________________
-
पतन्ति स्म तानि स्थलचराणि भवन्ति स्म इति ।
एवं रसरसिका कथामाश्रुत्य सभा भूर्यातुरा जज्ञे । तस्य एवं वक्तव्यस्य अनन्तरं तत्सभायां एकः स्याद्वादी उत्थितः । सोऽप्यस्य कथाश्रवणस्य सहभाग्यभूत् ।
एवंविधकथाप्रसङ्गश्रवणेन तन्मनसि गूढस्तात्पर्यगम्भीरश्च संशयोऽजनि । समुत्थाय तेन स्याद्वादिनाऽभिव्यक्तम् "यानि जलस्थलयोर्मध्ये पतन्ति स्म तानि किं भवन्ति स्म?"
प्रश्नश्रवणेनाऽनेन समग्रसभा स्तब्धा । कौशलिका अपि तेन क्षुब्धाः । वक्ता तु प्रतिरोम प्रकम्पितः।
अथ तेन वक्तृणा पृष्ठम्- भो बन्धो ! किं भवान् स्याद्वादी ? - आमेति प्रत्युत्तरं प्रश्नकर्तृणाऽपि प्रदत्तम् । तत्क्षणमेव वक्तृणा स्वव्याख्यानं समापितम् स्वयं च पलायितः । सभा च विसर्जिता ।
अत एव प्रबोध्येताम् "स्याद्वादस्य पराजेता न भूतो न भविष्यति"
निराम्नायस्य वचसि श्रद्धा न प्रत्ययं विना।।
" हैमवचनामृतम् "
19 ४१
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org