________________
मारोपयति । __स्यावाद एव दर्शनसिंहः । तस्य च सिंहनादेन सर्वेऽपि दर्शनगजास्तदनुयायिनश्च प्रत्यङ्गं प्रकम्पन्ते ।
स्याद्वादस्तु सिंहोपमः शेषास्तु गजोपमाः । मीलितकोटिबलोऽपि गजसङ्घः सिंहमपहर्तुं त्रिकालं न ईष्टे ।
स्याद्वादस्य व्यक्तित्वं सर्वविजयि । सर्वविजेतुस्तस्य सामर्थ्य समुद्घोषयिताऽसौ कथानकः।
एकस्मिन् सभास्थाने गोष्ठीरसिकानां दार्शनिकानां महती सभा संमीलिता । अनेके विद्वांसस्तस्यामुपस्थितवन्तः । लोकवृन्दास्तु कौतुकवशादपरिमितसङ्ख्यासु तत्रैकत्रिताः । एवं बहुजनाकीर्णं तत्स्थानं समभूत् ।
मङ्गलोच्चारेण सहाऽग्रेसरजनैः सा सभाप्रारब्धवती। विदुरैरथो स्वकीया बहुचर्चाकर्कशा चिन्तनस्य कोट्याः शिरसि संकृष्टा विचारसंहिता क्रमशस्तत्र प्रकाश्यते ।
सभामध्ये क्वचित्तत्त्वतुमुलोऽपि प्रादुर्भूतः । व्याख्या-विग्रहोऽपि क्वचिज्ज्वलितवान्। संघर्षस्निग्धा लोका अपि तत्सकलदृश्यं प्रेम्णाऽवलोकयन्ति ।
एवंविघे सदःप्रवर्तिते तदैकश्छटाटोपकुशलो वक्ता वक्तुमुत्थितः । किन्तु तेन भाषणाऽऽरम्भस्य पूर्वस्मिन्नेव संरम्भेण पृष्टम् = कोऽपि स्याद्वादी वर्ततेऽत्र ? यदि च स्याद्वादी स्यानाहं ब्रुवे । सर्वैरुक्तं- न विद्यत इति ।
एवं विषयकस्य प्रौढसंशोधनस्य पश्चादेव तेन वक्तृणा व्याख्यानं समारब्धम् । विद्युच्चाञ्चल्यवच्च तेन वेगेन वाक्य-विस्तारेण व्याख्यानमग्रेकृतम् ।
व्याख्यानमध्ये प्रसङ्गोपात्तं तेनोक्तम् एका धवल-जलधारिणी सरिताऽभूत । सततं प्रवाहिन्यास्तस्याः पार्श्वे विशालदल एको वटवृक्षोऽप्यभूत् । स वटवृक्षश्चातिचमत्कारिकः । तस्य चमत्कारोऽप्यद्भुत एवंप्रकार: तद्वृक्षस्य काश्चिच्छाखा नदीजलोपरि काश्चिच्च पृथिव्युपरि आसन् । यानि च तस्य पर्णानि जले पतन्ति स्म तानि जलचराणि भवन्ति स्म; यानि च स्थले
19 ४० en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org