SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्राप्तः । तया च स्त्रिया दीनारसहसव्ययेन स्नान- भोजनादिकं कारयित्वा ते सर्वेऽपि वस्त्रादिभिः सत्कृताः । एवं तृतीयदिनमपि तेषां निराबाधं व्यतीतम् । अथ चतुर्थे दिने त्रिभिरपि वयस्यै राजपुत्रो भणित: कुमार ! अद्य त्वया निजभाग्यबलेनाऽस्माकं योगो वोढव्यः । एवं भवत्विति प्रोच्य सोऽपि उद्यानान्निर्गतः । बहिरागत्य स एकस्य विशालवृक्षस्य च्छायायां निर्भरं प्रसुप्तः । इतश्च पूर्वस्यामेव रात्रो तन्नगरस्य राजा अपुत्रो मृतः । ततो मन्त्रि - सचिवादिभिरन्यस्य राज्ञो गवेषणाय हस्त्यश्व - छत्र- कलश- चामरारूपाणि पञ्च दिव्यानि देवतयाऽधिवासितानि । तदनु ते सर्वेऽपि तानि दिव्यान्यग्रेकृत्वा सर्वं नगरं भ्रामं भ्रामं यत्र राजपुत्रः सुप्त आसीत् तत्राऽऽगताः। तं दृष्ट्वैव हस्तिना गर्जितं, अश्वेन हेषारवः कृतः, कलशेन स मस्तकेऽभिषिक्तः, चामरे च स्वयमेव तं वीजयितुमारब्धे । एतद् दृष्ट्वा मुदितैः प्रधानपुरुषैर्जनैश्च 'नूतनो राजा जयतु' इति जयजयारावं कृत्वा हस्तिन: स्कन्धे उपवेशितः । ततश्च सर्वेऽपि मङ्गलगानपूर्वं नगरं प्रविष्टाः राजप्रासादं च प्राप्ता: । तत्र स मन्त्रि - सामन्ताद्यैः सिंहासनोपरि समुपवेश्य राजत्वेऽभिषिक्तः । अभिषेकानन्तरं स निजमित्राण्युद्यानादाहूय ससम्मानं विविधेषु पदेषु संस्थापितवान् कथितवांश्च यदहं भाग्येन जीवामि । पश्यत, मम भागधेयैरद्याऽहं राजा सञ्जातः इति । एतच्छ्रुत्वा सुहृद्भिरुक्तं - सत्यमेतत् मित्र ! सर्वेषां पुरुषकाराणामुपरिष्टाद् भाग्यमेव विद्यते तदेव च बलिष्ठम् । . 榮 यस्योदयः स वन्द्यो हि यथा हीन्दुर्यथा रविः । ' हैमवचनामृतम् " '} 66 Jain Education International ७२ For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy