SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भवति । परम्परया मोक्षसुखादपि दूरीभूतो भवति । तथाऽपीदानीं न जाने कथमर्थ एव परमेश्वरः, अर्थ एव जीवनदाता, अर्थ एव सर्वस्वमिति मन्यामहे वयं सर्वेऽपि । संप्रति अस्माकं सर्वेषामपि जीवानां चेतस्येका मिथ्याभ्रमणाऽस्ति, यदर्थेनैव जीवने सुखं लभ्यते, तेनैव धर्म आराधयितुं शक्यः, तेनैवाऽयं संसारव्यवहारः सुखेन निर्वहति, अर्थेनैव लोके समाजे कुटुम्बे च सत्कारो मानः प्रतिष्ठा च प्राप्यन्ते । तत एतया मिथ्याभ्रमणयाऽसत्कल्पनया चाऽस्माकं मनोवृत्तिः सङ्कुचिता भवति । ततः तत्प्रभावेण वयं परोपकारित्व-औदार्य-निरभिमानित्व- सन्तोषादीन् सहजगुणान् तथा सामाजिककर्तव्यमपि च विस्मृत्य अर्थकामार्थमेवैतज्जीवनं प्रवहामः । किन्तु नैतदुचितम्, यत अर्थ एव सर्वेषामप्यनर्थानां कारणम्। यद् वर्णितम्- अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ अस्मिन् कालेऽप्यर्थकामाभ्यां येऽनर्था उत्पादितास्ते तु कल्पनातीताः सन्ति । इदानी राजकीयक्षेत्रे विद्याकीयक्षेत्रे सामाजिकक्षेत्रे क्रीडाक्षेत्रे च याऽराजकताऽस्तव्यस्तता च वर्तते, तस्य मूलं किं? अर्थ एव । अहो ! धार्मिकक्षेत्रेऽपि तस्य विशिष्टः प्रभावो विद्यते । धार्मिकसंस्थाया अधिकारिषु गर्व-दम्भ-प्रपञ्च-ईष्या-असूया-महत्त्वाकाङ्क्षादिदुर्गुणानामुत्पादकोऽर्थ एव। अर्थकामाभ्यां मानवीया गुणा अपि नष्टाः । अर्थकामाभ्यां वशीभूता उच्चासने स्थिता आत्मानोऽपि घृणास्पदं जुगुप्साप्रेरकं चाऽनिष्टं कार्यस्य करणे कारणे च न लज्जामप्यनुभवन्ति। __एतादृशीं प्रवृत्तिं प्रेक्ष्य मनस्येवं भवति यद्, यद्यर्थ एव सर्वेषां सुखानां निदानं तथा जीवनस्याऽऽधारो भवेतां तहि पूर्वजैः पूर्वराजषिभिः महाराजैश्च न त्यज्येयातां विषयसुखं राजसुखं च । निखिलशर्मपूर्णराज्यवैभवमपि विहाय संन्यासं प्रत्यपद्यन्तते, तेनैव ज्ञायते यन्नाऽर्थकामाभ्यां सुखं लभते । पूज्यपादश्रीधर्मदासगणिना उपदेशमालायां प्रोक्तम्दोससयमूलजालं पुव्वरिसिविवज्जियं जई वंतं । अत्थं वहसि अणत्थं कीस अणत्थं तवं चरसि ? ॥ 19 ३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy