________________
तथाऽपि कलिकालस्य महत्तममाश्चर्यमेतदेव यत् सर्वेऽपि जीवा अर्थकामयोः अशुभविपाकाननुभवन्ति पश्यन्ति च तथाऽन्यान् कथयन्त्यपि, किन्तु स्वयमर्थकामयोः मूर्च्छा विहातुं न समर्थास्ते ।
इदानीमर्थकामार्थं न केवलमज्ञानिनो मूढा निर्धनाश्चाऽपि तु धनपतयः त्यागिनो वचनमात्रेणैव धार्मिकाश्च जीवा अपि प्रोन्मत्ता भवन्ति ।
अहो ! संसारस्य विचित्रता । अहो ! अर्थकामयोः प्रभावः ।
एवमर्थकामयोः दुष्टविपाकं ज्ञात्वा वीतरागैः प्ररूपितो धर्म एवाऽऽचरणीय आदरणीयश्च । किं स्वरूपं धर्मस्य ?
बाह्यपरिणति - विभावावस्थां च संत्यज्याऽऽभ्यन्तरपरिणतौ स्वभावाऽवस्थायां रमणमेव धर्मः ।
आत्मनो ज्ञान-दर्शन- चारित्रादिविशुद्धगुणानामुपासनैव धर्मः ।
अत्र जिनशासने जिनैः ज्ञानदर्शनचारित्रस्वरूपो धर्मः अहिंसासंयमतपोभेदरूपो धर्मः दानशीलतपोभावनास्वरूपो धर्मश्च निरूपितः, एवं भिन्न-भिन्नभेदैः धर्मो वर्णितः । एतद्धर्मेणैवाऽर्थकामाभ्यां यत्सुखं लभ्यते तत्सुखं प्राप्यते ।
यतो मोक्षपुरुषार्थान्वितो धर्मपुरुषार्थ एवोपादेयः, अर्थकामौ तु हेयौ ।
ततो धर्म एव सर्वसुखस्य निदानं स एवाऽर्थकामप्राप्तेर्मूलं, स एव दुःखौघनाशकः, तथा स एव मोक्षमार्गस्य सरणिः । एतेन धर्मेणैव पञ्चेन्द्रियाणां विषयभोगैश्च सहाऽऽत्मिकं परिपूर्णं सुखमपि प्राप्यते । तथा तत्सुखं च कदापि नष्टं न भवति मोक्षरूपस्य परमनिर्व्याघात - शाश्वतसुखस्य प्राप्तिपर्यन्तम् । एवमेतत्सुखं वर्द्धमानपरम्परया लभ्यते । ततोऽर्थकामयोः सुखस्याऽऽकाङ्क्षां त्यक्त्वा, येन देवानामपि दुर्लभं सुखं प्राप्यते स धर्म एवाऽऽराधनीयः ।
एतद् ज्ञेयमत्राऽपि न कयाऽप्याकाङ्क्षया धर्मः कर्तव्यः । यतो यत्र स्पृहा तत्राऽपेक्षा, अपेक्षा एव रागः, रागस्तु सर्वेषामपि दुःखानां मूलम् । ततो यत्राऽपेक्षा तत्र दुःखमस्त्यवश्यमेव ।
Jain Education International
NO
३५
For Private & Personal Use Only
www.jainelibrary.org