्वितमेतद्वाक्यं संश्रुत्य स सेवकोऽपि विह्वलो भीतश्च । अचिरेण शिबिरं गत्वा 'नवाबा'य तेन सर्वमपि निवेदितम् । क्षणं नवाबेनाऽपि आश्चर्यमनुभूतम् । तस्याऽपि वाशक्तिः किञ्चित्कालं स्थगिता। परं तु, सः नवाबोऽपि भक्तिनिष्ठ आसीत् । तेन (स्वतः) मनसि चिन्तितम्- एष एव प्रामाणिकः प्रभुभक्तः, अस्यैव भक्तिरपि तथ्या। मयाऽद्यपर्यन्तमनेके प्रभुसेवकाः दृष्टाः, अपि तु, एतादृशो भक्तस्तु न निरीक्षितः यतो यस्य चरणे जीवनं समर्पितं तं विना कस्याऽपि चरणसेवां न करोति । एवं विचार्य स्वसेवकमाहूय तेन नवाबेन प्रोक्तम् - भवतु स नाऽऽगतोऽत्र, किन्तु एतादृशो भक्तिनिष्ठस्य परमश्रद्धावतश्च भक्तसेवकस्य दर्शन कर्तुं मे मनोऽत्युत्कण्ठितमस्ति, अत आवां द्वावपि तत्र गच्छेताम् । अन्यच्च प्रभोः साक्षात् दर्शनं तु कदा भविष्यति तदहं न जानामि, परंतु प्रभोः प्रतिकृतिसमस्याङ्गगतस्य च भक्तिमत आत्मनः पुण्यदर्शनं कृत्वा मन्मानसं पवित्रं करवाणि । एवं ससेवकस्स 'नवाबः' जिनगृहं गतः । 19 ६० en Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy