SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ तस्य च गुरुभिः मुनिश्रीकस्तूरविजयः इत्यभिधानं कृतम् । दीक्षादिनादेव मुनिश्रीकस्तूरविजयाः पूज्यगुरुवर्याणां चरणे तथा समर्पणं कृतवन्तः यथा कथ्यते-निजचक्षुर्त्यां न कदा दृष्टं, कर्णाभ्यां न श्रुतं, जिह्वया न किञ्चिदुक्तं, मनसि न स्वयं चिन्तितं, परं गुरुवर्यैः यद् दृष्टं, श्रुतं, कथितं, चिन्तितं च तदेव प्रमाणीकृतम्। पूज्यगुरुवर्यैः - "दिवसे रात्रिः, रात्रौ वा दिवा" इत्युक्तं, तदपि तैः "तथा इति कृत्वा स्वीकृतम्: "आणाए धम्मो,' "आज्ञा गुरूणामविचारणीया' इति शास्त्रेषूक्तत्वात् । "गुरूणां चरणं मे शरणम्" इति मन्यमानाः, न कदाचित्तेषां शरणमुज्झितवन्तः, तेषां विनयं वा त्यत्त्कवन्तः यतः शास्त्रेषुक्तम् नाणस्स होई भागी, थिरयरदसणे चरित्ते य। धण्णा जावकहाए, गुरुकुलवासं न मुंचंति ॥ प्राप्नोति विनयाज्ज्ञानं, ज्ञानाद्दर्शनसम्भवः । ततश्चरणसम्पत्ति-श्चान्ते मोक्षसुखं लभेत् ।। इति ।। गुरुकृपाफलमपि तैः प्रत्यक्षमनुभूतम् । दीक्षाग्रहणकाले स्वकीया कीदृशी परिस्थितिः? तदनन्तरं च जिनशासननभोङ्गणे कीदृशी स्थितिः? गुरुकृपा फलति सर्वत्र; न विद्या, न च पौरुषम्....।। 69) विजयविज्ञानसूरीश्वराणां विज्ञानम् (69) परमपूज्या आचार्यश्रीविजयविज्ञानसूरीश्वराः शासनसम्राट्समुदाये चाणक्यनिभा बुद्धिमन्तः आसन् । पूज्यपादा आचार्यश्रीविजयनेमिसूरीश्वरा भगवन्तोऽपि यथाप्रसङ्गं तेषामभिप्रायं स्वीकृर्वन्ति स्म, सोल्लासं ब्रुवन्ति स्म च । "विज्ञानविजय ! त्वं खलुं धीमान्"। तेषामाचार्यश्रीविजयविज्ञानसूरीश्वराणामन्तरात्मनि एकोऽभिलाष आसीद्, यद्-“मदीय एकमात्र: कस्तूरविजयोऽस्तु, तस्य तु अनेका भवेयुः" ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy