SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ - - एकादशवादनकाले साबरमती रामनगरे आकस्मिको जिह्वायाः पक्षघातः समुत्पन्नः । डॉकटरमहाशयाः सर्वे मिलिताः । यदि शीघ्रं रुग्णालयं नीत्वा योग्य उपचारो न स्यात्, तर्हि अधिकं कष्टं स्यात्, जीवनमपि साशङ्कं भवेद् इत्यादिकम् उक्तवन्तः । शिष्यपरिवारः, सङ्घश्च अखिलः चिन्तामग्नो जातः । परं पूज्यास्तु परमप्रसन्नाः, जीवनमरणतो निश्चिन्ता आसन् । वक्तुमसमर्थास्ते ईङ्गिताकारेण उपलक्षितवन्तः - वयं निशायां रुग्णालयं नैव गमिष्यामः, यद् भावि तद् भवतु । तदा गुरुभक्तः कश्चित् श्रावकोऽब्रवीत् - पूज्याः ! अधुना एको वादितः, अपवादतः प्रतिक्रमणं प्रतिलेखनादिकं विधाय गमने का बाधा? । किञ्चिद् रोषपूर्वकं पूज्याः चेष्टितवन्तः, या क्रिया यस्मिन् काले कार्या, सा तस्मिन् काले एव करणीया, "साधूनां किं मरणभयम्"? | "अहह ! महतां निःसीमा चारित्रनिष्ठा" द्वितीयदिने एकान्ते गुरुसमर्पिता: विजयचन्द्रोदयसूरिणः पंन्यासअशोकचन्द्रविजयाश्च भाविनी शारीरिकी स्थिति ज्ञापयित्वा रुग्णालयं गन्तुं पूज्यान् मानितवन्तः । सायं च शिबिकाद्वारा वाडीलालसाराभाईरुग्णालयं नीताः । डॉकटरमहाशयाः औषधानि अददु तहि पूज्याः विश्वासितान् डॉकटर श्रावकान् पृच्छन्ति स्म, एतानि औषधानि भक्ष्याणि न वा? यदि न समीचीनानि तर्हि न भोक्ष्यामहे । अहो ! शरीरदौस्थ्येऽपि कियती समता साधनानिता च। ___कतिचिद् दिनानन्तरं किञ्चित् शरीरसौस्थ्ये जाते, या विस्मृतिः उत्पन्ना सापि पुनः शनैः शनै: व्यपगता । अतः डॉकटरमहाशयैः प्रोक्तम् अधिकस्मृत्यर्थं भोजने यद् यद् भुक्तं स्यात्, तत्त्, स्वयं स्मरणीयं, स्मारणीयं वा शिष्यैः । तेषां गमनानन्तरं पूज्यैः शिष्येभ्य उक्तम् - कथयितारस्तु सर्वं ब्रुवन्ति, परं तत् सर्व न कार्यम् । अधुना वयं रुग्णालये, ग्लानाश्च, तेन सम्प्रति संयमजीवने या न गृहीतव्या, सा सदोषा स्वानुकूला गोचरी गृह्यते, तस्याः स्मरणे तु अधिकतरो दोष: संभाव्येत । किं दोषोत्पादद्वारा कर्मबन्धनार्थं संयमजीवनं, कर्मनिर्जरार्थं 'वा? । अतो गौतमाष्टकं, स्मरणादिकं वा स्मार्य, नान्यत् किञ्चित् । अहो ! कीदृशी आत्मजागृतिः?" || देहानुकूल्ये समुत्पन्ने रुग्णालयाद् गन्तुम् अनुमतिः मिलिता, तर्हि पूज्याः विजयचन्द्रोदयसूरिप्रमुखान् शिष्यान् प्रोक्तवन्तः, वयं पूर्वं पांजरापोले श्रीविजयनेमिसूरिज्ञानशालायां ७ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy