SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ - - - यदस्य बालकस्य लग्नकुण्डल्यां केन्द्र सूर्य-बुध-चन्द्राः, धनराशौ च बृहस्पतिरित्याधुच्चतमो ग्रहयोगः । अतः खलु युवां धन्यौ, यद् युवयोः कुले एतादृशः पुत्ररत्नः समागतः, स युवयोः कुलदीपकः, जगदुपकारकश्च भविष्यति । पितृभ्यां तस्य "कान्तिलाल" इत्यभिधानं कृतम् । तस्य च रतिभाई, हिम्मतभाई इति बन्धू आस्ताम् । विद्योपार्जनकाले च मनसुखभाई-शेठाख्ये पोले जैनशालायां स पितृभ्यां प्रेषितः । खंभातनिवासिनः उमेदचंदभाईशिक्षकस्य समीपे व्यवहारिकोऽभ्यासः कारितः । परं तस्मै बालकाय व्यवहारिकाभ्यासो न रोचते अतः, भट्ठीनीबारीतिनामपोलवर्तिनि श्रीवीरविजयोपाश्रये वयोवृद्धो मुनिश्रीप्रतापविजयाख्यः साधुर्वर्तते, स तस्य समीपेऽहनिशं याति, शुभाशीर्वादं च गृह्णाति । एवं बाल्यत एव स साधूनां दर्शनं सेवां च करोति । विशेषतश्च वयोवृद्धाः पूज्यपादा आचार्यश्रीविजयसिद्धिसूरीश्वराः (बापजी महाराज) तस्य संसारिपितृव्याः, परमतपस्विनी साध्वी श्रीशान्तिश्री च संसारि-पितृष्वसा, आस्ताम् । एतादृशस्य कान्तिलालस्य चित्तं संसारे कथं रमेत? | तदा सर्वत्र प्रसिद्धाः शासनसम्राड्-आचार्यश्रीविजयनेमिसूरीश्वरा राजनगरे पांजरापोलवर्तिन्युपाश्रये समागताः । षोडशाब्दिको युवा कान्तिलालस्तत्र ययौ । पूज्यपादानां च दर्शनेनान्तरात्मनि अतीवाह्लादः सञ्जातः । तदैव वात्सल्यवारिधीनां पंन्यासप्रवराणां परमपूज्यश्रीविज्ञानविजयगणिवराणां समागमोऽभवत् । दिने दिने सम्पर्को वर्धते स्म, वर्धमानश्च साधूनां सम्पर्कः समर्पणे परिणमते "शिष्यस्तेऽहं, शाधि मां, त्वां प्रपन्नम्" ॥ (३) ____७) गुरुकृपा हि केवलम् (७) परमपूज्यपादा आचार्यश्रीविजयनेमिसूरीश्वराः सपरिवारा राजनगराद् विहत्य क्रमशो राजस्थान-मरुभूमि गतवन्तः । तत्र मेवाडभूमौ नावलीस्टेशनादूरवर्तिनि गोधूमक्षेत्रे रसतुरगनारदेन्दु (१९७६)मिते विक्रमाब्दे फाल्गुनमासे कृष्णपक्षे तृतीयायां तिथौ राजनगरात् पलायित्वा समागतः कान्तिलालः पंन्यासप्रवरश्रीविज्ञानविजयानां सन्निधौ दीक्षितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy