________________
Jain Education International
मित्रसन्तापः
( १ ) त्वयि हन्त वयस्यपश्चिमे सति मित्रे प्रलयं समेष्यति । हृदयं च तमः समावृतं सततं मेऽश्रुवृते विलोचने ॥
एम्. के. नञ्जुण्डस्वामी
(२) ज्वलति त्वयि नाऽर्पितं सखे हृदुपोढं कियदप्युपायनम् । अयि संप्रति निर्गते त्वयि प्रतिखेदो हृदये कियानयम् ।
(३) तव हासवचांसि यान्यतिप्रमुदे पूर्वमुदाहृतान्यहः । इह दुःखकृते स्मृतानि चेत् प्रणयेनाऽलमलं सुहृत्तया ॥
(४) तव संस्मरणाश्रुणाऽऽप्लुते मम चित्ते विमले मृदुन्यपि प्रतिबिम्बमनुप्रवेशितं वद केनाऽद्य विचाल्यते तव ॥
Ole
For Private & Personal Use Only
www.jainelibrary.org