________________
मुनीश्वराणां निर्यामणाऽकारि । ततस्सर्वेऽपि वाचंयमाः मोक्षभाजोऽभवन् । अपि तु प्रदत्तशिवसरणिः स सूरीश: स्वयमेव नाऽभवत् परमपदभागधैर्यत्वात् । अहो ! धैर्यस्य बलम्।
एवं सूरिणा सोढाऽकल्प्ययातनाऽपि व्यर्थीभूताऽधीरतया । एवमिन्द्रियस्य स्वायत्तं तथा तितिक्षाधैर्ययोः परिशीलनं मनसः स्थैर्यार्थमत्यावश्यकमस्ति ।
मित्र ! साम्प्रतं तु मनः स्थिरीकर्तुं रेचक-कुम्भक-शून्यक-पूरक-अनुलोम-विलोमरूपप्राणायामादयः प्रयोगाः प्रचलिताः सन्ति । तथैव प्रत्याहार-ध्यानादयोऽपि प्रवर्तन्ते । ते सर्वेऽपि मनः स्थैर्यार्थं शोभना उपायाः सन्ति ।
अधुनाऽऽवश्यकक्रियावसरो भवति, ततो विरमामि । प्रश्नं पृष्टवा त्वया मय्युपकारः कृतः, यतः स्वाध्याये चिन्तने च कालो व्यतीतः।
19 ४५ eh
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org