SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ महाजनश्च तमवदत् 'भोः । अस्माभिः केवलं भावनैव भाविता यात्रार्थम् । तदर्थं कृतो निश्चयः प्रदत्तमामन्त्रणं चाऽपि भावनास्वरूपे एवाऽऽस्ताम् । वयं तु नित्यमेवं भावनां भावयामः । अतो नास्ति यात्राप्रवासे काऽपि प्रवृतिः । अतो भवानपि यथेच्छं निवर्तताम् । एतेन प्रत्युत्तरेण स खिन्नोऽभवत् । तेन - 'एतैरहं वञ्चित:' इति चिन्तितम् । किञ्चिद् विचार्य स्वास्थ्यं च सम्प्राप्य स महाजनमुक्तवान् " भवतु यद् भूतम् । अहमप्येतान् सर्वान् नीत्वाऽत्राऽऽगतोऽस्मि । सर्वेऽपि बुभुक्षिता जाता: । काऽपि भोजनव्यवस्था करणीया । यूयं च मम साधर्मिकाः, अतोऽहमिच्छामि यद् भवन्तः सर्वेऽप्यस्माभिः सार्धं भोजनं कृत्वा मां लाभान्वितं कुर्वन्ताम्। साधार्मिकभक्तेर्लाभेन मामुपकुर्वन्तु । सर्वाऽपि व्यवस्था त्वरितगत्या कर्तव्याऽधुना, येन पुनर्गमनं सुलभं भवेत् ।" महाजनेन गदितम् - अस्मिंश्च कार्ये द्रव्यव्ययोऽधिको भविष्यति । स समगीत - नास्ति किमपि चिन्ताकारणम् । कदाऽहं भवादृशां लाभं प्राप्स्यामि ? | श्रुत्वैतद् वचनं तस्य सर्वोऽपि महाजनो भोजनव्यवस्थायां प्रवृत्तोऽभवत् । भिन्नभिन्नमिष्टान्न-पान-धान्यादिका सर्वाऽपि सामग्री सज्जीकृता । सूदा अपि आनीताः । समागताश्चाऽभ्यागता भोजनार्थमुपविष्टाः । भोजनादिना निवृत्य प्रतिगन्तुं स प्रवृत्तोऽभूत् । यावत् पुनःप्रस्थानार्थं स प्रवृत्तस्तावद् महाजनेनोक्तम्- अरे ! क्व गमिष्यन्ति सर्वे ? एतद्धनं को दास्यति ?' सोऽवोचत् किं नाम द्रव्यम् ? जना: किं नाम किम् ? एतस्य भोजनस्य । सज्जनः नाऽयं मम विषयः । मया तु केवलं भावनैव भाविता युष्मद्वत्... Jain Education International 1 - { कृते प्रतिकृतं सद्यो कुर्वन्ति हि मनस्विनः । हैमवचनामृतम् " 66 NO ५८ For Private & Personal Use Only } 1 www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy