________________
भवन्ति । ततो धर्मार्थं धनस्यऽपेक्षा न प्रशंसनीया ।
चतुर्दशशतग्रन्थप्रणेतृपूज्यपाद श्रीहरिभद्रसूरीश्वरभगवताऽष्टकप्रकरणे प्ररूपितं
धर्मार्थं यस्य वित्तेहा तस्याऽनीहा गरीयसी ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥
एतेन ज्ञायते, यद् धर्मोऽपि निरपेक्षभावेनैव करणीयः । स धर्मो भिन्नभिन्नरीत्याssराधयितुं शक्यः । तं धर्मं कर्तुं सर्वेऽपि जीवाः समर्थाः । अत्राऽऽवश्यकमेतदेव, यत् सर्वेषामपि चित्ते शुभभावो भवेत् ।
प्रान्ते येषु जीवेषु कोऽपि पुरुषार्थो नास्ति ते जीवाः पृथ्व्यां मानवरूपेण पशुनिभा एव ज्ञेयाः । तथा च तेषां जीवनमपि निष्फलमेव भवति ।
अत एतादृशमनिच्छन्तो वयं सर्वेऽपि मोक्षपुरुषार्थान्वितधर्मपुरुषार्थाय विशेषतः प्रयतेमहीति मतिर्मे ।
Jain Education International
{
*
फल्गु बाह्यं हि मण्डनम् ।
हैमवचनामृतम् "
66
गणकोटि:
यः कर्म्मणः उदये उद्विग्नः स अज्ञः ।
यः कर्म्मणः उदये अनुद्विग्नः स विज्ञः ।
यः कर्म्मणः उदये सद्विचारेषु निमग्नः स प्राज्ञः ।
NO ३७ Cle
}
- साध्वी श्रीयुगन्धरा श्री
For Private & Personal Use Only
www.jainelibrary.org