________________
तथा च पुरुषार्थरहितमेकमपि कार्यं न संभवत्यस्मिन् जगति ।
तथाऽपि ग्रन्थकारैः 'मोक्षे' त्यभिधानं पुरुषार्थं धर्मे एवाऽन्तर्गतं कृत्या त्रय एव पुरुषार्थाः प्ररूपिताः, यतो धर्मेणैव मोक्षः, धर्म एव मोक्षस्वरूपफलस्य कारणं च।
आत्मनः पौरुषं प्रकटीकर्तुं यः प्रयत्नः स पुरुषार्थ: कथ्यते ।
सर्वेऽपि संसारिजीवाः सुखमभिलषन्ति । यद्यपि तत्सुखं भवेत् भौतिकमात्मिकं वा स्वाधीनं पराधीनं वा भववर्द्धकं भवनाशकं वा, किन्तु जीवास्तु सुखमेव प्रार्थयन्ति । ततस्तदर्थं पुरुषार्थं कुर्वन्त्येव । पुरुषार्थव्यतिरेकेण केऽपि प्राणिनो जीवितुं न समर्थाः क्षणमपि। ____ अस्यां मेदिन्यां यस्मिन् दिने जीवोऽवतरति तद्दिनादेव-तत्क्षणादेव स पुरुषार्थमाचरति । रोदनं हसनं क्रीडनं चलनं आसनं स्वपनं जागरणं चेत्यादयः सर्वा अपि चेष्टाः पुरुषार्थस्यैव भेदाः सन्ति । एवं जीवने प्रत्येकमवस्थायां तदनुरूपा चेष्टाऽस्माभिः क्रियते । किन्तु 'सा चेष्टा पुरुषार्थः कथ्यते' इति तदा ज्ञातुं न समर्थाः, यतस्तथाविधबोधस्याऽभावात् । तथाऽपि बाल्यकाले रोदनं हसनं पठनं कीडनं च, यौवने धनोपार्जनं विषयसुखरमणं च, प्रौढत्वे कदाचिद्धर्माऽऽराधना कदाचिद्दुष्कृतस्य पश्चात्तापो, विशेषत आर्तध्याने रौद्रध्याने च रमणमित्यादयः चेष्टाः क्रियन्ते। ता एव चेष्टाः कदाचिदर्थपुरुषार्थत्वेन कदाचित् कामपुरुषार्थत्वेन कदाचिद्धर्मपुरुषार्थत्वेन च कथ्यंते, एवं जीवनं पुरुषार्थं विना न शक्यमेव ।
तत्र कामस्य कारणमर्थः धर्मश्च मोक्षस्य कारणमस्ति । तत्राऽपि धर्मस्तु शेषाणां त्रयाणामपि पुरुषार्थानां निदानम्, ततो धर्म एवोपादेयः। वर्तमानकाले त्वरितसुखाभिलाषिभिः क्षणिकशर्माभिकाङ्क्षिभिः जीवैः धर्मं गौणीकृत्याऽर्थकामौ एव प्रधानीकृतौ । तथा चाऽर्थकामयोः सुखार्थमेव विशेषतः प्रयत्नं कुर्वन्ति, किन्तु तन्नोचितम्, यतोऽर्थकामाभ्यां यत्सुखं लभते तत्सुखं पराधीनं क्षणिकं चाऽस्ति । ततो यत् पराधीनं तद्वस्तुतो दुःखमेव, यस्मात् कारणात् यावद् वातावरणं वस्तूनि वा सन्ति तावदेव तत्सुखमस्ति । किन्तु यदा तदेव वातावरण-वस्तूनि वा नष्टानि भवन्ति तदा तदेव तत् तत् वस्त्वादिकमवलम्बमानं सुखं दुःखे परिणमति । एवं सति मनसि क्लेशः संतापश्चोद्भवति, ततो येन सुखेन चित्ते संताप:- उद्वेग:- अप्रसन्नत्वं-व्याकुलता-शोकं इत्यादिक्लेशा उत्पद्यन्ते तत् सुखं कथं
19 ३२ @h
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org