________________
कथा विवादो व्याघ्र-सिंहयोः ।
- विजयशीलचन्द्रसूरिः आसीदेकं वनम् । अतिगहनम् । अतिघोरम् । बिभीषिकाशतसङ्कलम् । परितो हिंस्रैः पशुभिर्व्याप्तम् । तत्र द्वौ वसतः स्म । एको मृगेन्द्रः अपरः शार्दूलश्च । । द्वावपि स्वं वनराजम्मन्यौ भृशं पराक्रमिणौ च ।
द्वावपि च तौ स्वीयसाम्राज्यहानिभयेनेव परस्परं मित्रायते । नैकोऽपि परस्य मर्यादामुल्लङ्घते स्म।
कार्यक्षेत्रमपि ताभ्यां स्वाभाविकविवेकशीलतयैव पृथक् पृथक् स्वीकृतमासीत् । अतो न कोऽपि तयोर्मध्येऽन्यस्य क्षेत्रे प्रवेशं हस्तक्षेपं वा करोति स्म । ____ एकदा शीतकालः प्रवृत्तः । सर्वेऽपि जन्तवः शीतकातराः स्वस्वकोटरे निलीय स्थिताः । न कोऽपि प्राणी वने विचरन् दृश्यते स्म।
इमावपि शीतकम्पितौ तु अभूतामेव, किन्तु भक्ष्यालाभेन क्षुधादुर्बलावपि अभूताम् । तयोर्मनसि लग्नं यत्-क्षुधितस्य शीतमतिशयेन बाधत एव, अतो भक्ष्यगवेषणाऽवश्यं त्वरितं च कर्तव्यैव। .
समदुःखितौ तौ दैवयोगात् समकमेव स्वस्वावासान्निर्गतवन्तौ, भोजनान्वेषणे च इतस्ततः परिभ्रमन्तौ अकस्मादेवैकत्र स्थले मीलितवन्तौ ।
पृष्टपरस्परकुशलोदन्तयोस्तयोर्दन्ता दंष्ट्राश्च शैत्यप्राचुर्येण कट-कट् इति शब्दं बाढं कर्तुं लग्नाः । ईदृशीं दशां उभयस्यावलोक्य मृगेन्द्रेण सहसा शार्दूलः पृष्टः - भोः ! पौषमासे शीतं
19 ४६ er
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org