________________
- मुनिधर्मकीर्तिविजयः यथा यथा वयो वर्धते तथा तथाऽऽत्मनः स्वभावस्य न्यूनता येन गृह्यते स विकासः । स्वकीयस्य स्वभावगतायाः न्यूनतायाः बोधो यस्य नास्ति, तस्याऽशक्यो विकासोऽपि । कदाचिद् बाह्यदृष्ट्या लोके समाजे चाग्रणीः प्रतिभाति तत्र तस्याऽदृष्टस्यैव प्रभावो ज्ञेयः, किन्तु न विद्यते तस्य तत्र पुरुषार्थलेशोऽपि । ततः पुरुषार्थेन विना केवलं दैववशेनैव विस्तृतः प्रभावो वस्तुतो विकासत्वेन कथयितुं न शक्यः । यतो विकास एव प्रगतिः, प्रगतौ गतिरस्ति, सा गतिः पुरुषार्थं विना कथमपि न शक्या ।
आत्मनो न्यूनता द्विप्रकाराभ्यां जनाभ्यां स्वीक्रियते- धृष्टेन वा लज्जालुना वा । स्वस्य न्यूनतायाः स्वीकृतावपि केषाञ्चिज्जनानां हृदयेऽहङ्कार उच्छलति । तत्र केवलं तस्य धृष्टतैव भवति । एतादृग्जनानां विकासस्याऽशक्यैवाऽस्ति संभावनाऽपि ।
स्वकीयस्य न्यूनतायाः स्वीकरणेऽप्यतीव लज्जामनुभवन्त्यन्ये तथा तस्मिन् काले सा न्यूनता तेषां बाढ पीडयति । तथैव तां न्यूनतामपाकर्तुं सदोद्यमशीला अपि भवन्ति । एतादृशानां जनानां विकासः सुलभ: शक्यश्चाप्यस्ति यतो न तेषामहङ्कारः, अपि तु पश्चात्तापोऽस्ति ।
Jain Education International
विकासः (अनूदित:)
{
महात्मानः प्रकृत्याऽपि शपथच्छेदकातराः ।
हैमवचनामृतम् "
14
३८ ele
For Private & Personal Use Only
}
www.jainelibrary.org