SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ कथा चरित्र कृपा कृपाविज्ञानाद् ये, जगति विदिता, ज्ञाननिरताः, अनासक्ता आर्षाः, प्रकृतिसरलाः, साधकवराः । सुधीकस्तूराख्याः, सुयतिवृषभाः, सूरिमुकुटाः, कथं वा तेषां, गुणगणकथा मन्दमतिना? ।। प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरीश्वराणां जीवनचरितम् ॥ -विजयसोमचन्द्रसूरिः 69) 69 आचार्या जिनशासनोन्नतिकराः -७) वैशिष्ट्यविशिष्टे लोकेऽस्मिन् विविधानां दर्शनानां धर्माणां च सद्भावेऽपि अनेकान्तमण्डितमर्हद्दर्शनं जैनधर्मश्च वरीवर्तेते । तस्य दर्शनस्य प्ररूपकाः, तीर्थस्य स्थापकाश्च केवलज्ञान-दर्शनधरा विश्वकल्याणकारकाः, कृपापराः तीर्थकराः "अर्हन्तः", परं, अनेकान्तदर्शनस्य प्रसारकाः, जैनशासनस्योन्नतिकरा योगक्षेमकराश्च "आचार्याः" भगवन्त एव । उक्तं च "तित्थयरसमो सूरी, सम्मं जो जिनमयं पयासेई" इति। परमकृपालोः परमात्मनः श्रीमहावीरस्वामिनः शासने अद्यावधि अनेके श्रीसूरिभगवन्तः बभूवुः, भवन्ति, भविष्यन्ति च, ये स्वापेक्षां विना जिनशासनधुरो वहनं गीतार्थभावेन अकुर्वन्, कुर्वन्ति, करिष्यन्ति च । स्वनामधन्यानां तेषां पूर्वाचार्याणां पावनपरम्परायां सूरिचक्रचक्रवर्तिनः परमपूज्यपादाः शासनसम्राडाचार्यश्रीमद्विजयनेमिसूरीश्वरा देदीप्यन्ते स्म । निजान्विता नवरत्ननिभाः नव आचार्या भगवन्तः अशोभन्त । तेषामन्तिमा वात्सल्यवारिधीनां परमपूज्याचार्यश्रीविजयविज्ञानसूरीश्वराणां पट्टधराः प्राकृतवाग्विशारदाः, गुणगणसमलङ्कताः, प्रगुरुभगवन्तः, परमपूज्याचार्यश्रीविजयकस्तूरसूरीश्वराः ।। निर्मला येषां मुखाकृतिः, निर्दम्भा येषां कृतिः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy