SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ झेनकथा । - विजयशीलचन्द्रसूरिः एकस्य झेनसाधोः पार्श्वे गत एको जनः । स प्रणम्य मौनं उपविष्टः । झेनसाधुस्तु ध्यानलीन आसीत् । कतिचित् क्षणानन्तरं झेनसाधुना ध्यानं विसृज्य प्रसन्नदृष्ट्याऽवलोकितं आगमनप्रयोजनं च पृष्टम् । आगन्तुकेन कथितं - अहं कथाकारत्वेन विश्रुतोऽस्मि । श्रुतं मया तत्रभवतां धन्यं नामाभिधानम् । ततश्च मम हृदये सङ्कल्प उत्थितो यद् यदि मम वाणी भवादृशानां परमतत्त्वसाधकानां कर्णातिथिर्भवेत् तर्हि सा निःशङ्कं पवित्रिता भवेत् । अतो यदि भवतां सम्मतिः समयश्च स्यात्, तदा किञ्चिच्छ्रावयितुकामोऽयं पामरजनः । झेन साधुना मन्दं मन्दं हसित्वा गदितम्भद्र ! नाऽस्ति अधुना मम ईदृशः समयः । किन्तु, ओम्, एकं निजप्रसङ्गं स्मराम्यहम् । यदाऽहं पञ्चवर्षीयो बाल आसम, तदा मम जननीपार्ध्वात् प्रतिदिनमहं कथायाः श्रवणं अकरवम् । साऽपि नित्यं नूतना कथां मे श्रावयति स्म । तां शृण्वन् शृण्वन् एवाऽहं निद्राधीनो भवन्नासम् । कथाऽपूर्णेवाऽवर्तत, निद्राराज्ञी तु कथार्धे एव मामधिकृत्य प्रावर्तततराम् ।। अद्य तव निवेदनं श्रुत्वा तत्सर्वं स्मृतिपथमागतं मम । अहमिह क्षणे विचारयामि - किं तादृशीं वार्ता कोऽपि मामधुना श्रावयितुं समर्थः स्यात् ? यदि त्वं तादृशीं कथां कथयितुं शक्तिमान् स्याः तदाऽवश्यं श्रावय । अस्ति मम पार्श्वे तत्कृते समय: नाऽन्यथा । 19 ५० @h Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy