________________
"कस्तूरविजयः केवलं मदीयो न भूत्वा शासनस्य भूयात्:"। "दीक्षासमये यः शब्दानामुच्चारमपि स्पष्टं कर्तुं न अशक्नोत्, तस्य कस्तूरविजयस्य नाम साधवः श्रावकाश्च सदा गृह्णीयुः"
इति गुरुशिष्यभावं विस्मृत्य मुनिकस्तूरविजयं श्रुतसम्पन्नं कर्तुं नानाविधाः सर्वे प्रयासाः कृताः । सर्वे बाह्या व्यवहाराः त्यक्ताः, चातुर्मासा अप्यनेके मरुभूमौ बिडालादिग्रामेषु कृताः यत्र केऽपि न समायान्ति, गच्छन्ति वा । यदि एको मुनिकस्तूरविजयः समर्थो भवेत्, तदनु का चिन्ता? ।
एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भरम् । सहैव दशभिः पुत्रै-रिं वहति गर्दभी ।। इत्युक्तत्वात् ।
गुरुनिष्ठो मन्दबुद्धिरपि मुनिश्रीकस्तूरविजयो गुरूणां मनोभिलाषं विज्ञाय ज्ञानयोगं स्वीकृत्य सततस्वाध्यायपरतया श्रुतनिष्ठो गीतार्थः सञ्जातः ॥
"अहो ! ते खलु धन्याः शिष्याः, येषां हृदये गुरूणां संवासः, ते हि धन्या गुरवः, येषां हृदये शिष्याणां समुत्कर्षः" ||
69) ज्ञानवन्तो गुरुवराः ("गुरुजी") 69) विनयाद् गुरुकृपातो वा यथा ज्ञानप्राप्तिः, तथा प्रयाससाध्यापि ज्ञानसम्पत्तिः । मुनि श्रीकस्तूरविजयः संसारित्वे, संयमस्वीकारानन्तरं च अक्षरोच्चारणमपि स्पष्टं कर्तुं समर्था नासन्, अतः सर्वे द्रष्टार एवं मन्यन्ते स्म-" मुनिश्रीकस्तूरविजयोऽयं कथं अध्येष्यति कथं वा ज्ञान प्राप्स्यति? कथं च व्याख्यानं दास्यति ?; परं यथार्थप्रयत्नशीलतया, स्वाध्यायपरतया च पण्डितानामसद्भावेऽपि स्वयं सततं सन्निष्ठं प्रयास समारभ्य न केवलं ज्ञानिनः, किंतु परमगीतार्थाः, तात्त्विकाः, सर्वमान्याश्चाभवन् ।
"श्रद्धावान् लभते ज्ञानं, तत्परः संयतेन्द्रियः" इति गीतोक्तिश्चरितार्थीकृता । यो ज्ञानप्राप्तिप्रयासः संयमस्य प्रारम्भषु वर्षेष्वासीत्, स एव जीवनस्यान्तिमक्षणं यावद्
19 १० en
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org